8-2-39 झलां जशः अन्ते पदस्य पूर्वत्र असिद्धम्
index: 8.2.39 sutra: झलां जशोऽन्ते
पदस्य अन्ते झलाम् जशः
index: 8.2.39 sutra: झलां जशोऽन्ते
पदान्ते विद्यमानस्य झल्-वर्णस्य जश्-आदेशः भवति ।
index: 8.2.39 sutra: झलां जशोऽन्ते
A झल् letter occurring at end of a पद is converted to the corresponding जश् letter.
index: 8.2.39 sutra: झलां जशोऽन्ते
झलां जशः आदेशा भवन्ति पदस्यान्ते वर्तमानानाम्। वागत्र। श्वलिडत्र। अग्निचिदत्र। त्रिष्टुबत्र। अन्तग्रहणं झलि इत्येतस्य निवृत्त्यर्थम्। वस्ता। वस्तव्यम्।
index: 8.2.39 sutra: झलां जशोऽन्ते
पदान्तेझलां जशः स्युः । पटत्पटदिति ॥
index: 8.2.39 sutra: झलां जशोऽन्ते
पदान्ते झलां जशः स्युः। वागीशः॥
index: 8.2.39 sutra: झलां जशोऽन्ते
झल् = वर्गचतुर्थाः + वर्गतृतीयाः + वर्गद्वितीयाः + वर्गप्रथमाः + ऊष्माणः ।
जश् = वर्गतृतीयाः ।
पदान्ते विद्यमानस्य झल्-वर्णस्य स्थाने अनेन सूत्रेण अन्तरतमः जश्-वर्णः आदेशरूपेण आगच्छति । यथा - वाक् → वाग् । षष् → षड् ।
अन्तरतमः इत्युक्ते यस्य उच्चारणस्थानमाभ्यन्तरप्रयत्नश्च स्थानिनः समानः अस्ति तादृशः वर्णः । अतः अनेन सूत्रेण -
1) कवर्गीयवर्णस्य स्थाने गकारः विधीयते । यथा - वाक् → वाग् ।
2) चवर्गीयवर्णस्य स्थाने जकारः विधीयते । परन्तु एतादृशम् जश्त्वम् न सम्भवति, यतः चोः कुः 8.2.30 इत्यनेन पदान्तचवर्गस्य स्थाने कुत्वम् भवति ।
3) टवर्गीयवर्णस्य स्थाने डकारः विधीयते । यथा - लिढ् → लिड् ।
4) तवर्गीयवर्णस्य स्थाने दकारः विधीयते । यथा - तत् → तद् ।
5) पवर्गीयवर्णस्य स्थाने बकारः विधीयते । यथा - त्रिष्टुप् → त्रिष्टुब् ।
6) शकारस्य स्थाने जकारः विधीयते । परन्तु एतादृशम् जश्त्वम् न सम्भवति, यतः पदान्तशकारस्य व्रश्चभ्रस्ज... 8.2.36 इत्यनेन षकारादेशः भवति ।
7) षकारस्य स्थाने डकारः विधीयते । यथा - षष् → षड् ।
8) सकारस्य स्थाने दकारः विधीयते । परन्तु एतादृशम् जश्त्वम् न सम्भवति, यतः पदान्तसकारस्य ससजुषो रुँः 8.2.66 इत्यनेन रुँत्वम् भवति । (ज्ञातव्यम् - परत्वादप्यत्र ससजुषो रुँः 8.2.66 एतत् सूत्रम् झलां जशोऽन्ते 8.2.39 अस्य कृते असिद्धम् नास्ति ।)
9) हकारस्य स्थाने गकारः विधीयते । परन्तु एतादृशम् जश्त्वम् न सम्भवति, यतः पदान्तहकारस्य हो ढः 8.2.31 इत्यनेन ढकारादेशः भवति ।
ज्ञातव्यम् -
1) अनेन सूत्रेण पदान्ते विद्यमानस्य झल्-वर्णस्य (यथासम्भवम्) जश्-वर्णादेशः नित्यम् भवति, विकल्पेन न ।
2) अनेन सूत्रेण पदान्ते विद्यमानस्य झल्-वर्णस्य (यथासम्भवम्) जश्-वर्णादेशः अग्रे विरामः अस्ति चेदपि भवति, कश्चन अन्यः वर्णः अस्ति चेदपि भवति ।
3) झल्-वर्णस्य जश्-वर्णादेशः एव 'जश्त्वम्' नाम्ना ज्ञायते । अष्टाध्याय्यां जश्त्वविधायके द्वे सूत्रे स्तः - झलां जशोऽन्ते 8.2.39 तथा झलां जश् झशि 8.4.53 । एतयोः प्रथमम् सूत्रम् पदान्ते जश्त्वं विधीयते, द्वितीयं सूत्रम् च अपदान्तस्य झल्-वर्णस्य जश्त्वम् कारयति ।
index: 8.2.39 sutra: झलां जशोऽन्ते
झलां जशोऽन्ते - अथ पररूपाऽभावपक्षे पटत्पटत्-इतीत्यत्र तकारस्य दकारं विधत्ते-झलां जशोन्ते । पदस्येत्यधिकृतं । तदाह — पदान्त इति । पटत्पटदितीति । स्थानसाम्यात्तकारस्य दकारो जशिति भावः । अत्राच्छब्दस्य पररूपनिषेधाऽभावे तकारमात्रस्य पररूपैकादेशविकल्पविधौ तस्य पररूपाभावपक्षेऽच्छब्दस्य पूर्वसूत्रेण पररूपापत्तौ पटत्पटितीति स्यादिति ध्येयम् ।