वाऽवसाने

8-4-56 वा अवसाने पूर्वत्र असिद्धम् संहितायाम् झलां चर्

Sampurna sutra

Up

झलां चर् अवसाने वा

Neelesh Sanskrit Brief

Up

अवसाने परे झल्-वर्णस्य विकल्पेन चर्-वर्णादेशः भवति ।

Neelesh English Brief

Up

A झल् letter is optionally converted to a corresponding चर् -letter when it is not followed by any other letter.

Kashika

Up

झलां चरिति वर्तते। अवसाने वर्तमानानां झलां वा चरादेशो भवति। वाक् ,वाग्। त्वक्, त्वग्। श्वलिट्, श्वलिड्। त्रिष्टुप्, त्रिष्टुब्॥

Siddhanta Kaumudi

Up

अवसाने झलां चरो वा स्युः । रामात् । रामाद् । द्वित्वे रूपचतुष्टयम् । रामाभ्याम् । रामेभ्यः । रामस्य । सस्य द्वित्वपक्षे खरि चे <{SK121}>ति चर्त्त्वेऽप्यान्तरतम्यात्सस्य स एव न तु तकारः । अल्पप्राणतया प्रयत्नभेदात् । अतएव सः सीति तादेश आरम्भ्यते ॥

Laghu Siddhanta Kaumudi

Up

अवसाने झलां चरो वा। रामात्, रामाद्। रामाभ्याम्। रामेभ्यः। रामस्य॥

Neelesh Sanskrit Detailed

Up

झल् = वर्गचतुर्थाः + वर्गतृतीयाः + वर्गद्वितीयाः + वर्गप्रथमाः + ऊष्माणः । आहत्य 24 वर्णाः । चर् = वर्गप्रथमाः + श् + ष् + स् । आहत्य 8 वर्णाः । यदि झल्-वर्णात् परः अवसानम् (= विरामः / वर्णानाम् अभावः) विद्यते, तर्हि प्रकृतसूत्रेण झल्-वर्णस्य विकल्पेन अन्तरतमः चर्-वर्णादेशः भवति । वस्तुतस्तु पदान्त-झल्-वर्णस्य <<झलां जशोऽन्ते>> 8.2.39 इत्यनेन आदौ जश्त्वम् भवति । अतः प्रकृतसूत्रेण केवलम् जश्-वर्णस्य एव चर्त्वम् सम्भवति ।क्रमेण उदाहरणानि एतानि — 1. पदान्तगकारस्य अवसाने परे वैकल्पिकः ककारः वाच् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः] → वाच् + स् [इत्संज्ञालोप;] → वाच् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति सुँलोपः] → वाक् [<<चोः कुः>> 8.2.30 इति पदान्तचकारस्य कुत्वे ककारः] → वाग् [<<झलां जशोऽन्ते>> 8.2.39 इति पदान्तककारस्य जश्त्वे गकारः] → वाक्, वाग् [<<वाऽवसाने>> 8.4.56 इति पदान्तगकारस्य पाक्षिके चर्त्वे ककारः] 2. पदान्तजकारस्य विषये इदं सूत्रं नैव प्रवर्तते, यतः <<चोः कुः>> 8.2.30 इत्यनेन पदान्तजकारस्य गकारादेशः एव विधीयते । 3. पदान्तडकारस्य अवसाने परे वैकल्पिकः टकारः सम्राज् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः] → सम्राज् + स् [इत्संज्ञालोप;] → सम्राज् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति सुँलोपः] → सम्राष् [<<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> 8.2.36 इति जकारस्य षकारादेशः] → सम्राड् [<<झलां जशोऽन्ते>> 8.2.39 इति पदान्तषकारस्य जश्त्वे डकारः] → सम्राट् , सम्राड् <<वाऽवसाने>> 8.4.56 इति पदान्तडकारस्य पाक्षिके चर्त्वे टकारः] 4. पदान्तदकारस्य अवसाने परे वैकल्पिकः तकारः मरुत् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः] → मरुत् + स् [इत्संज्ञालोप;] → मरुत् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति सुँलोपः] → मरुद् [<<झलां जशोऽन्ते>> 8.2.39 इति पदान्ततकारस्य जश्त्वे दकारः] → मरुत्, मरुद् [<<वाऽवसाने>> 8.4.56 इति पदान्तदकारस्य पाक्षिके चर्त्वे तकारः] 5. पदान्तबकारस्य अवसाने परे वैकल्पिकः पकारः ककुभ् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः] → ककुभ् + स् [इत्संज्ञालोप;] → ककुभ् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति सुँलोपः] → ककुब् [<<झलां जशोऽन्ते>> 8.2.39 इति पदान्तभकारस्य जश्त्वे बकारः] → ककुप्, ककुब् [<<वाऽवसाने>> 8.4.56 इति पदान्तबकारस्य पाक्षिके चर्त्वे पकारः]

Balamanorama

Up

<<वाऽवसाने>> - वाऽवसानेझलां जश्झशी॑त्यतोझला॑मितिअभ्यासे चर्चे॑त्यतश्चरिति चानुवर्तते । तदाह — अवसान इति । द्वित्वे रूपेति । तकारदकारयोरनचि चेति द्वित्वे, तदभावे च रूपचतुष्टयमित्यर्थः । तत्र चर्त्वपक्षे द्वतकारमेकतकारं च रूपम् । जश्त्वपक्षे द्विदकारं एकदकारं च । रामाभ्याम् । रामेभ्य इति । चतुर्थीवत्प्रक्रिया सुगमिति भावः । अथ षष्ठीविभक्तिः । ङसो ङकारस्य 'लशक्लतद्धित' इति इत्त्वं, लोपः । ङकारोच्चारणं तुङिति ह्रस्वश्चे॑त्याद्यर्थम् ।टाङसिङसा॑मिति स्यादेशं सिद्धवत्कृत्याह — रामस्येति । नन्विह सकारस्यानचि चेति द्वित्वे पूर्वसकारस्यखरि चे॑ति चर्त्वेन दन्तस्थानतो ।ञन्तरतमे तकारे सति रामत्स्येति स्यादित्यत आह — सस्य द्वित्वेति । स एवेति । सकार एवेत्यर्थः ।एव॑कारव्यावर्त्त्यमाह — नतु तकार इति । ननु दन्तस्थानतः आआसाघोषविवारात्मकबाह्रप्रयत्नश्चान्तर्यं तकारे ।ञप्यविशिष्टमित्यत आह — अल्पप्राणतयेति । सकारः स्थानी महाप्राणः । तकारस्तु अल्पप्राणः । अतो बाह्रप्रयत्नभेदात्तकारो न भवति । इदमुपलक्षणम्, आभ्यन्तरप्रयत्नभेदादपि सकारस्य तकारो भवतीति द्रष्टव्यम् । अत एवेति । 'वस निवासे' इत्यदिधातोर्वत्स्यतीत्यादौ सकारस्य सकारे परे तकारो विधीयते यदि तु त्र खरि चेति सकारस्य तकारः स्यात्तर्हि तद्विधानमनर्थकं स्यादित्यर्थः ।

Padamanjari

Up

'झलां जशो' न्तेऽ इति नित्ये जश्त्वे प्राप्ते चर्त्वं विधीयते, वावचनात् पक्षे सोऽपि भवति ॥