क्विप् च

3-2-76 क्विप्च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् सुपि उपसर्गेटपि छन्दसि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सर्वधातुभ्यः सोपपदेभ्यो निरुपपदेभ्यश्च छन्दसि भाषायां च क्विप् प्रत्ययो भवति। उखायाः स्रंसते उखास्रत्। पर्णध्वत्। वाहाद् भ्रश्यति वाहाभ्रट्। <<अन्येषामपि दृश्यते>> ६.३.१३७ इति दीर्घः॥

Siddhanta Kaumudi

Up

अयमपि दृश्यते । सत्सूद्विष - <{SK2975}> इति त्वस्यैव प्रपञ्चः । उखास्रत् । पर्णध्वत् । वाहभ्रट् ॥

Laghu Siddhanta Kaumudi

Up

अयमपि दृश्यते। उखास्रत्। पर्णध्वत्। वाहभ्रट्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<क्विप् च>> - क्विप् च । अयमपीति । सर्वधातुभ्यः सोपपदेभ्यो निरुपपदेभ्यश्च छन्दसि लोके च क्विप् दृश्यते इत्यर्थः । नन्वनेनैव सिद्धेसत्सूद्विषे॑ति सूत्रं व्यर्थमित्यत आह — सत्सूद्विषेति ।सत्सूद्विषे॑ति सूत्रं तुक्विप् चे॑त्यस्यैव प्रपञ्च इत्यर्थः । उखारुआदिति । उखायाः रुआंसत इति विग्रहः । रुआंसेः क्विप्,अनिदिता॑मिति नलोपः, 'वसुरुआंसु' इति दत्वम् । एवं पर्णध्वत् । पर्णात् द्वंसत इति विग्रहः । वाहभ्रडिति । वाहात् भ्रश्यतीति विग्रहः । व्रश्चादिना षः ।

Padamanjari

Up

क्विप् च॥ निरुपपदेभ्यश्चेति। एतदपिशब्दस्य सर्वोपाधिव्यभिचारार्थश्यानुवृतेर्लभ्यते, न तु सुपीत्यस्य निवृतेः; उतरसूत्रे'सुप्युपसर्गे' पीति वर्ततेऽ इति वक्ष्यमाणत्वात्,'च्छन्दसि भाषायाञ्च' इति पूर्वसूत्र एव'च्छन्दसि' इत्यस्य निवृतत्वात्। उखास्रदिति।'स्रंसु ध्वंसु भ्रंसु अवस्रंसने' ,ठनिदिताम्ऽ इत्युपधालोपः,'वसुस्रंसु' इत्यादिना दत्वम्। वाहभ्रडिति।'भ्रंशु अधः पतने' ,व्रश्चादिना षत्वम्, ठन्येषामपि द्दश्यतेऽ इति दीर्घः। उखायाः स्रंसते पर्णानि, ध्वंसते, वाहाद् भ्रश्यतीति विग्रहः। ध्वंसिरन्तर्भावितण्यर्थः सकर्मकः। क्वचितु वृतावेव विग्रहवाक्यानि पठ।ल्न्ते॥