इण्कोः

8-3-57 इण्कोः पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः

Sampurna sutra

Up

index: 8.3.57 sutra: इण्कोः


इण्कोः अपदान्तस्य मूर्धन्यः संहितायाम्

Neelesh Sanskrit Brief

Up

index: 8.3.57 sutra: इण्कोः


अधिकारोऽयम् । इतः परमस्य पादस्य समाप्तिपर्यन्तम् यत् किमपि कार्यमुच्यते तत् इण्-वर्णात् परस्य कवर्गीयवर्णात् परस्य च भवति ।

Neelesh English Brief

Up

index: 8.3.57 sutra: इण्कोः


This is an अधिकार, which goes till the end of the पाद. The कार्य designated in this अधिकार happens for a स्थानी that follows an इण् letter or a letter from कवर्ग.

Kashika

Up

index: 8.3.57 sutra: इण्कोः


इण्कोः इत्येतदधिकृतं वेदितव्यम्। इत उत्तरं यद् वक्ष्यामः, इणः कवर्गाच् च इत्येवं तद् वेदितव्यम्। वक्ष्यति आदेशप्रत्यययोः 8.3.59। सिषेव। सुष्वाप। अग्निषु। वायुषु। कर्तृषु। हर्तृषु। गीर्षु। धूर्षु। वाक्षु। त्वक्षु। इण्कोः इति किम्? दास्यति। असौ।

Siddhanta Kaumudi

Up

index: 8.3.57 sutra: इण्कोः


इत्यधिकृत्य ॥

Neelesh Sanskrit Detailed

Up

index: 8.3.57 sutra: इण्कोः


एतत् अधिकारसूत्रमस्ति । अपदान्तस्य मूर्धन्यः 8.3.55 अस्मिन् अधिकारे यः मूर्धन्यः आदेशः विधीयते, सः इतः परम् इण्-वर्णात् परस्य, कवर्गीवर्णात् परस्य वर्णस्य स्थानिनः एव भवति, अन्येषाम् न, इति आशयः ।

'इण्' इत्यत्र परस्य णकारस्य (इत्युक्ते, लण्-प्रत्याहारस्य णकारस्य) ग्रहणं भवति । अतः इण् प्रत्याहारे अ/आ-एतौ विहाय सर्वे स्वराः, अन्तस्थाः तथा हकारः समाविश्यन्ते ।

Balamanorama

Up

index: 8.3.57 sutra: इण्कोः


इण्कोः - इण्कोः । इत्यधिकृत्येति । उत्तरत्रव विधिष्वनुवर्तत इति भावः । इण् च कुश्चेति समाहारद्वन्द्वः । पुंस्त्वमार्षम् । इतरेतरयोगद्वन्द्वेत्वेकवचनमार्षम् । 'इ' णिति परणकारेण प्रत्याहारः । कुः=कवर्गः ।

Padamanjari

Up

index: 8.3.57 sutra: इण्कोः


ठिण्ऽ इति परेण णकारेण प्रत्याहरः,'कु' इति कवर्गस्य ग्रहणम्, तयोः समाहारद्वन्द्वे एकवचनम् । नुमागमस्तु सत्यपि नपुंसकत्वे न कृतः, ठनित्यमागमशास्त्रम्ऽ इति कृत्वा । वाक्ष्विति ।'चोः कुः' इति कुत्वे कृते कवर्गात्परः सकारः । वर्गग्रहणम्'शासिवसिघसीनां च' इत्यत्र घकारस्यापि ग्रहणार्थम् - जक्षतुरिति; अन्यथा चर्त्वस्यासिद्धत्वान्न स्यात् । अथ वचनसामर्थ्यात् चर्त्वस्य सिद्धत्वमाश्रीयेत; चिन्त्यं वर्गग्रहणस्य प्रयोजनम् । दास्यतीति । ननु च'नाज्झलौ' इत्यत्रागृहीतसवर्णानामचां ग्रहणम् - इत्यसकृदुक्तम्, ततश्च यथा कुमारी शेते - इत्यत्रेकारशकारयोः सावर्ण्यमप्रतिषिद्धम्, ततश्च यथा कुमारी शेते - इत्यत्रेकारशकारयोः सावर्ण्यमप्रतिषिद्धम्, तथा आकारहकारयोरपि, ततः किम् ? हकारेणेणाकारस्य ग्रहणात् षत्वप्रसङ्गः ? नैष दोषः; हकारो विवृतः, आकारो विवृततरः । एवं हि पठन्ति - विवृतकरणाः स्वराः, तेभ्य एओ विवृततरौ, ताभ्यामैऔ, ताभ्यामप्याकारः संवृतोकार इति । एवं च कृत्वा - ठिष्टकासुऽ,'वयस्यासु' - इत्यादयो निर्देशा उपपद्यन्ते । असाविति । ठदस औ सुलोपश्चऽ,'तदोः सः सौ' इत्यादेशसकारोऽयम्, न त्विण्कोः परः ॥