6-3-34 स्त्रियाः पुंवत् भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियाम् अपूरणीप्रियादिषु उत्तरपदे
index: 6.3.34 sutra: स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु
भाषितः पुमान् येन समानायामाकृतावेकस्मिन् प्रवृत्तिनिमित्ते स भाषितपुंस्कः शब्दः। तदेतदेवं कथं भवति? भासितः पुमान् यस्मिन्नर्थे प्रवृत्तिनिमिते स भाषितपुंस्कशब्देन उच्यते, तस्य प्रतिपादको यः शब्दः सोऽपि भासितपुंस्कः ऊङोऽभावः अनूङ्, भाषितपुंस्कादनूङ् यस्मिन् स्त्रीशब्दे स भाषितपुंस्कादनूङ् स्त्रीशब्दः। बहुव्रीहिरयम्, अलुग् निपातनात् पञ्चम्याः। तस्य भासितपुंस्काऽदनूङः स्त्रीशब्दस्य पुंशब्दस्येव रूपं भवति समानाधिकरणे उत्तरपदे स्त्रीलिङ्गे पूरणीप्रियादिवर्जिते। दर्शनीयभार्यः। शलक्ष्णचूडः। दीर्घजङ्घः। स्त्रिया इति किम्? ग्रामणि ब्राह्मणकुलं दृष्टिरस्य ग्रामणिदृष्टिः। भाषितपुंस्कातिति किम्? खट्वाभार्यः। समानायामाकृतौ इति किम्? द्रोणीभार्यः। कथं गर्भिभार्यः, प्रसूतभार्यः, प्रजातभार्यः इति? कर्तव्योऽत्र यत्नः। अनूङ इति किम्? ब्रह्मबन्धूभार्यः। समानाधिकरणे इति किम्? कल्याणा माता कल्यणीमाता। स्त्रियाम् इति किम्? कल्याणी प्रधानम् एषा कल्याणीप्रधाना इमे। अपूरणी इति किम्? कल्याणी पञ्चमी यासां ताः कल्याणीपञ्चमा रात्रयः। कल्याणीदशमाः। प्रधानपूरणीग्रहणं कर्तव्यम्। इह मा भूत्, कल्याणीपञ्चमीकः पक्षः इति। अप् पूरणीप्रमाण्योः 5.4.116 इत्यत्रापि प्रधानपूरणीग्रहणम् एव इत्यप्प्रत्ययो न भवति। अप्रियादिषु इति किम्? कल्याणीप्रियः। प्रिया। मनोज्ञा। कल्याणी। सुभगा। दुर्भगा। भक्ति। सचिवा। अम्बा। कान्ता। क्षान्ता। समा। चपला। दुहिता। वामा। प्रियादिः। दृढभक्तिः इत्येवमादिषु स्त्रीपूर्वपदस्य अविवक्षित्वात् सिद्धम् इति समाधेयम्।
index: 6.3.34 sutra: स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु
भाषितपुंस्कादनूङ् ऊङोऽभावो यस्यामिति बहुव्रीहिः । निपातनात्पञ्चम्या अलुक् षष्ठ्याश्च लुक् । तुल्ये प्रवृत्तिनिमित्ते यदुक्तपुंस्कं तस्मात्पर ऊङोऽभावो यत्र तथाभूतस्य स्त्रीवाचकशब्दस्य पुंवाचकस्येव रूपं स्यात्समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे न तु पूरण्यां प्रियादौ च परतः । गोस्त्रियोः - <{SK656}> इति ह्रस्वः । चित्रा गावो यस्येति लौकिकविग्रहे । चित्रा अस् गो अस् इत्यलौकिकविग्रहे । चित्रगुः । रूपवद्भार्यः । चित्रा जरती गौर्यस्येति विग्रहे अनेकोक्तेर्बहूनामपि बहुव्रीहिः । अत्र केचित् । चित्राजरतीगुः । जरतीचित्रगुर्वा । एवं दीर्घातन्वीजङ्घः । तन्वीदीर्घाजङ्घः । त्रिपदे बहुव्रीहौ प्रथमं न पुंवत् । उत्तरपदस्य मध्यमेन व्यवधानात् । द्वितीयमपि न पुंवत् । पूर्वपदत्वाभावात् । उत्तरपदशब्दो हि समासस्य चरमावयवे रूढः । पूर्वपदशब्दस्तु प्रथमावयवे रूढ इति वदन्ति । वस्तुतस्तु नेह पूर्वपदमाक्षिप्यते । आनङ् ऋतः - <{SK921}> इत्यत्र यथा । तेनोपान्त्यस्य पुंवदेव । चित्राजरद्गुरित्यादिः । अत एव चित्राजरत्यौ गावौ यस्येति द्वन्द्वगर्भेऽपि चित्राजरद्गुः इति भाष्यम् । कर्मधारयपूर्वपदे तु द्वयोरपि पुंवत् । जरच्चित्रगुः । कर्मधारयोत्तरपदे तु चित्रजरद्गवीकः । स्त्रियाः किम् । ग्रमाणि कुलं दृष्टिरस्य ग्रामणिदृष्टिः । भाषितपुंस्कात् किम् । गङ्गाभार्यः । अनूङ् किम् । वामोरूभार्यः । समानाधिकरणे किम् । कल्याण्याः माता कल्याणीमाता । स्त्रियां किम् । कल्याणी प्रधानं यस्य स कल्याणीप्रधानः । पूरण्यां तु ॥
index: 6.3.34 sutra: स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु
उक्त पुंस्कादनूङ् ऊङोऽभावोऽस्यामिति बहुव्रीहिः। निपातनात्पञ्चम्या अलुक् षष्ठ्याश्च लुक्। तुल्ये प्रवृत्तिनिमित्ते यदुक्त पुंस्कं तस्मात्पर ऊङोऽभावो यत्र तथाभूतस्य स्त्रीवाचकशब्दस्य पुंवाचकस्येव रूपं स्यात् समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे न तु पूरण्यां प्रियादौ च परतः। गोस्त्रियोरिति ह्रस्वः। चित्रगुः। रूपवद्भार्यः। अनूङ् किम्? वामोरूभार्यः॥ पूरण्यां तु -
index: 6.3.34 sutra: स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु
स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु - स्त्रियाः पुंवत् ।भाषित पुंस्कादनू॑ङिति समस्तमेकपदं 'स्त्रिया' इति षष्ठन्तस्य विशेषणमित्यभिप्रेत्य व्याचष्टे — भाषितपुंस्कादिति । 'अनू' ङित्यस्य व्याख्यानम्-ऊङोऽभाव इति । अर्थाभावेऽव्ययीभावः, नञ्तत्पुरुषो वा ।भाषितपुंस्का॑दिति दिग्योगे पञ्चमी । 'पर' इति प्रथमान्तमध्याहार्यम् । तथाच भाषितपुंस्कात् पराऽनूङ् यस्येति विग्रहे बहुव्रीहिरिति फलति । ननु समासे सति पञ्चम्या सुक्प्रसङ्ग इत्यत आह — निपातनादिति । इदमुपलक्षणम् । निपातनादप्रथमान्तस्यापि बहुव्रीहिः, परशब्दलोपश्चेत्यपि बोध्यम् । यद्वा अत एव निपातनादप्रयुज्यमानेऽपि परशब्दे तदर्थे गम्ये पञ्चमी । नन्वेवमपि 'स्त्रिया' इति षष्ठन्तस्यभाषितपुंस्कादनू॑ङिति यदि विशेषणं स्यात्तर्हि भाषितपुंस्कादनूङ॑ इति षष्ठी श्रूयेतेत्यत आह — षष्ठआश्च लुगिति ।निपातना॑दित्यनुषज्यते । भाषितः पुमान् येन तद्भाषितपुंस्कं, तदस्यास्तीति अर्शाअद्यच् । पुंस्त्वे स्त्रीत्वे च एकप्रवृत्तिनिमित्तकमिति यावत् ।तृतीयादिषु भाषितपुंस्क॑मित्यत्र व्याख्यातमेतत् । तदाह — तुल्ये प्रवृत्तिनिमित्ते इति । स्त्रीवाचकस्य शब्दस्येति । स्त्रीलिङ्गस्येत्यर्थः । 'स्त्रिया' इति षष्ठन्तं न स्त्रीप्रत्ययपरमिति भावः ।पुंव॑दिति रूपातिदेशः । पुंस इव पुंवदिति षष्ठन्ताद्वतिः । तदाह — पुंवाचकस्येव रूपमिति ।स्त्रिया॑मिति सप्तम्यन्तमपि न स्त्रीप्रत्ययपरं किन्तु स्त्रीलिङ्गपरम् । तच्च 'अलुगुत्तरपदे' इत्यधिकृते उत्तरपदेऽन्वेति । तदाह — स्त्रीलिङ्गे उत्तरपदे इति ।अपूरणीप्रियादिइआ॑त्येतद्व्याचश्टे- न तु पूरण्यां प्रियादौ च परत इति । पूरणीति स्त्रीलिङ्गनिर्देशात्स्त्रीलिङ्गः पूरणप्रत्ययान्तो विवक्षित इति ज्ञेयम् । तुल्ये प्रवृत्तिनिमित्ते इति कम् । कुटीभार्यः । अत्र पुंवत्त्वं न भवति, कुटीशब्दो घटे पुंलिङ्गः, गेहे तु स्त्रीलिङ्ग इति प्रवृत्तिनिमित्तभेदात् ।स्त्रीप्रत्ययः पुंवत्स्या॑दित्युक्ते तु स्त्रीप्रत्ययस्य लोपः पर्यवस्येत् । ततश्च पट्वी भार्या यस्य स पटुभार्य इत्यत्र उत्तरपदं परनिमित्तमाश्रित्य ङीषो लोपे तस्य 'अचः परस्मिन्' इति स्थानिवत्त्वादुकारस्य यण्स्यात् । ह्रस्व इति । चित्रा गावो यस्येति विग्रहे बहुव्रीहिसमासे सुब्लुकि सति अनेकमिति प्रथमान्तनिर्दिष्टतया, विग्रहे नियतविभक्तिकतया वा उपसर्जनत्वे सति, चित्रगोशब्दे ओकारस्यगोस्त्रियो॑रित्युकारो ह्रस्व इत्यर्थः । ननु चित्रा गाव इति लोकिकसमासाभ्युपगमे सुपो लुकः प्राक् चित्रा अस इत्यत्र पूर्वसवर्णदीर्घे, गो अस् इत्यत्र पूर्वरूपे च एकादेशे कृते तस्य परादिवत्त्वेन असो लुकि चित्रशब्दे अकारो न श्रूयेत, चित्रगुरित्यत्र उकारश्च न श्रूयेत, पूर्वान्तवत्त्वे तु परिशिष्टस्य सकारमात्रस्य सुप्त्वाऽभावाल्लुक् न स्यादित्यत आह — चित्रा अस् इति । गोशब्दस्य स्त्रीलिङ्गत्वात्तद्विशेषणत्वाच्चित्रेति स्त्रीलिङ्गनिर्देशः ।प्रत्ययोत्तरपदयोश्चे॑ति सूत्रभाष्यरीत्याअन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते॑ इति न्यायात्प्रागेव पूर्वसवर्णदीर्घात्सुब्लुगिति भावः । चित्रगुरिति । बहुव्रीहौ ह्रस्वत्वे चित्राशब्दस्य पुंवत्त्वमिति भावः । रूपवद्भार्य इति । रूपवती भार्या यस्येति विग्रहः । अत्र उपसर्जनह्रस्वः । 'रूपवती' शब्दस्य पुंवत्त्वम् । ननु चित्रा जरती गौर्यस्येति विग्रहे कथं त्रिपदबहुव्रीहिः, 'सुप्सुपे' त्येकत्वस्य विवक्षतत्वादित्यत आह — अनेकोक्तेरिति । शेषग्रहणात्प्रथमान्तमिति लब्धम् । एकस्य प्रथमान्तस्य समासो नोपपद्यते, समास इत्यन्वर्थसंज्ञाविज्ञानात्, ततश्चार्थादनेकं प्रथमान्तमिति सिद्धे पुनरनेकग्रहणाद्द्विबहूनां प्रथमान्तानां बहुव्रीहिरिति भाष्ये स्पष्टमिति भावः । अत्रेति । त्रिपदबहुव्रीहावित्यर्थः । चित्राजरतीगुः जरतीचित्रागुर्वेति । गां प्रतिचित्रात्वस्य जरतीत्वस्य च विशेषणत्वाऽविसेषादन्यतरस्यसप्तमीविशेषणे बहुव्रीहौ॑ इति पूर्वनिपात इति भावः । एवं दीर्घेति । दीर्घे तन्व्यौ जङ्घे यस्येति विग्रहः । उभयत्रापि पूर्वमध्यपदयोः पुंवत्त्वमाशह्ख्याह — त्रिपदे इति । उत्तरपदस्येति । समासचरमावयवपदस्य उत्तरपदत्वात्ततृतीयमेव पदमत्रोत्तरपदं वाच्यम् । तत्परकत्वं च मध्यमपदस्यैव, नतु प्रथमपदस्यापि, तस्य मध्यमेन पदेन व्यवधानादित्यर्थः । ननु तर्हि मद्यमपदस्य पुंवत्त्वं दुर्वारम्, उत्तरपदपरकत्वसत्त्वादित्यत आह — द्वितीयमपि न पुंवदिति । पूर्वपदत्वाभावादिति । उत्तरपदेन पूर्वपदमाक्षेपाल्लब्यते । समासप्रथमावयवपदमेव पूर्वपदम्, नतु मध्यमावयवपदमपीति भावः । ननु मध्यमपदापेक्षया प्रथमपदस्य पूर्वपदत्वमस्ति । मध्यमपदस्य च प्रथमपदापेक्षया उत्तरपदत्वमस्तीत्यत आह — उत्तरपदशब्दो हीति । रूढ इति । वैयाकरणसमयसिद्ध इत्यर्थः । इति वदन्तीति । एवंप्रकारेण केचिद्वदन्तीत्यन्वयः । तत्र प्रथमपदस्य त्रिपदबहुव्रीहौ नास्ति पुंवत्त्वमिति युज्यते,उत्त्रपदपरकत्वाऽभावात् । मध्यमपदस्य तु पूर्वपदत्वाभावेऽप्यस्त्येव पुंवत्त्वम्, स्त्रिया पुंवदित्यत्र तु पूर्वपदस्याश्रवणात्, अनुवृत्त्यभावाच्च, किन्तु 'उत्तरपदे' इत्यनेन पूर्वपदस्य पुंवत्त्वमित्यर्थाद्गम्यत इति वक्तव्यम् । तदपि न सम्भवतीत्यत आह-नेह पूर्वपदमाक्षिप्यत इति । इह=॒स्त्रियाः पुंव॑दित्यत्र,उत्तरपदे इत्यनुवृत्तेन पूर्वपदं नाक्षिप्यते, नाऽर्थाद्गम्यत इत्यर्थः । कुत इत्यत आह — आनङृत इत्यत्र यथेति । ऋदन्तानां द्वन्द्वे आनङ् स्यात् उत्तरपदे इति तदर्थः । तत्र चतुर्णा द्वन्द्वेहोतृपोतृनेष्टोद्गातारः॑ इत्युपान्त्यस्य नेष्टुरानङुदाहृतःसमर्थः पदविधि॑रित्यत्र भाष्ये । तत्रोत्तरपदेन पूर्वपदाक्षेपनियमे नेष्टुरूपान्त्यस्य पूर्वपदत्वाऽभावादानङ् नोपपद्येत । तस्मान्नावश्यमुत्तरपदे विहितं कार्यं पूर्वपदस्यैवेति नियम इत्यर्थः । तेनेति । पूर्वपदाऽनाक्षेपेणेत्यर्थः । उपान्त्यस्येति । अन्त्यस्य समीपमुपान्त्यम् । चरमावयवसमीपवर्तिनो मध्यमस्येत्यर्थः । पुंवदेवेति ।रूप॑मिति शेषः ।तदेव दर्शयति-चित्राजरद्गुरिति । अत्र चित्राशब्दस्य न पुंवत्त्वम्, मध्यमेन व्यवधानात्, उत्तरपदपरकत्वाऽभावाच्चेति भावः । इत्यादीति । जकतीचित्रगुः । तन्वीदीर्घजङ्घः । ननुआनङृतः॑इत्यत्रहोतृपोतृनेष्टोद्गातारः॑ इति भाष्योदाहरणान्मास्तु पूर्वपदाक्षेपः ।स्त्रियाः पुंव॑दिति सूत्रे तदनाक्षेपे किं प्रमाणमित्यत आह — अत एवेति ।स्त्रियाः पुंव॑दित्यत्रापि पूर्वपदाऽनाक्षेपादित्यर्थः । द्वन्द्वगर्भेऽपी॑त्यनन्तरंबहुव्रीहा॑विति शेषः । भाष्यमिति । यद्यपि कृत्स्नभाष्यपरिशोधनायां चिंत्राजरद्गुरित्युदाहरणं भाष्ये क्वापि न दृश्यते, तथापिचित्राजरद्गु॑रितीत्यनन्तरंप्रयाग॑मिति शेषः ।भाष्य॑मित्यस्य-॒पट्वीमृदुभार्य॑ इति प्रकृतसूत्रस्थभाष्यमित्यर्थः ।सूचयती॑ति शेषः ।स्त्रियाः पुंव॑दिति प्रकृतसूत्रभाष्ये पट्व्यौ मृद्व्यौ भार्ये यस्येति द्वन्द्वगर्ङबहुव्रीहौ पट्वीमृदुभार्यं इत्युदाहृतम् । तत्र पट्वीमृदुशब्दात्मको द्वन्द्वः पूर्वपदं, न तस्य भाषितपुंस्कत्वमस्तीति न पुंवत्त्वे, द्वन्द्वस्य परवल्लिङ्गतानियमात् । तत्र द्वन्द्वे पूर्वपदस्य पट्वीशब्दस्य तु न पुंवत्त्वं, मध्यमपदेन व्यवधानादुत्तरपदपरकत्वाऽभावात् । मद्यमपदस्यानुत्तरपदत्वादसमानाधिकरणत्वाच्च न तस्मिन्परे पुंवत्त्वसंभवः । मृद्वीशब्दस्य तु केवलस्य भाषुतपुंस्कत्वादुत्तरपदपरकत्वाच्च पुंवत्त्वमिति तदाशयः ।स्त्रियाः पुंव॑दित्यत्र पूर्वपदाक्षेपे तु मृदुशब्दस्य पूर्वपदत्वाऽभावेन पुंवत्त्वाऽप्रवृत्तेः तदसङ्गतिः स्पष्टैव । ततश्च 'पट्वीमृदुभार्यं' इति भाष्यंचित्राजरद्गु॑रिति प्रयोगं गमयतीत्यर्थः । कर्मधारयेति । जरती चासौ चित्रा चेति कर्मधारयः ।पुंवत्कर्मधारये॑ति जरतीशब्दस्य पुंवत्त्वान्ङीपो निवृत्तिः । ततस्च जरच्चित्रा गौर्यस्येति कर्मधारयपूर्वपदत्वे बहुव्रीहौ पूर्वपदस्य जरच्चित्राशब्दस्यस्त्रियाः पुंव॑दिति पुंवत्त्वाट्टापो निवृत्तिरिति भावः । कर्मधारयोत्तरेति । जरती चासौ गौश्चेति कर्मधारयेगोरतद्धितलुकी॑ति टचि अवादेशेपुंवत्कर्मधारये॑ति जरतीशब्दस्य पुंवत्त्वे ङीपो निवृत्तौ टित्त्वान्ङीपि जरद्गवीशब्दः । ततश्चित्रा जरद्गवी यस्येति कर्मधारयोत्तरपदके बहुव्रीहौनद्यृतश्चे॑ति कपि चित्राशब्दस्यस्त्रियाः पुंव॑दिति पुंवत्त्वे 'चित्रजरद्गवीक' इति रूपमित्यर्थः । स्त्रियाः किमिति । षष्ठन्तस्य प्रश्नः । ग्रामणिदृष्टिरिति । ग्रामणीशब्दस्य नपुंसकत्वे 'ह्रस्वो नपुंसके' इति ह्रस्वे ग्रामणिशब्द इदन्तः । कुलशब्दो नपुंसकत्वस्फोरणार्थः । दृष्टिशब्देन नेत्रस्थानापन्नं विवक्षितम् । ग्रामणि दृष्टिरस्येत्येव विग्रहः । 'स्त्रियाः' इत्यस्याऽभावे ग्रामणीशब्दस्य पुंवत्त्वे नपुंसकह्रस्वनिवृत्तौग्रामणीकुल॑मिति स्यादिति भावः । गङ्गाभार्य इति । अत्र गह्गाशब्दस्य नित्यस्त्रीलिङ्गतया बाषितपुंसकत्वाऽभावान्न पुंवत्त्वमिति भावः । वामोरूभार्य इति । वामौ=सुन्दरौ ऊरू यस्या इति बहुव्रीहिः ।संहितशफलक्षणबामादेश्चेत्यूङ् । तदन्तस्य पुंवत्त्वे ऊङो निवृत्तौ 'वामोरुभार्य' इति पूर्वपदमुदन्तमेव स्यादिति भावः । स्त्रियां किमिति । सप्तम्यन्तस्य प्रश्नः । कल्याणीप्रदान इति । अत्र प्रधानशब्दस्य नित्यनपुंसकत्वात् कल्याणीशब्देन सामानाधिकरण्येऽपि स्त्रीलिङ्गत्वात्तस्मिन्परे पुंवत्त्वं नेति भावः । पूरण्यां त्विति ।पुंवत्त्वानिषेधोदाहरणे विशेषो वक्ष्यते॑ इति शेषः ।
index: 6.3.34 sutra: स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु
अत्र त्रयः पक्षाः सम्भवन्ति - स्त्रिया इति स्रीप्रत्ययग्रहणम्, अर्थग्रहणम् शब्दग्रहणं चेति । तत्र यदि स्रीग्रहणं स्वर्यते, स्वरितेनादिकारावगतिर्भवतीति स्त्र्यधिकारविहिताष्टाबादयो गृह्यन्त, यथा - गोस्रियोरुपसर्जनस्य इत्यत्र तदा चायमर्थो भवति - भाषितपुंस्कात्परे टाबादिस्रीप्रत्यया यथा पुंसि न भवन्ति तथा उतरपदे न भवन्तीति । नन्वश्रुतक्रियापदेषु वाक्येषु भवतीत्यध्याहारोऽन्यत्र दृष्टः उच्यते वतिनिर्देशेषूपमाने सता, असता वा या प्रसिद्धा सोपमेयेऽतिदेश्या यथा - उशीनरवन्मद्रेषु यवाः सन्ति, न सन्तीति ततः पुंसि स्रीप्रत्ययस्याभावात्स्रियामप्यभावोऽतिदिश्यत इति न भविष्यतित्येव वाक्यशेषः परिकल्पनीयः, तदा त्वनूङ्त्यिनेन सामानाधिकरण्यात् स्रियाः इति प्रथमार्थे षष्ठी, पुंवदिति सप्तमीसमर्थाद्वतिः । तत्र च प्रगेव समासाद्विग्रद्दवाक्य एव स्रीप्रत्ययस्य कृतत्वान्न तस्योतरपदे परतः न क्रोडादिबह्वचः इतिवत् प्रगभावः शक्यः प्रतिपादयितुमिति लुक् तद्धितलुकि इत्यादिवत्कृतस्य निवृत्तिरेव प्रतिपाद्या । विग्रहवाक्य एव कृताः स्रीप्रत्यया उतरपदे परतो निवर्तन्ते, लुप्यन्त इत्यर्थः । यदा तु पुंवत् स्रीत्वयुक्तं द्रव्यं स्रीशब्देनोच्यते, तदार्थग्रहणं भवति, स्रियाः स्त्र्यर्थस्य पुंस इति पुमर्थस्येवल कार्यं भवतीत्यर्थः । तदा च षष्ठीसमार्थाद्वतिः । यदा तु स्त्र्यर्थवाची शब्दः स्रीशब्देनोच्यते तदा शब्दग्रहणम्, स्रियाः - स्रीलिङ्गस्य शब्दस्य पुंवद् रुपं भवतीति रुपतिदेशः, वृत्तिविषये पुंशब्दसम्बन्धिनः कार्यस्यातिदेष्टव्यस्याभावात् । तत्र च प्रत्यासतेः पुंभावभाजः स्रीशब्दस्य प्रयोगान्तरे पुमांसमाचक्षाणस्य यद्रूपं तदेवातिदिश्यते, न यस्य कस्यचित् । अनूङ् इति षष्ठ।ल्र्थे प्रथमा, तत्रार्थग्रहणे स्रीशब्दे मुख्यः । अर्थस्य तूतरपदेन पौर्वापर्यमनूङ्ः, तत्वं च स्वतोऽनुपन्नमिति शब्दद्वारकमाश्रयणीयम् । इत्रयोस्तु पक्षयोः स्त्रीशब्दो गौणः । पौर्वापर्यादिकं तु समञ्चसमिति न प्रमाणतः पक्षविशेषपरिग्रहः सम्भवतीति निर्दोषतः पक्षः परिग्रह्यः । तत्राद्ये पक्षे एतभार्य इत्येतशब्दाद् वर्णादनुदातात् इति ङीपि तकारस्य च नकारे एकदेशाविकृतस्यानन्यत्वादेतशब्दाद्भाषितपुंस्कात्पर ईकार इति तन्निवृतावप्यर्थस्य स्त्रीत्वमनिवृतमिति नकारः श्रूयेत । न च सन्नियोगशिष्टत्वादीकारनिवृतौ नकारस्य निवतिः, उतरपदनिमितायाः स्त्रीप्रत्ययनिवृतेर्नकारनिवृत्याख्ये पूर्वविधौ स्थानिकद्भावे सत्यन्यतराभावस्यासिद्धेः । न च नकारस्यापि अदिकारविहितत्वादिकारवत्पुंवद्भावेनैव निवृत्तिः तस्य भाषितपुंस्कात्परत्वाभावात्, अप्रत्ययत्वेनोङसादृश्याभावाच्च । तथा पठ्वी भार्यास्य पटुअवी भार्यास्य पटुअभार्य इति निवृतस्यापि स्रीप्रत्ययस्य स्थानिवद्भावाद्यणादेशः स्यात् । अथ तूतरपदे परतोऽनूङ् स्त्रीप्रत्ययो भाषितपुंस्कान्न भवतीति न क्रोडादिबह्णचः इतिवत् प्रागभाव एवात्र विधेयः तत्सामर्थ्याच्च विग्रहवाक्य तएव प्राप्तोऽन्तारङ्गोऽपि स्त्रीप्रत्ययो न क्रियते इत्युच्येत तदैतद्दोषाभावेऽपि लुगलुगस्त्रीविषयद्विस्त्रीप्रत्ययेषु दोषः । लुक् - वतण्डस्यापत्यं स्त्री वतण्डाच्च लुक् स्त्रियाम्, शार्ङ्गरवादिपाठान्ङीन्, वतण्डी चासौवृन्दारिका च वातण्ड।ल्वृन्दारिकेति पुंवत् कर्मधारय इति इकारस्य निवृतावपि अर्थगतस्य स्त्रीत्वस्यानिवृतत्वात् लुक् स्त्रियमा इति यञो लुक्प्राप्नोति । स्यादेतत् - स्त्री - ई स्त्रीति ईकारप्रश्लेषेण स्त्रियां य ईकारस्तत्र परतो लोपः, अत्र तु पुंवद्भावेनेकारस्यानुत्पन्नत्वाल्लुङ् न भविष्यतीति तन्न, इत्रेतराश्रयप्रसङ्गात् । कथम् शार्ङ्गरवादिषु वतण्डशब्दः कृतयञ्लुक् पठ।ल्ते, ततश्चाकृते लुकि ईकारो नास्ति, अकृते चेकारे लुकोऽप्रसङ्गः । अलुक् - गर्गस्यापत्यं स्त्रियः, गर्गादिभ्यो यञ् यञश्चेति ङीप् , गार्ग्यश्च ता वृन्दारिकाश्त गर्गवृन्दारिका इति ङीपि निवृतेऽपि स्त्रीत्वस्यानिवृतत्वाद् यञञोश्च स्त्रियामिति लुग्न प्राप्नोति, वाक्यवदलुगेव स्यात् । अस्त्रीविषयः - कुञ्जस्यापत्यं स्त्री गोत्रे कुञ्जादिभ्यश्चफञ्, गोत्रं च चरणैः सह इति जातित्वान् ङीष्, कौञ्जायनी चासौ वृन्दारिका च कौञ्जायनवृन्दारिकाः ङीषि निवृतेऽपि स्त्रीत्वस्यानिवृतेः व्रातच्फञोरस्त्रियाम् इत्यस्त्रीविषयो न स्यात् । द्विस्त्रीप्रत्ययः - गर्गस्यापत्यं स्त्री गर्गादिभ्यो यञ्, प्राचां ष्फ तद्धितः, षिल्लक्षणो ङीष्, गार्ग्यायणी चासौ वृन्दारिका च गार्ग्यवृन्दारिकेत्यादौ यत्र द्वौ स्त्रीप्रत्ययौ तत्र यो भाषितपुंस्कात्परः ष्फो नासावुतरपदे, ङीषा व्यावधानात्। यश्चोतरपदे ङीष् नासौ भाषितपुंस्कात्परः, ष्फेण व्यवधानात्, तस्य च स्त्रियामेव विहितत्वात् इति पुंवद्भाव एव न स्यात् । तथा इडविडोऽपत्यं स्त्री जनपदशब्दात्क्षत्रियादञ् दरदोऽपत्यं स्त्री द्व्यञ्मगध इत्यण्, तयोः अतश्चेति लुक् - इडविडदरत्, स चासौ वृन्दारिका च ऐडविवृन्दारिका - अत्र पुंवद्भावो न स्यात् अधिकारविहितस्य कस्यचित्प्रत्ययस्याभावात् । द्वितीये तु पक्षेऽर्थस्य पुमर्थत्वेऽतिदिष्टे तद्वाची शब्दः प्रवर्तत इति नैते दोषाः, किन्तु खित्यनव्ययस्य इति ह्रस्वत्वस्यास्य पुंवद्भावस्य विप्रतिषेधो नोपपद्यते भन्नविषयत्वात् । अचो ह्रस्वत्वमर्थस्य पुंवद्भावः, ततः कालिम्मन्येत्यत्र विप्रतिषेधे परम् इतिह्रस्वत्वमिष्टम्, तन्न प्रप्नोति । शब्दपक्षे तु द्वयोरप्येकविषयत्वाद्विप्रतिषेधोऽस्ति, पुंवद्भावस्यावकाशः, यत्र खिदन्तं नास्ति - दर्घनीयभार्यः, ह्रस्वत्वस्यावकारशो यत्र पुंवद्भावो नास्ति - कालिम्मन्यः पुमानिति कालिम्मन्या स्त्रीत्यत्रोभयप्रसङ्गे परत्वाद् ह्रस्वत्वं भवति । न च कृतेऽपि ह्रस्वत्वे पुनः प्रसङ्गविज्ञानात्पुंवद्भावप्रसङ्गः, सकृद्गतिन्यायस्याश्रयणात् । न चार्थपक्षेऽप्यसत्यप्येकविषयत्वेऽसम्भवाद्विप्रतिषेधः, असम्भवादित्यस्यैवासिद्धेः । यद्यपि हि पुंवद्भावे सति स्त्रीप्रत्ययस्य निवृतौ दीर्घान्तत्वाभावाद् ह्रस्वस्याप्रवृत्तिः, तथापि ह्रस्वे प्रवृतेऽप्यर्थस्यानिवृतत्वात्पुंवद्भावः प्राप्नोत्येव । तदेवमाद्ययोर्दुष्टत्वातृतीयं पक्ष्माश्रित्याह - भाषितः पुमान्येनेत्यादि । भाषितः पुमान्येन शब्देनेति शब्देऽन्यपदार्थे बहुव्रीहिराश्रीयते, ततः स्त्रियां पुंसि च वर्तमानस्य यस्य प्रवृत्तिनिमितं भिद्यते, तस्यापि प्राप्नोति - द्रोणीभार्यः, पात्रीभार्य इति । द्रोणशब्दः परिमाणे पुंल्लिङ्गः, पात्रशब्दोऽर्द्धर्चादित्वात्परिमाणे पुंल्लिङ्गः, भाजनविशेषे तु स्त्रीलिङ्गः, सर्वत्राप्यत्र प्रवृत्तिनिमितभेदेऽपि य एव प्रयोगान्तरे पुमांसमाख्यत्, स एव सम्प्रति स्त्रियां वर्तत इति स्यादेव पुंवद्भाव इति मत्वा विशिनष्टि - समानायामाकृताविति । भाष्यग्रहन्थोऽयम्, अतो व्याचष्टे - एकस्मिन्प्रवृत्तिनिमित इति । स भाषितपुंस्कः एशब्दः, अयं तावदर्थो विवक्षित इत्यर्थः । यथा पुनरयमर्थः सूत्राक्षरैरेव लभ्यते, तथा पृच्छति - तदेतदेवमित्यादि । तदेतदर्थरुपम् एवम्प्रकारं कथं भवतीत्यर्थः । प्रवृत्तिनिमितलक्षणेऽन्यपदार्थे सप्तम्यर्थे बहुव्रीहिरित्युतरम् । एतदुक्तं भवति - यस्मिन्पिरवृत्तिनिमिते पुमान् भाषितः पुमासमाचक्षाणस्य यत्प्रवृत्तिनिमितं तेन युक्तं स्त्र्यर्थमाच्क्षाणो भाषितपुंस्क इति । नन्वेवमपि द्रोणीभार्य इत्यादौ दोषः स्यदेव, कथम् यस्यां गवादन्यां द्रोणीशब्दो वर्तते, सोऽपि यदा अर्थ इत्युच्यते तदा भाषितपुंस्केन प्रवृत्तिनिमितेन युज्यते, तत्र चार्थं शब्दप्रवृत्तिनिमितमप्यर्थ्यमानत्वाद् गवादन्यां सन्निहितमिति तत्र वर्तमानो द्रोतथणीशब्दः स्वयं तत्प्रवृत्तिनिमितमनभिदधानोऽपि वस्तुतस्तद्यौक्तमर्थमाह नैतदस्ति, एवं हि भाषितपुंस्कग्रहणमनर्थकं स्यात् सर्वत्र सुलभत्वात् । अतो यः शब्दो भाषितपुंसकेन प्रवृत्तिनिमितेन युक्तं स्वार्थं तेनैव रुपेणाह, न रुपान्तरेण, स भाषितपुंस्को गृह्यते । द्रोणीशब्दस्तु द्रोणीत्वजातियुक्तेन रुपेण गवादन्यां वर्तते, नार्थ्यमानतया । एवमपि द्यौर्भार्या यस्य द्यौभार्य इत्यत्र दिव्यशब्दस्य स्त्रीलिङ्स्य स्वर्ग इति पुंल्लिङ्गः प्राप्नोति, येनैव रुपेण स्वर्गशब्देनोच्यते, तेनैव रुपेण दिव्शब्देनापीति कृत्वा एवं तर्हि प्रत्यासतेर्यंस्य पुंवद्भावो विधीयते, तेनैव यत्र पुमान् भाषित इति विज्ञायते, आत्मनः प्रयोगान्तरे पुमांसमाचक्षाणस्य यत्प्रवृत्तिनिमितं तद्यौक्तं स्त्र्यर्थम्, सम्प्रत्याचक्षाणस्य स्त्रीशब्दस्य पुम्भाषणदशायां यद्रू पं तदेवाद्यापि भावतीत्यर्थः । आतिदेशिकभेदाच्च पुंवदिति वतिनिर्देशः । अनूङिति पर्युदासे सति नञिवयुक्तन्यायेन ऊङ्सदृशस्य टाबादेर्ग्रहणादैडविडवृन्दारिकेत्यादौ स्त्रीप्रत्ययाभावान्न स्यादिति प्रसज्यप्रतिषेधं दर्शयति - ऊङेऽभावोऽनूङिति । भाषितपुंस्कादनूङिति । यद्ययमसमासः स्यात् - अनूङिति, तदा प्रथमा स्यात्, लुप्तषष्ठीकं वा । षष्ठीपक्षेऽयमर्थो भवति - भाषितपुंस्कात्परस्य स्त्रीशब्दस्येव रुपं भवति, ऊङ्न्तस्य तु नेति । ततश्च पुंवद्भावभाजः स्त्रीशब्दस्य भाषितपुंस्कत्वं विशेषणं न स्यात्, तत्र को दोषः इह च प्रसज्येत - अङ्गारका नाम शकुनयः तेषां कालिकाः स्त्रियः तत एताः कालिकावृन्दारिका इति । एतच्छब्दाद्भाषितपुंस्कात्परः कालिकाशब्द इति तस्य स्त्रीविषयस्याप्यङ्गारकशब्दता स्यात्। शक्यन्ते हि ताः साहचर्यादङ्गारकशब्देनाभिधातुम् । तथा अश्वस्य वडवा, पुरुषस्य योषित्, हंसस्य वरटा, कच्छपस्य डुलीत्यादावपि प्रसङ्गः । दर्शनीयभार्य इत्यादौ च न स्यात्, न ह्यत्र दर्शनीयशब्दो भाषितपुंस्कात्परः । प्रथमायां तु भाषितपुंस्कादित्यनेन सामानाधिकरण्यात्स्त्रिया इति पञ्चमी षष्ठ।लं कस्यचिदर्थस्यासम्भवात् । ततश्च भाषितपुंस्कात् स्त्रीलिङ्गात्पर ऊङेऽन्यः प्रत्ययः पुंवदित्यर्थो भवति, तत्र स एव दोषो यः प्रथमपक्षे । तदेवं समासे देषप्रसङ्गाद्व्यधिकारणपदो बहुव्रीहिराश्रयणीय इत्याह - भाषितपुस्कादनूङ्त्याइदि । आलुक्च निपातनात्पञ्चम्या इति । अलौकिकत्वादस्य निपातनादित्यपरिहारः । लुगपि तर्हि न प्राप्नोति अलौकिकत्वादेवेति यत्किञ्चदेतत् । अनूङ् ईति षष्ठ।ल्रथे प्रथमा, तदायमर्थेऽवस्थितः - भाषितपुस्कात्स्वस्मादूङेऽभावो यस्मिन् । कोऽर्थः यस्मिन् स्त्रीशब्दे भाषिपुंस्कात्पर उङ्न कृत इत्यर्थ तैति । अपर आह - भाषितपुंस्कादिति षष्ठ।ल्र्थे पञ्चमी, सर्वमन्यत्पूर्ववत् । भाषितपुंस्कस्य स्त्रीशब्दस्य पुंशब्दस्येव रुपं भवति, एऊङ्न्तस्य तु नेति । नन्वेवमाश्रीयमाणे यत्र भाषितपुस्कस्यैवानन्तरमुतरपदं तत्रैव स्यात् दर्शनीयबय इत्यादौ, अत्र हि भाषितपुंस्कस्य दर्शनीयशब्दस्य टापश्चैकादेशः पूर्वं प्रत्यन्तवद्भावाद्भाषितपुंस्कग्रहणेन गृह्यते, गार्गी चासौ वृन्दारिका च गार्ग्यवृन्दारिकेत्यादौ न स्यात्, योऽत्र भाषितपुंस्को गार्ग्यशब्दो न तस्यानन्तरमुतरपदम् ङीपा व्यवधानात् । यस्य चानन्तरं गार्गीशब्दस्य नासौ भाषितपुंस्कः स्यादेतदेवम्, प्रयोगान्तरे भाषितपुंस्कस्य सम्प्रति स्त्रियां वर्तमानस्य पुंवद्भाव उच्येत । स्त्रियां वर्तमानस्य तदैव भाषितपुंस्कस्य पुंवद्भावं ब्रूमः, सम्भवति च स्त्रीयां वर्तमानस्य तदैव भाषितपुंस्कत्वं भाषितपुंस्केन प्रवृत्तिनिमितेन युक्तां स्त्रियमाहेति कृत्वा । एवं च स्त्रीशब्दस्यैवान्तर उतरपदे पुंवद्भाव इति सर्वत्र सिध्यति । ग्रामणि दृष्टिरस्येति । अत्र ग्रामणिशब्दोऽपरित्यक्तस्वलिङ्ग तएव दृष्टिशब्देन समानाधिकरणो भवति ए। अत्र यदि पुंवद्भावः स्यान्नपुंसकह्रस्वत्वं निवर्तेतः कथमित्यादि । अनवयवभूतगर्भसम्बन्धः स्त्रियां गर्भिणीशब्दस्य प्रवृत्तिनिमितम्, पुंसि त्ववयवभूतगर्भसम्बन्धः । प्रसूत - प्रजातशब्दयोरपि स्त्रियां गर्भमोचननिमितम, पुंसितुगर्भाधानम् । कर्तव्योऽत्र यत्न इति । अन्तर्वर्तिवस्तुसम्बन्धमात्रं गर्भिणीशब्दस्य प्रवृत्तिनिमितमवयवत्वानवयवत्वेन तन्त्रम् । एवं प्रसूतप्रजातशब्दयोरपि आधानविमोचनत्यागेनापत्यसम्बन्धमात्रं निमितमाश्रीयत इत्ययमत्र यत्नः । एब्रह्मबन्धूभार्य इति । ऊङे निवृत्तिर्न भवति । न कोपधायाः इत्यत्रैवोङ्ग्रहणे कर्तव्ये पृथक्प्रतिषेधादस्य वैलत्रण्यं ज्ञयते । तेन ब्रह्मबन्धूवृन्दरिकेति पुंवत्कर्मधारय इति निषेधविपये विधीयमानोऽपि पुंवद्भावो न भवति । एष चार्थोऽनूङ्त्यिस्य तत्रानुवृतेर्लभ्यते । अपूरणीप्रियादिष्वित्ययं तु प्रतिषेधस्तत्रैव कर्तव्यः, न ह्यस्य पुंवत्कर्मधारय इत्यत्रानुवृत्तिरिष्यते महानवमी, महाद्वादशी, अक्षयतृतीया, कृष्णचतुर्दसीत्यादौ पूरण्यामपि कर्मधारये पुंवद्भावस्येष्टत्वात् । प्रधानपूरणीग्रहणं कर्तव्यमिति । प्रधानं या पूरणी तस्यामेव प्रतिषेधो भवतीति वक्तव्यमित्यर्थः । एवच्च प्रधाने कार्यसम्प्रत्ययाल्लभ्यते । कल्याणपञ्चमीकः पक्ष इति । अत्र तिरोहितावयवभेदः पक्षोऽन्यपदार्थ इति तत्र पूरण्या अननुप्रवेशान्नास्ति प्राधान्यम्, कल्याणपञ्चमा रात्रय इत्यादावुद्भूतावयवभेदा रात्रमोऽन्यपदार्थः, तत्र यथा रात्रयः समासाभिधेया, एवं पञ्चम्यपीति पूरण्याः प्राधान्यम् । अथ दृढभक्तिः, शोभनभक्तिरित्यत्र कथं पुंवद्भावः, यावता प्रियादिषु भक्तिशब्दः पठ।ल्ते अत आह - दृढभक्तिरित्येवमादिष्विति । स्त्रीवाचित्वं पूर्वपदस्याविवक्षितम्, अतो दृढभक्तिरित्येवमादिसिद्धिरित्येवं चोद्यसमाधानं कर्तव्यमित्यर्थः । दृढशब्दोऽत्र दाढ।ल्Çनिवृत्तिपरः, तत्र दाढ।ल्Çनिवृत्तिपरायां चोदनायां स्त्रीलिङ्गोपादानमकिञ्चित्करमिति भावः । न चैवं सूत्रस्यानादरणीयत्वम्, लिङ्गविशेषविवक्षायां दर्शनीयभार्य इत्याद्यनिष्टप्रसङ्गात् । अथेह कथं भवितव्यम् - पट्वीमृद्व्यौ भार्ये अस्येति, पट्वीमृदुभार्य इति भवितव्यम् यस्योतरपदमनन्तरं तस्य पुंवद्भावो नेतरस्येति ॥