निष्ठा

3-2-102 निष्ठा प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

<<क्तक्तवतू निष्ठा>> १.१.२६ इत्युक्तम्, स निष्ठासंज्ञकः प्रत्ययो भूते भवति। कृतम्। कृतवान्। भुक्तम्। भुक्तवान्। निष्ठायामितरेतराश्रयत्वादप्रसिद्धिः। संज्ञायां क्तक्तवतू भाव्येते, सतोश्चानयोः संज्ञया भाव्यम्। नैष दोषः। भाविनी संज्ञा विज्ञायते। स भूते भवति, यस्योत्पन्नस्य निष्ठेत्येषा संज्ञा भवति। सामर्थ्यात् क्तक्तवत्वोर्विधानमेतत्॥ आदिकर्मणि निष्ठा वक्तव्या॥ प्रकृतःकटं देवदत्तः। प्रकृतवान् कटं देवदत्तः॥

Siddhanta Kaumudi

Up

भूतार्थवृत्तेर्धातोर्निष्ठा स्यात् । तत्र तयोरेव - <{SK2833}> इति भावकर्मणोः क्तः कर्तरि कृत् <{SK2832}> इति कर्तरि क्तवतुः । उकावितौ । स्नातं मया । स्तुतस्त्वया विष्णुः । विष्णुर्विश्वं कृतवान् ॥

Laghu Siddhanta Kaumudi

Up

भूतार्थवृत्तेर्धातोर्निष्ठा स्यात्। तत्र तयोरेवेति भावकर्मणोः क्तः। कर्तरि कृदिति कर्तरि क्तवतुः। उकावितौ। स्नातं मया। स्तुतस्त्वया विष्णुः। विश्वं कृतवान् विष्णुः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<निष्ठा>> - निष्ठा । भूते इति धातोरिति चाधिकृतम् । तदाह — भूतार्थेत्यादि । भावकर्मणोः क्त इति । तथा च क्तप्रत्ययविषये कर्तरीति न संबध्यते इति भावः । कर्तरि क्तवतुरिति । कृत्यक्तखलर्थानामेव भाव कर्मणोर्विधानादिति भावः ।तयोरेव कृत्युक्ते॑त्यत्रलः कर्मणी॑त्यस्मात्सकर्मकेभ्यः कर्णि कर्तरि च अकर्मकेभ्यो भावे कर्तरि चेत्यनुवर्तते । ततश्च अकर्मकेभ्यो भावे क्तः, सकर्मकेभ्यस्तु कर्मणीति व्यवस्था लभ्यते इति मत्वोदाहरति — स्नातं मयेति । अकर्मकत्वाद्भाव क्तः । स्तुतस्त्वया विष्णुरिति । सकर्मकत्वात्कर्मणि क्तः । कर्तरि क्तवतुमुदाहरति — विष्णुर्विआमिति ।

Padamanjari

Up

निष्ठा क्तक्तवतू निष्ठेत्युक्तमिति। ककारः कित्कार्यार्थः, उकार उगित्कार्यार्थः, ठत्वसन्तस्यऽ इति विशषणार्थश्च। निष्ठायामित्यादि। अप्रसिद्धिःउअनिष्पतिः, कस्य? संज्ञायाः, संज्ञिनो वा। कथमित्याह - संज्ञयेति। यदि द्विः क्तक्तवतूपग्रहणं क्रियेत - इह, संज्ञाविधौ च, ततो न स्यादितरेतराश्रयत्वमिति संज्ञयेत्युक्तम्। सतोश्च तयोरिति। लोके शास्त्रे वा न तावल्लोके सानुबन्धावेतौ स्तः, शास्त्रेऽपि यद्यपि'ञीतः क्तः' 'नपुंसके भावे क्तः' इति क्तः स्वरूपेण विहितोऽस्ति, भूते तु काले नास्ति, क्तवतुस्तु न क्वाप्यस्तीति भावः। भाविनी संज्ञेति। संज्ञिनो भावित्वात् संज्ञापि भाविनी सूत्रशाटकवत् तद्यथा - अस्य सूत्रस्य शाटकं वयेति तन्तुवाय उक्तः, स पश्यति यदि शाटको न वातव्यः, अथ वातव्यो न शाटकः, शाटको वातव्यश्चेति विप्रतिषिद्धम्, मन्ये स वातव्यो यस्मिन्नुते शाटक इत्येतद्भवतीति। सामर्थ्यादिति।'क्तक्तवतू निष्ठा' इति वचनात् अन्यस्योत्पन्नस्य निष्ठेति संज्ञाया अभावःउसामर्थ्यम्। आदिकर्मणीति। कर्मशब्दः क्रियावाची, एकफलोद्देशप्रवृतक्षणसमूहरूपा क्रिया, तत्राद्ये क्रियाक्षणेऽपवृक्तेऽपि धात्वर्थरूपायाः क्रियाया अनपवृक्तत्वाद्वचनम्। न्याय्या त्वाद्यपवर्गात्। न्याय्या त्वेषा भूतकालता, कुतः? आद्यपवर्गात्। आदिभूतक्रियाक्षणोऽपवृक्तः तस्मिन्नेव चावयवे समूहरूपो धात्वर्थः परिसमाप्तः उक्तं च - समूहः स तथाभूतः प्रतिभेदं समूहिषु। समाप्यते ततो भेदे कालभेदस्य सम्भवः॥ इति। तथा च प्राकार्षीत्कट्ंअ देवदत इति लुङपि प्रयुज्यते। कटावयवे वा कटशब्दो द्रष्टव्यः, ततः केषाञ्चित्कटावयवक्षणानामपरिसमाप्तेः प्रकरिष्यति कट्ंअ देवदत इति लृट्प्रयोगोऽप्यविरुद्धः। अपर आह - ज्ञापकात्सिद्धं यदयम् ठादिकर्मणि क्तःऽ'कर्तरि च' ठुदुपधाद्भावादिकर्मणोरन्यतरस्याम्ऽ इति चाह, तज्ज्ञापयति - भवत्यादिकर्मणि क्त इति। नैतदस्ति ज्ञापकम्,'ञीतः क्तः' इति योऽयं वर्तमाने क्तस्तद्विषयमेतत्स्यात्? यदि तद्विषयमेव स्याद्वर्तमानग्रहणमेव कुर्यात्॥