दूराद्धूते च

8-2-84 दूरात् हूते च पदस्य पूर्वत्र असिद्धम् वाक्यस्य टेः

Sampurna sutra

Up

दूरात् हूते वाक्यस्य टेः प्लुतः उदात्तः

Neelesh Sanskrit Brief

Up

दूरात् सम्बोधनं कर्तुं यत् वाक्यम् उच्चार्यते, तस्य टिसंज्ञकः प्लुतः उदात्तः च भवति ।

Neelesh English Brief

Up

The टिसंज्ञक स्वर of the sentence used for calling someone from a distance becomes प्लुत and उदात्त.

Kashika

Up

दूराद्धूते यद् वाक्यं वर्तते तस्य टेः प्लुतो भवति, स चोदात्तः। आह्वानं हूतम्, शब्देन संबोधनम्। आगच्छ भो माणवक देवद॒त्त३। आगच्छ भो माणवक यज्ञद॒त्त३। दूरं यद्यप्यपेक्षाभेदादनवस्थितम्, तथापि हूतापेक्षं यत् तदाश्रीयत इति यत्र प्राकृतात् प्रयत्नात् प्रयत्नविशेष आश्रीयमाणे शब्दः श्रूयते तद् दूरम्। हूतग्रहणं च सम्बोधनमात्रोपलक्षणार्थं द्रष्टव्यम्। तेन यत्राप्याह्वानं नास्ति, तत्रापि प्लुतिर्भवति — सक्तून् पिब देवद॒त्त३, पलायस्व देवद॒त्त३ इति। अस्याश्च प्लुतेरेकश्रुत्या समावेश इष्यते। दूरादिति किम्? आगच्छ भो माणवक देवदत्त। दूरादाह्वाने वाक्यस्यान्ते यत्र संबोधनपदं भवति, तत्रायं प्लुत इष्यते। तेनेह न भवति — देवदत्त आगच्छ॥

Siddhanta Kaumudi

Up

दूरात्संबोधने यद्वाक्यं तस्य टेः प्लुतः स्यात् । सक्तून्पिब देवदत्त3 ॥

Laghu Siddhanta Kaumudi

Up

दूरात्सम्बोधने वाक्यस्य टेः प्लुतो वा॥

Neelesh Sanskrit Detailed

Up

दूरे विद्यमानं कञ्चन आह्वातुम् (शब्देन सम्बोधयितुम्) यस्य वाक्यस्य प्रयोगः क्रियते, तस्य वाक्यस्य टिसंंज्ञकः स्वरः प्लुतः उदात्तः च भवति । यथा — 1. दूरे विद्यमानम् देवदत्तम् सम्बोधयितुम् उच्चारिते सक्तून् पिब देवदत्त3 इत्यस्मिन् वाक्ये विद्यमानः तकारोत्तवर्ती अकारः प्रकृतसूत्रेण प्लुतः, उदात्तः च भवति । 2. दूरे विद्यमानम् इन्द्रवर्माणं सम्बोधयितुम् उच्चारिते सक्तून् पिब इन्द्रवर्म3न् इत्यस्मिन् वाक्ये विद्यमानः मकारोत्तवर्ती अकारः प्रकृतसूत्रेण प्लुतः, उदात्तः च भवति । सम्बोधनवाची शब्दः वाक्यस्य अन्ते विद्यते चेदेव अस्य सूत्रस्य प्रयोगः भवति । अतएव, देवदत्त, सक्तून् पिब इत्यस्मिन् वाक्ये बकारोत्तरः अकारः प्रकृतसूत्रेण प्लुतः उदात्तः वा न जायते ।

Balamanorama

Up

<<दूराद्धूते च>> - दूराद्धूते च । यत्र प्रदेशे स्थितस्य प्रयत्नोच्चारितं बोध्यमानो न शृणोति किं त्वधिकं प्रयत्नमपेक्षते तद्दूरम् । हूतमाह्वानं । भावे क्तः । तच्च सम्बोधनमिह विवक्षितम् ।वाक्यस्य टेः प्लुत उदात्त॑ इत्यधिकृतम् । तदाह-दूरात्सम्बोधन इत्यादिना । यदि तु आह्वानमेवात्रं विवक्षितं स्यात्तर्हि एहि देवदत्तेत्यादावाह्वानवाचकपदे सत्येव स्यात् । सम्बोधनपरत्वे तु तदन्यत्रापि भवतीत्यभि प्रेत्योदाहरति — सक्तूनिति ।

Padamanjari

Up

दूरादिति'दूरान्तिकार्थेभ्यो द्वितीया च' इति पञ्चमी, हूतमुह्वानम्, भावे निष्ठा । दूरादित्युच्यते, दूरं चानवस्थितम्, तदेव हि कञ्चित्प्रत्यतिदूरं कञ्चित्प्रत्यन्तिकं भवति । एवं हि कश्चित्कञ्चिदाह -य एष पार्श्वतः करकस्तमानयेति; स आह - उत्थाय गृहाण, दूरे न शक्नोमि गन्तुमिति; अपर आह - दूरं मथुरायाः पाटलिपुत्रमिति, स आह - न दूरमन्तिकमिति, तदेवं दूरस्यानवस्थितत्वान्न ज्ञायते - कस्यामवस्थायां प्लुत्या भवितव्यमिति ? अत आह - दूरमित्यादि । ह्वानमु हूतम्, तदपेक्षया यद्द्टरं तदिहाश्रीयते; दूराद्धूतमित्यन्वयात् । इतिकारणो हेतौ, न तु देशमपेक्ष्य देशान्तरं दूरं भवति । किमिदं हूतापेक्षं दूरम् ? इत्यत आह - यत्रेति । यत्र हूते, प्राकृतात्स्वभावसिद्धत् । एवंविधे हूते देशद्वारकहूतापेक्षमपि दूरत्वमस्तीति भावः । हूतग्रहणं चेति । येन पर आगमने नियुज्यते तद्धूतम्, तच्च नान्तरेण सम्बोधनं सम्बवति, सम्बोधितो हि पुरुष आगमने पानादौ वा नियुज्यते, अतो नान्तरीयकत्वाद्धूतेन सम्बोधनमात्रं लक्ष्यते । उपलक्षणे प्रयोजनमाह - तेनेति । इहायं प्लुतो दूरात्सम्बोधने विधीयते, एकश्रुतिरपि तत्रैव - ठेकश्रुति दूरात्सम्बुद्धौऽ इति, एकस्मिंश्च विषये प्राप्तानां बाधविकल्पसमुच्चयानामन्यतमेन भवितव्यम्, तदिह को भवति ? इत्याह - अस्याश्चेति । बाधस्तावद्विषयभेदे सति भवति, यथा काणोः; तत्र हि कस्य विशेषो विषयः, अणस्तु धातुसामान्यम्; इह तु नैवं विषयभेदोऽस्ति । विकल्पोऽपि सहप्राप्तयोर्भवति, यथा तव्यदादीनाम् । इह चैकश्रुतौ कर्तव्यायां प्लुतस्यासिद्धत्वात्सहप्रप्तिर्नास्ति, तस्मात्पारिशेष्यात्समावेश एव भवति । एकस्मिन्वाक्ये द्वयोरपि युगपत्प्रवृत्तिरित्येतावता चात्र समावेशवाचोयुक्तिः, तत्वतस्तु वाक्यस्य टेः प्लुत उदाहृतः, परिशिष्टस्यैकश्रुत्यमिति बाध एव ॥