8-3-55 अपदान्तस्य मूर्धन्यः पूर्वत्र असिद्धम् संहितायाम्
अपदान्तस्य संहितायाम् मूर्धन्यः
अधिकारोऽयम् । इतः परमस्य पादस्य परिसमाप्तिपर्यन्तम् पदान्ते अविद्यमानस्य निर्दिष्टस्य वर्णस्य मूर्धन्यादेशः भवति ।
This is an अधिकार, which goes till the end of the पाद. For the स्थानी that does not occur at end of a पद, the closest 'मूर्धन्य' letter comes as the आदेश.
पदाधिकारो निवृत्तः। अपदान्तस्येति मूर्धन्य इति चैतदधिकृतं वेदितव्यमा पादपरिसमाप्तेः। वक्ष्यति — <<आदेशप्रत्यययोः>> ८.३.५९ — सिषेव। सुष्वाप। अग्निषु। वायुषु। अपदान्तस्येति किम्? अग्निस्तत्र। वायुस्तत्र। ष इत्येव सिद्धे मूर्धन्यग्रहणं ढकारार्थम्। अकृढ्वम्। चकृढ्वे॥
आ पादपरिसमाप्तेरधिकारोऽयम् ॥
एतत् अधिकारसूत्रमस्ति । अस्य अधिकारः अष्टमाध्यायस्य तृतीयपादस्य समाप्तिपर्यन्तम् गच्छति । अस्मिन् अधिकारे यदि कश्चन वर्णस्य आदेशः उक्तः अस्ति, सः वर्णः च पदान्ते नास्ति, तर्हि तस्य वर्णस्य 'मूर्धन्य'आदेशः भवति । किम् नाम मूर्धन्य-आदेशः? येषाम् वर्णानामुच्चारणस्थानम् मूर्धा अस्ति, तेषु अन्तरतमः वर्णः आदेशरूपेण विधीयते, इत्यर्थः । अस्मिन् अधिकारे प्रायः सर्वेषु सूत्रेषु सकारस्य स्थाने मूर्धन्यः षकारः विधीयते । केषुचन स्थलेषु धकारस्य स्थाने ढकारः अपि विधीयते । अतः अत्र 'मूर्धन्यः' आदेशः इति उक्तमस्ति ।
<<अपदान्तस्य मूर्धन्यः>> - रामे — सु॑ इति स्थिते । आदेशप्रत्यययोरिति षत्वं विधास्यन्नाह-अपदान्तस्य । मूर्धन्यः=मूर्धस्थानकः । अष्टमाध्यायस्य तृतीयापादे मध्यत इदं सूत्रं पठितम् । इत आरभ्यैतत्पादसमाप्तिपर्यन्तमिदमधिक्रियत इत्यर्थः ।
मूर्धन्यग्रहणमनर्थकम्,'ष' इत्येव सिद्धम् ? अत आह - ष इत्येव सिद्धे इति ।'ष' इत्युच्यमाने ठिणः षीध्वम्ऽ इत्यत्रापि षत्वं प्रसज्येत, ढत्वं चेष्यते । अथात्रैव मूर्धन्यग्रहणं क्रियते, उतरेषु योगेषु पुनः षग्रहणं कर्तव्यम् । मूर्धन्यग्रहणे तु क्रेयमाणे न दोषो भवति ॥