1-2-46 कृत्तद्धितसमासाः च प्रातिपदिकम्
कृत्-तद्धित-समासाः प्रातिपदिकम् च
कृत्-प्रत्ययान्तशब्दानाम्, तद्धितप्रत्ययान्तशब्दानाम् तथा सामासिकशब्दानाम् 'प्रातिपदिकम्' इति संज्ञा भवति ।
कृत्-प्रत्ययान्त words, तद्धितप्रत्ययान्त words and the सामासिकशब्दाः are known as प्रातिपदिक.
कृतस्तद्धिताः समासाश्च प्रातिपदिकसंज्ञा भवन्ति। अप्रत्यय इति पूर्वसूत्रे पर्युदासात् कृदन्तस्य तद्धितान्तस्य चानेन प्रातिपदिकसंज्ञा विधीयते। अर्थवत्समुदायानां समासग्रहणं नियमार्थम्। कृत् — कारकः। हारकः। कर्ता। हर्ता। तद्धितः — औपगवः। कापटवः। समासः — राजपुरुषः। ब्राह्मणकम्बलः। समासग्रहणस्य नियमार्थत्वाद् वाक्यस्यार्थवतः संज्ञा न भवति॥
कृत्तद्धितान्तौ समासाश्च प्रातिपदिकसंज्ञाः स्युः । पूर्वसूत्रेण सिद्धे समासग्रहणं नियमार्थम् । यत्र सङ्घाते पूर्वो भागः पदं तस्य चेद्भवति तर्हि समासस्यैव । तेन वाक्यस्य न ॥
कृत्तद्धितान्तौ समासाश्च तथा स्युः॥
व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति 'प्रातिपदिकम्' इति संज्ञा । <<अर्थवदधातुरप्रत्ययः प्रातिपदिकम्>> 1.2.45 इति पूर्वसूत्रेण अप्रत्ययान्तशब्दानाम् प्रातिपदिकसंज्ञायाम् कृतायाम्, प्रत्ययान्तशब्दानाम् प्रातिपदिकसंज्ञाविधानार्थम् इदं सूत्रम् प्रारभ्यते । ये शब्दाः कृत्-प्रत्ययान्ताः सन्ति, तद्धितप्रत्ययान्ताः वा सन्ति तेषाम्, तथा च समासेन सिद्धानां शब्दानाम् अनेन सूत्रेण प्रातिपदिकसंज्ञा भवति ।
<<कृत्तद्धितसमासाश्च>> - कृत्तद्धित । कृच्च तद्धितश्च समासश्चेति विग्रहः । पूर्वसूत्रात्प्रातिपदिक॑मित्यनुवर्तते, तच्च बहुवचनान्ततया विपरिणम्यते । प्रत्ययग्रहणपरिभाषया कृत्तद्धितेति तदन्तग्रहणम् । तदाह — कृत्तद्धितान्ताविति । कृत्तद्धितान्तयोः प्रत्ययान्तत्वात्पूर्वसूत्रेणा.ञप्राप्तौ कृत्तद्धितग्रहणम् । केवलयोः कृत्तद्धितयोः संज्ञायां प्रयोजनाऽभावात्संज्ञाविधाविति निषेधोऽत्र न भवति । अस्मादेव पूर्वसूत्रे संज्ञाविधावपि प्रत्ययग्रहणपरिभाषया तदन्तलाभात्प्रत्ययान्तपर्युदासः । केचित्तु अर्थवदित्यनुवर्त्त्य तत्सामर्थ्यात्तदन्तविधिमाहुः । कृदन्ते यथा — ॒कर्ता॑ 'भर्ता' इत्यादि । तद्धिते यथा — ॒औपगव॑ इत्यादि । समासे यथा — ॒राजपुरुष॑ इत्यादि । ननु समासग्रहणं व्यर्थं, समासे 'राजपुरुष' इत्यादि । ननु समासग्रहं व्यर्थं, समासे 'राजपुरुष' इत्यादिशब्दानां पूर्वसूत्रेणैव प्रातिपदिकत्वस्य सिद्धत्वात् । न च उत्तरपदोत्तरलुप्तप्रत्ययं प्रत्ययलक्षणेनाश्रित्य प्रत्ययान्तपर्युदासः शङ्क्यः, उत्तरपदमात्रस्य प्रत्ययान्तत्वेऽपि समुदायस्याऽप्रत्ययान्तत्वात्, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणात्, प्रत्ययलक्षणमाश्रित्य प्रत्ययान्तपर्युदासो न प्रवर्तत इति 'न ङिसम्बुद्धयोः' इति निषेधेन ज्ञाप्यत इति पूर्वसूत्रे प्रपञ्चितत्वाच्चेत्यत आह — पूर्वसूत्रेणेत्यादिना । नियमशरीरं दर्शयति-यत्रेति ।पूर्वो भागः पद॑मित्युपलक्षणम् ।उत्तरभागस्तु प्रत्ययो ने॑त्यपि द्रष्टव्यम् । अन्यथा जन्मवानित्यादौ प्रातिपदिकत्वं न स्यात्, स्वादिष्वसर्वनामस्थान इति पूर्वभागस्य पदत्वात् । नचात्र कृत्तद्धितेति तद्धितग्रहणसामर्थ्यादेव प्रातिपदिकत्वं संभवतीति वाच्यम्, दाक्षिरित्यादौ तद्धितग्रहणस्य चरितार्थत्वात् । तत्र हि प्रकृतिभागो न पदम्, भत्वेन तद्बाधात् ।पूर्वो भागः पद॑मित्यनुक्तौ 'बहुपटव' इत्यत्र प्रातिपदिकसंज्ञा न स्यात् । ईषदसमाप्तावित्यनुवृत्तौविभाषा सुपो बहुच्पुरस्तात्तु॑ इति सूत्रेण 'पटव' इति प्रथमाबहुवचनान्तात्पूर्वतो बहुच्प्रत्यये कृतेऽर्थवदिति प्रातिपदिकत्वात्तदवयवजसो लुकिचितः सप्रकृतेर्बह्वजर्थ॑मिति टकारादुकारस्य उदात्तत्वे चित्स्वरे कृते पुनर्जसि 'बहुपटव' इति रूपम् । अत्र टकारादकार उदात्त इति स्थितिः । जसन्तात्पूर्वतो बहुच्प्रत्यये बहुपटव इति समुदायस्य प्रातिपदिकत्वा.ञभावे तु ततो जसन्तरं नोत्पद्येत । नचेष्टापत्तिः, तथ#आ सति बहुच्प्रकृतिभूतजसन्ते जसःप्रातिदिकावयवत्वा.ञभावेन॒सुपो धातुप्रातिपदिकयो॑रिति लुगभावाद्बहुपटव इति जसन्तस्यैव बहुच्प्रक-तितया चितस्सप्रकृतेर्विधीयमानश्चित्स्वरः जस एवाकारस्य स्यात् । इष्यते तु टकारादुत्तरस्य । 'बहुपटव' इति समुदायस्य प्रातिपदिकावयवत्वाज्जसो लुकि पटुशब्दस्यैव बहुच्प्रकृतितया टकारादुत्तरस्य चित्स्वरे सति पुनर्जसि बहुपटव इति रूपमुक्तं निर्बाधमिति भावः । नियमस्य फलमाह — तेनेति । उक्तनियमेनेत्यर्थः । अन्यथादेवदत्त गामभ्याज शुक्लां दण्डेने॑त्यादिवाक्यस्यापि प्रातिपदिकत्वापत्तौ सुब्लुक् स्यात् । न च वाक्यस्य प्रत्ययान्तत्वादेव न प्रातिपदिकत्वमिति वाच्यम्, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणादिति भावः । कृत्तद्धितसमासाश्चेति चकारोऽनुकसमनुच्चयार्थः । तेननिपातस्यानर्थकस्य प्रातिपदिकसंज्ञा वक्तव्ये॑ति वार्तिकं गतार्थम् ।
कृतो विहितास्तदादय इति वेदितव्यम् । अत्र हि कृद्ग्रहणपरिभाषा नोपतिष्ठते, तेन मूलकेनोपदंशमिति वाक्यस्य संज्ञा न भवति । मध्येऽपवादन्यायेन ह्यप्रत्यय इति निषेधः कृद्ग्रहणेन बाध्यते, न तु समासग्रहणेन कृतो नियमः । संज्ञाविधौ प्रत्ययग्रहणेऽप्यत्र तदन्तविधिर्भवतीत्यत्रीपपतिमाह - अप्रत्यय इति । प्रत्ययान्तस्य निषेधो न केवलस्य प्रत्ययस्येत्याश्रित्यैतदुच्यते । अप्राप्तप्रापणं विधिः, न च तदा कृतद्धितमात्रस्याप्राप्ता संज्ञा तदन्तस्यत्वप्राप्तेति विध्यर्थत्वातदन्तस्यैव ग्रहणम् । येषां तु पूर्वत्र प्रत्ययमात्रस्यापि निषेधस्तेषामर्थवद्ग्रहणानेवृतेरर्थवद्विशेषस्य तदन्तस्य ग्रहणं समासग्रहणमनर्थकम्, अर्थवत्वात्पूर्वेणैव संज्ञासिद्धेरित्यत आह-अर्थवत्समुदायानामिति । कर्मणि षष्ठी । नियमः उ व्यावृत्तिः । ननु सुराजा अतिराजेत्यादौ अन्तर्वतिन्यां विभक्तौ लुप्तायां समुदायस्य संज्ञा, तामपेक्ष्य सोरुत्पन्नस्य हल्ङ्यादिलोपे तस्यामवस्थायां नलोपार्थं या संज्ञा प्राप्नोति तस्याः प्रत्ययलक्षणेनाप्रत्यय इति निषेधे प्राप्ते विध्यर्थमेतत्स्यात् ? ज्ञापकात्सिद्धम्, ऽन ङिसंबुद्ध्योःऽ इति निषेधो ज्ञापयति-न प्रत्ययलक्षणेन निषेध इति; अन्यथा उक्तेन न्यायेन हे राजन्नित्यादौ नलोपप्रसङ्गात् । नैतदस्ति ज्ञापकम्; है सुराजन्नित्यादौ यत्र समासग्रहणेन संज्ञा विहिता तत्र नलोपप्रसङ्गे निषेधः स्याद् । एवं तर्ह्यत्राप्यप्रत्यय इत्यनुवर्तते, तेन प्रत्ययान्ते समासे विध्यर्थत्वासंभवान्नियमार्थमेव समासग्रहणम् । यद्वा-अनुद्दिश्य प्रयोजनविशेषं न कृत्संज्ञा प्रवर्तते, तस्यां तु सत्यां यस्यामवस्थायां यत्कार्यं प्राप्नोति तस्यां तद्भवति, न प्रतिकार्यमावर्तनीया संज्ञेत्ययं पक्ष आश्रीयते । अत्र च पक्षे सुबुत्पत्यर्थं नलोपार्थं च समाससंज्ञानन्तरमेव सकृत्संज्ञा प्रवर्तते, न तु नलोपदशायामिति विध्यर्थत्वासम्भवान्नियमार्थमेव समासग्रहणम् । तुल्यजातीयस्य च नियमेन व्यावृत्तिः, कश्च तुल्यजातीयो यस्यार्थवत्समुदायस्य पूर्वो भागस्तावत्पदम्, यश्चैव हि सुबन्तानां समासः-राजपुरुष इति, यश्चैव हि तिङ्न्तानाम् - 'आख्यतमाख्यातेन क्रियासातत्येऽ, अश्नीतपिबता, खादतमोदतेति, यश्च सुबन्तानां तिङ्न्तानां च-ऽजहि कर्मणा बहुलमाभीक्ष्ण्येऽ, जहिजोडः, जहिशकट इति, यश्च सुबन्तानां प्रातिपदिकानां च - गतिकारकोपपदानामिति, वस्त्रक्रीति निष्कक्रीतीति, सर्वत्रात्र पूर्वो भागस्तावत्पदम् । अतः स तुल्यजातीयो नियमेन व्यावर्त्यते, तेन बहुपटव इत्यत्र जसन्तस्य पुरस्ताद्वहुचि कृते नोतरत्रत संघाते पूर्वो भागः पदमित्यसति नियमे ईषदसमाप्तिलक्षणेनार्थेनार्थवत्वात्सत्यां संज्ञायां पूर्वोत्पन्नस्य जसः ऽसुपो धातुऽ इति लुकि कृते चित्स्वरोऽपि भवन् ऽचतिः सप्रकृतेर्बहुजकजर्थमितिऽ पटुअशब्दोकारस्य भवति । पूर्वोत्पन्नस्य तु जसोऽवस्थाने तस्यैव स्यात् । वाक्यस्यार्थवत इति । प्रत्येकं पदैरप्रतीतस्य संसर्गस्य वाक्येन प्रतीयमानत्वातस्यार्थवत्वम्, समुदायाच्च प्रत्ययस्याविधानान्नास्त्यप्रत्यय इति निषेधः । न च ऽनास्ति यस्मिन् प्रत्ययः सोऽप्रत्ययःऽ इति बहुव्रीहिः शक्य आश्रयितुम्; बहुपटव इत्यत्रापि नि,एधप्रसङ्गात् ॥