8-2-82 वाक्यस्य टेः प्लुतः उदात्तः पदस्य पूर्वत्र असिद्धम्
वाक्यस्य टेः प्लुतः उदात्तः
इतः परम् अस्य पादस्य अन्तिमं सूत्रपर्यन्तं निर्दिष्टेषु सन्दर्भेषु वाक्यस्य टि-संज्ञकः प्लुतः तथा उदात्तः भवति ।
In the context of all the सूत्राणि till the end of this पाद, the टि-संज्ञक स्वर of the sentence would be considered प्लुत and उदात्त.
अधिकारोऽयम्। वाक्यस्य टेरिति, प्लुत इति च, उदात्त इति च, एतत्त्रयमप्यधिकृतं वेदितव्यमा पादपरिसमाप्तेः। यदि ऊर्ध्वमनुक्रमिष्यामो वाक्यस्य टेः प्लुत उदात्त इत्येवं तद् वेदितव्यम्। वक्ष्यति — <<प्रत्यभिवादेऽशूद्रे>>८.२.८३। अभिवादये देवदत्तोऽहं भोः, आयुष्मानेधि दे॒व॒द॒त्त३। पदाधिकारोऽनुवर्तत एव। वाक्यग्रहणमनन्त्यस्य पदस्य प्लुतनिवृत्त्यर्थम्। टिग्रहणं व्यञ्जनान्तस्यापि टेरचः प्लुतो यथा स्यात् — अ॒ग्नि॒चि३त् इति ॥
इत्यधिकृत्य ॥
इदम् अधिकारसूत्रम् अस्ति । अस्य व्याप्तिः <<एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुतौ>> 8.2.107 इति यावत् वर्तते । अस्मिन् अधिकारे विद्यमानैः सूत्रैः निर्दिष्टेषु सन्दर्भेषु वाक्यस्य टि-संज्ञकस्य स्वरः प्लुतः उदात्तः च भवति — इति अस्य अधिकारस्य अर्थः ।
<<वाक्यस्य टेः प्लुत उदात्तः>> - अथ प्लुतप्रगृह्रा इति सूत्राकाङ्क्षितप्लुतप्रगृह्रयोर्मध्ये प्रथमोपात्तप्लुतप्रकरणमारभते — वाक्यस्य टेः ।पदस्ये॑त्यधिकृतम् । वाक्यस्य टेः पदावयवस्य प्लुतो भवति, सच उदात्तो भवतीत्यर्थः । अत्र पदस्येत्यनुवृत्तिर्नश्छव्यप्रशानित्याद्युत्तरार्था, इहानुवृत्तिविच्छेदे उत्तरत्रानुवृत्तेरसंभवात् । वाक्यस्येत्यभावे पदस्य टेरित्युक्ते यावन्ति वाक्ये पदानि तावतां टेः प्लुतः प्रसज्येत ।वाक्यस्ये॑त्युक्ते तु वाक्यस्य टिरन्त्यस्यैव पदस्य संभवतीति न दोषः । टिग्रहणाभावे प्लुतश्रुत्याऽचश्चेति परिभाषयाऽच इत्युपस्थितौ तस्य वाक्यविशेषणत्वात्तदन्तविधावजन्तस्य वाक्यस्येत्यर्थे सत्यलोऽन्त्यपरिभाषया वाक्यान्तस्याचः प्लुत इति पर्यवसानाद्व्रामं गच्छाग्निचि ३ दित्यादिहलन्तवाक्येषु प्लुतो न स्यात् । टिग्रहणे तु तत्सामर्थ्यादेव टिनाऽचो विशेषणाट्टेरवयवस्याचः प्लुत इत्यर्थो लभ्यत इति न दोष इति भाष्ये स्पष्टम् । इत्यधिकृत्येति ।प्लुतविधय आरभ्यन्ते॑ इति शेषः ।
अधिकारोऽधिकारान्तरनिवर्तक इति वाक्याधिकारेण पदाधिकारस्य निवृत्तिः प्राप्नोति, ततश्च भवन्तौ - इत्यादावपदान्तस्यापि नकारस्य'नश्च्छव्यप्रशान्' इति रुत्वं प्रसज्येत ? इत्याशङ्क्याह - पदाधिकारोऽनुवर्तत एवेति । न हि वाक्यग्रहणेन पदाधिकारः शक्यो निवर्तयितुम्; यो हि वाक्यस्य टिः, स सन्नियोगतः पदस्यापि भवत्येव । अथ वाक्यग्रहणं किमर्थम्, यावता वाक्यस्थस्यैव पदस्य प्रयोगः, न केवलस्य ? तत्राह - वाक्यग्रहणमिति ।'पदस्य टेः' इत्युच्यमाने वाक्ये यावन्ति पदानि तेषां सर्वषां टेः प्लुतः प्राप्नोति, इष्यते च वाक्यपदयोर्यष्टिस्तस्यैव यथा स्यादिति । टिग्रहणमित्यादि । असति टिग्रहणे प्लुतश्रुत्याऽच्परिभाषोपस्थानादचा तदन्तविधौ सति अजन्तस्यैव वाक्यस्यालोऽन्त्यस्य प्लुतः स्यात्; यथा नपुंसकह्रस्वत्वम् - ग्रामणि कुलमित्यादौ भवति, न पुनः सुवागित्यादौ; तद्वत् । टिग्रहणे तु सति तदुपादानसामर्थ्याट्टिना अज्विशेष्यते, न त्वचा टिरिति हलन्तस्यापि प्लुतः सिध्यति ॥