न कोपधायाः

6-3-37 न कोपधायाः उत्तरपदे स्त्रियाः पुंवत् भाषितपुंस्कादनूङ्

Kashika

Up

index: 6.3.37 sutra: न कोपधायाः


कोपधायाः स्त्रियाः पुंवद्भावो न भवति। पाचिकाभार्यः। कारिकाभार्यः। मद्रिकाभार्यः। वृजिकाभार्यः। मद्रिकाकल्पा। वृजिकाकल्पा। मद्रिकायते। वृजिकायते। मद्रिकामानिनी। वृजिकामानिनी। वेलिपिकायाः धर्म्यं वैलेपिकम्। कोपधप्रतिषेधे तद्धितवुग्रहणं कर्तव्यम्। इह मा भूत्, पाकभार्यः, भेकभार्यः इति।

Siddhanta Kaumudi

Up

index: 6.3.37 sutra: न कोपधायाः


कोपधायाः स्त्रिया न पुंवत् । पाचिकाभार्यः । रसिकाभार्यः । मद्रिकायते । मद्रिकामानिनी ॥<!कोपधप्रतिषेधे तद्धितवुग्रणम् !> (वार्तिकम्) ॥ नेह । पाका भार्या यस्य स पाकभार्यः ॥

Balamanorama

Up

index: 6.3.37 sutra: न कोपधायाः


न कोपधायाः - न कोपधायाः । पाचिकाभार्य इति । पाचिका भार्या यस्येति विग्रहः । पचो ण्वुल् । अकादेशटाबित्त्वानि । पुंवत्त्वे टाबित्त्वयोर्निवृत्तिः स्यात् । रसिकेति । रसोऽस्या अस्तीति रसिका । 'अत इनिठनौ' इति ठन् ।ठस्येकः॑ । टाप् । पुंवत्त्वनिषेधः । पुंवत्त्वे तु टापो निवृत्तिः स्यात् । मद्रिकायते इति । मद्राख्ये देशविशेषे भवा मद्रिका ।मद्रवृज्योः कन् । टाप् । इत्त्वम् । मद्रिकेवाटचरतीत्यर्थः ।क्यह्भानिनोश्चे॑ति पुंवत्त्वं प्राप्तमिह निषिध्यते । मद्रिकामानिनीति । मद्रिकां मन्यत इत्यर्थेमनश्चे॑ति णिनिः । उपपदसमासः । इहापिक्यङ्भानिनोश्चे॑ति पुंवत्त्वं प्राप्तं निषिध्यते । उभयत्रापि पुंवत्त्वे टाबित्वर्योर्निवृत्तिः स्यात् । तद्धितवुग्रहणमिति ।न तद्धितवुकोपधायाः॑ इति सूत्रं पठनीयमिति यावत् । तद्धितसंबन्धी वुसंबन्धी च यः ककारस्तदुपधायाः स्त्रिया न पुंवत्त्वमिति फलति । मद्रिकायते इति ।तद्धितकोपधोदाहरण् । पचिकाभार्य इति तु वुसबन्धिकोपधोदाहरणम् । तद्धितबुग्रहणस्य प्रयोजनमाह — नेहेति । पाकेति ।अर्भकपृथुकपाका वयसी॑त्युणादिषु कप्रत्ययान्तो निपातितः । अयं तद्धितस्य वुप्रत्ययस्य वा न ककार इति नात्र पुंवत्त्वनिषेध इति भावः ।

Padamanjari

Up

index: 6.3.37 sutra: न कोपधायाः


मद्रेषु भवा मद्रिका, वृजिका, मद्रवृज्योः कन् । वैलेपिकमिति । अण्महिष्यादिभ्यः, अत्र भास्याढेअ तद्धिते एइति ह्याइपसंख्यानिकी प्राप्तिः प्रतिषिद्ध्यते । पूर्वेषु तु सौत्री । तद्धितवुयग्रहणमिति । तद्धितस्य यः ककारः वोश्च यः ककारः तस्येति वक्तव्यमित्यर्थः । पाकभार्य इति । पाकशब्दः प्रथमवयोवाची, ततो ङीबपवादोऽजादित्वाट्टाप् ॥