6-4-24 अनिदितां हलः उपधायाः क्ङिति असिद्धवत् अत्र आभात् नलोपः
index: 6.4.24 sutra: अनिदितां हल उपधायाः क्ङिति
अनिदितां हलः अङ्गस्य उपधायाः क्ङिति नलोपः ।
index: 6.4.24 sutra: अनिदितां हल उपधायाः क्ङिति
अनिदित्-हलन्तस्य अङ्गस्य उपधा-नकारस्य कित् प्रत्यये परे ङित्-प्रत्यये च परे लोपः भवति ।
index: 6.4.24 sutra: अनिदितां हल उपधायाः क्ङिति
The उपधा नकार of an अङ्ग that is अनिदित् and हलन्त is removed in presence of a कित् or a ङित्-प्रत्यय.
index: 6.4.24 sutra: अनिदितां हल उपधायाः क्ङिति
अनिदितामङ्गानां हलन्तानामुपधायाः नकारस्य लोपो भवति क्ङिति प्रत्यये परतः। स्रस्तः। ध्वस्तः। स्रस्यते। ध्वस्यते। सनीस्रस्यते। दनीध्वस्यते। अनिदिताम् इति किम्? नन्द्यते। नानन्द्यते। हलः इति किम्? नीयते। नेनीयते। उपधायाः इति किम्? नह्यते। नानह्यते। क्ङितीति किम्? स्रंसिता। ध्वंसिता। अनिदितां नलोपे लङ्गिकम्प्योरुपतापशरीरविकारयोरुपसङ्ख्यानं कर्तव्यम्। विलगितः। विकपितः। उपतापशरीरविकारयोः इति किम्? विलङ्गितः। विकम्पितः। रञ्जेर्णौ मृगरमण उपसङ्ख्यानं कर्तव्यम्। रजयति मृगान्। जनीजॄष्क्नसुरञ्जोऽमन्ताश्चेति मित्त्वादुपधाह्रस्वत्वम्। मृगरमण इति किम्? रञ्जयति वस्त्राणि। घिनुणि च रञ्जेरुपसङ्ख्यानं कर्तव्यम्। रागी। त्यजरजभज इति निपातनाद् वा सिद्धम्। रजकरजनरजःसूपसङ्ख्यानं कर्तव्यम्। रजकः। रजनम्। रजः।
index: 6.4.24 sutra: अनिदितां हल उपधायाः क्ङिति
हलन्तानामनिदितामङ्गानामुपधाया नस्य लोपः स्यात्किति ङिति च । उगिदचाम् <{SK361}>इति नुम् । संयोगान्तस्य लोपः <{SK54}> । नुमो नकारस्य क्विन्प्रत्ययस्य कुः <{SK377}> इति कुत्वेन ङकारः । प्राङ् । अनुस्वारपरसवर्णो । प्राञ्चौ । प्राञ्चः । प्राञ्चम् । प्राञ्चौ ॥
index: 6.4.24 sutra: अनिदितां हल उपधायाः क्ङिति
हलन्तानामनिदितामङ्गानामुपधाया नस्य लोपः किति ङिति। नुम्। संयोगान्तस्य लोपः। नस्य कुत्वेन ङः। प्राङ्। प्राञ्चौ। प्राञ्चः॥
index: 6.4.24 sutra: अनिदितां हल उपधायाः क्ङिति
'इदित्' इत्युक्ते सः शब्दः यस्मिन् इकारः इत्संज्ञकः अस्ति । 'अनिदित्' इत्युक्ते सः शब्दः यस्मिन् इकारः इत्संज्ञकः नास्ति । यः अनिदित् हलन्तः शब्दः, तस्य उपधाभूतस्य नकारस्य कित्-प्रत्यये परे ङित्-प्रत्यये च परे अनेन सूत्रेण लोपः भवति ।
यथा - मन्थँ विलोडने इति कश्चन धातुः । अस्मिन् धातौ इकारः इत्संज्ञकः नास्ति, अतः अयं धातुः अनिदित् अस्ति । इत्संज्ञकस्य अकारस्य लोपे कृते 'मन्थ्' इति हलन्तमङ्गमपि जायते । अतः अस्य कित् / ङित् प्रत्यये परे वर्तमानसूत्रेण नकारलोपः भवति । यथा - मन्थ् + क्त्वा = मथित्वा । मन्थ् + यक् + ते = मथ्यते ।
यदि अङ्गम् इदित् अस्ति, अजन्तं वा अस्ति, तर्हि अयं लोपः न भवति । यथा -
1) 'वदिँ अभिवादनस्तुत्योः' अयं इदित् धातुः । इदितो नुम् धातोः 7.1.58 इत्यनेन अस्य धातोः नुमागमे कृत् 'वन्द्' इति रूपम् सिद्ध्यति । 'वन्द् + क्त्वा' इति स्थिते यद्यपि 'वन्द्' इति हलन्तमङ्गम्, तथापि इदमनिदित् नास्ति, अतः अस्य नकारलोपः न भवति । वन्द् + क्त्वा = वन्दित्वा ।
2) 'णी प्रापणे' अयं धातुः अनिदित् अस्ति परन्तु अजन्तः अस्ति । अतः अस्य उपधा-नकारस्य अपि अनेन सूत्रेण लोपः न भवति । यथा - नी + क्त्वा = नीत्वा ।
index: 6.4.24 sutra: अनिदितां हल उपधायाः क्ङिति
अनिदितां हल उपधायाः क्ङिति - प्र-अन्च् इति स्थिते — अनिदिताम् ।अङ्गस्ये॑त्यधिकृतं बहुवचनेन विपरिणम्यते । हल इति तद्विशेषणम् । तदन्तविधिः ।अनिदिता॑मित्यपि तद्विशेषणम् । इत्=ह्रस्व इकारः, इत्ित्संक्षको येषां तानि इदिन्ति, न इदिन्ति, अनिदिन्ति, तेषामिति विग्रहः । अवयवषष्ठन्तमेततदुपधाया इत्यत्रान्वेति । 'उपधाया' इत्यप्यवयवषष्ठन्तम् । तश्च 'श्नान्न लोपः' इत्यतो नेत्यनुवृत्ते लुप्तषष्ठीके अन्वेति । क् च ङ् च क्ङौ, तौ इतौ यस्येति विग्रहः । तदाह — हलन्तानामित्यादिना । इति चकारात्पूर्वस्य नकारस्य लोपः । प्र अच् प्राच् इति स्थितम् । तस्मात्सुबुत्पत्तिः । सुटि विशेषमाह — उगिदचामिति नुमिति । सौ विशेषमाह — संयोगान्तस्य लोप इति ।हल्ङ्यादिना सुलोपे सती॑ति शेषः । कुत्वेन ङकार इति । नासिकास्थानसाम्यादिति भावः । अनुस्वारपरसवर्णाविति । प्राच् औ इति स्थिते-अचः । अच इत्यन्चुधातोःअनिदिता॑मिति लुप्तनकारस्यानुस्वार ।अनुस्वारस्य यी॑ति तस्य परसवर्णो ञकारः । नस्य श्चुत्वं तु न भवति, अनुस्वारं प्रति तस्याऽसिद्धत्वादित्यर्थः ।
index: 6.4.24 sutra: अनिदितां हल उपधायाः क्ङिति
इकार इत्संज्ञको येषा ते इदितः ततोऽन्येऽनिदितः, तेषां विषेषणम् - हलः इति । व्यत्ययेन त्वेकवचनम् । सनीस्रंस्यत इति । नीग्वञ्चु इत्यादिनाऽभ्यासस्य नीगागमः । नानन्द्यत इति । टुअणदि समृद्धौ, यङ्, दीर्घोऽकितः । नह्यत इति । कित्परत्वेन नकारो विशेष्यते । येन नाव्यावधानमित्येकेन व्यावधानमाश्रीयते - इत्येततु दुर्ज्ञानमिति भावः । लङ्गिकम्प्योरिति । इदित्वाद्वचनम् । कृच्छ्रप्राप्तिरत्रोपतापः न रोगः, शरीरविकार इत्येव सिद्धत्वात् । एशरीरविकारोऽत्र व्याधिरुच्यते, नस्वाभाविकः स्थौल्यादिः । विलगितः, विकपित इति । गत्यर्थाकर्मक इत्यादिना कर्तरि क्तः । मित्वादुपधाह्रस्वत्वमिति । एतदेव मित्ववचनं ज्ञापकम् - रञ्जेरक्ङित्यप्युपधालोपो भवतीति । रजकरजनरजः सूपसंख्यानमिति । कित्वात्सिद्धम् । कित एते औणादिकाः प्रत्ययाः, क्वुन् शिल्पिसंज्ञयोः - रजकः । पुंयोगान्ङीषु - रजकी । अपुंयोगे तु नैव ङीषा भवितव्यम् । रञ्जेः क्युन् - रजनः । स च बाहुलकाट्टित्, रजनी । श्रॄअञ्जिभ्यां किच्च इत्यसुन्, शिरः रजः ॥