षष्ठी

2-2-8 षष्ठी आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

षष्ठ्यन्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। राज्ञः पुरुषः, राजपुरुषः। ब्राह्मणकम्बलः॥ कृद्योगा च षष्ठी समस्यत इति वक्तव्यम्॥ इध्मप्रव्रश्चनः। पलाशशातनः। किमर्थमिदमुच्यते? <<प्रतिपदविधाना च षष्ठी न समस्यते>> इति वक्ष्यति, तस्यायं पुरस्तादपकर्षः॥

Siddhanta Kaumudi

Up

राज्ञः पुरुषो राजपुरुषः ॥

Laghu Siddhanta Kaumudi

Up

सुबन्तेन प्राग्वत्। राजपुरुषः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<षष्ठी>> - षष्ठी । षष्ठन्तं सुबन्तेन समस्यते, स तत्पुरुष इत्यर्थः । राजपुरुष इति । राजन् अस् पुरुष स् इत्यलौकिकविग्रहवाक्ये समासे सति सुब्लुकि अन्तर्वर्तिनीं विभकिंत प्रत्ययलक्षणेनाश्रित्य नलोपः । नच लुका लुप्तत्वान्न प्रत्ययलक्षणमिति वाच्यं, पदत्वस्य सुब्घटितसमुदायधर्मत्वेन तस्याऽङ्गकार्यत्वाऽभावादिति भावः ।

Padamanjari

Up

षष्ठी॥ कृद्योगा चेत्यादि।'कर्तृकर्मणोः कृति' इति कृच्छब्दोपादानेन या विहिता सा कृद्योगा। इध्मप्रव्रश्चन इति। ठोव्रश्चू च्छेदनेऽ, ठ्करणे ल्युट्। पलाशशातन इति। पलाशानि शात्यन्तेउपात्यन्ते येन दण्डादिना स पलाशशातनः। किमर्थमिदमुच्यत इति। सूत्रेण सिद्धिं मन्वानस्य प्रश्न। प्रतिपदविधाना चेत्यादि। यदा तस्य वक्तव्यस्यारम्भः तदेदमपि वक्तव्यम्। तस्य त्वनारभ्यतां तत्रैव वक्ष्यामः। अपकर्ष इति। अपवाद इत्यर्थः॥