स्कोः संयोगाद्योरन्ते च

8-2-29 स्कोः संयोगाद्योः अन्ते च पदस्य पूर्वत्र असिद्धम् लोपः झलि

Sampurna sutra

Up

संयोगाद्योः स्कोः पदस्य अन्ते झलि च लोपः

Neelesh Sanskrit Brief

Up

यः संयोगः पदस्य अन्ते उत झल्-वर्णात् अव्यवहितरूपेण पूर्वं विद्यते, तस्य आदिस्थस्य सकारस्य ककारस्य च लोपः भवति ।

Neelesh English Brief

Up

If there is a संयोगः at end of a पद, or if there is a संयोगः which is followed by a झल्-वर्ण, and if the first letter of that संयोगः is either स् or क् , then this letter is deleted.

Kashika

Up

पदस्यान्ते यः संयोगः, झलि परतो वा यः संयोगः, तदाद्योः सकारककारयोर्लोपो भवति। लस्जेः — लग्नः। लग्नवान्। साधुलक् । मस्जेः — मग्नः। ककारस्य — तक्षेः — तट्। तष्टः। तष्टवान्। काष्ठतट्॥ झलि सङीति वक्तव्यम्॥ किमिदं सङीति? सनः सप्रभृति महिङो ङकारेण प्रत्याहारः। इह मा भूत् — काष्ठशक् स्थातेति। थकारे झलि ककारस्य संयोगादेर्लोपः प्राप्नोति। तदत्र शकेः क्विबन्तस्य प्रयोग एव नास्तीत्याह — <<काष्ठशगेव नास्ति कुतोऽयं काष्ठशकि तिष्ठेत्>> (महाभाष्य ३.४००) इति। वास्यर्थम्, काक्यर्थम् इत्यत्रापि बहिरङ्गलक्षणस्य यणादेशस्यासिद्धत्वात् संयोगादिलोपो न भवति। स्कोरिति किम्? नर्नर्त्ति। वर्वर्त्ति। संयोगाद्योरिति किम्? पयः। शक् । अन्ते चेति किम्? तक्षिता। तक्षकः॥

Siddhanta Kaumudi

Up

पदान्ते झलि च परे यः संयोगस्तदाद्योः सकारककारयोर्लोपः स्यात् । भृट् । भृड् । सस्य श्चुत्वेन शः । तस्य जश्त्वेन जः । भृज्जौ । भृज्जः । ऋत्विग् <{SK373}> इत्यादिना ऋतावुपपदे यजेः क्विन् । क्विन्नन्तत्वात्कुत्वम् । ऋत्विक् । ऋत्विग् । ऋत्विजौ । ऋत्विजः । रात्सस्य <{SK280}> इति नियमान्न संयोगान्तलोपः । उर्क् । उर्ग् । ऊर्जौ । ऊर्जः । त्यदाद्यत्वं पररूपत्वं च ॥

Laghu Siddhanta Kaumudi

Up

पदान्ते झलि च यः संयोगस्तदाद्योः स्कोर्लोपः। भृट्। सस्य श्चुत्वेन शः। झलां जश् झशि इति शस्य जः। भृज्जौ। भृड्भ्याम्॥ त्यदाद्यत्वं पररूपत्वं च॥

Neelesh Sanskrit Detailed

Up

झल् = वर्गप्रथमाः + वर्गद्वितीयाः + वर्गतृतीयाः + वर्गचतुर्थाः + ऊष्माणः । आहत्य 24 व्यञ्जनानि <<संयोगान्तस्य लोपः>> 8.2.23 इति सूत्रेण पदान्ते विद्यमानस्य संयोगस्य अन्तिमवर्णस्य लोपे प्राप्ते; तदपवादत्वेन प्रकृतसूत्रं प्रवर्तते । पदान्ते विद्यमानस्य संयोगस्य, तथा च यस्मात् संयोगात् अनन्तरम् अव्यवहितरूपेण झल्-प्रत्याहारस्य वर्णः अस्ति तादृशस्य संयोगस्य प्रथमः वर्णः सकारः उत ककारः अस्ति चेत् तस्य सकारस्य / ककारस्य एव लोपः भवति‌ —‌ इति अस्य सूत्रस्य आशयः । क्रमेण उदाहरणानि एतानि — 1. पदान्तसंयोगस्य आदिस्थसकारस्य लोपः भृस्ज् इति जकारान्तशब्दस्य तृतीयाद्विवचनस्य रूपसिद्धौ प्रकृतसूत्रेण सकारस्य लोपः भवति — भृस्ज् + भ्याम् [तृतीयाद्विवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे <<स्वादिष्वसर्वनामस्थाने>> 1.4.17 इत्यनेन प्रकृतेः पदसंज्ञा भवति ।] → भृज् + भ्याम् [<<स्कोः संयोगाद्योरन्ते च>> 8.2.29 इति सकारलोपः] → भृष् + भ्याम् [<<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> 8.2.36 इति जकारस्य षकारः] → भृड् + भ्याम् [<<झलां जशोऽन्ते>> 8.2.39 इति षकारस्य जश्त्वे डकारः] → भृड्भ्याम् 2. अपदान्तसंयोगात् झल्-वर्णे परे आदिस्थसकारस्य लोपः मस्ज्-धातोः क्त-प्रत्ययान्तरूपस्य स्थितौ झल्-वर्णे परे प्रकृतसूत्रेण संयोगादिसकारस्य लोपः भवति — टुमस्जोँ (शुद्धौ, तुदादिः, <{6.151}>) → मस्ज् [<<आदिर्ञिटुडवः>> 1.3.5 इति टु-समुदायस्य इत्संज्ञा । <<उपदेशेऽजनुनासिक इत्>> 1.3.2 इति ओकारस्य इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः] → मस्ज् + क्त [<<निष्ठा>> 3.2.102 इति क्तप्रत्ययः] → मस्ज् + त [<<लशक्वतद्धिते>> 1.3.8 इति ककारस्य इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः] → मज् + त [<<स्कोः संयोगाद्योरन्ते च>> 8.2.29 इति सकारलोपः] → मग् + त [<<चोः कुः>> 8.2.30 इति झलि परे जकारस्य कुत्वे गकारः] → मग् + न [<<ओदितश्च>> 8.2.45 इति निष्ठानत्वम्] → मग्न 3. पदान्तसंयोगस्य आदिस्थककारस्य लोपः तक्ष् इति षकारान्तशब्दस्य तृतीयाद्विवचनस्य रूपसिद्धौ प्रकृतसूत्रेण ककारस्य लोपः भवति — तक्ष् + भ्याम् [तृतीयाद्विवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे <<स्वादिष्वसर्वनामस्थाने>> 1.4.17 इत्यनेन प्रकृतेः पदसंज्ञा भवति ।] → तष् + भ्याम् [<<स्कोः संयोगाद्योरन्ते च>> 8.2.29 इति सकारलोपः] → तड् + भ्याम् [<<झलां जशोऽन्ते>> 8.2.39 इति षकारस्य जश्त्वे डकारः] → तड्भ्याम् 4. अपदान्तसंयोगात् झल्-वर्णे परे आदिस्थककारस्य लोपः अदादिगणस्य चक्ष्-धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपे तकारादिप्रत्यये परे प्रकृतसूत्रेण संयोागादिककारस्य लोपः भवति — चक्षिङ् (व्यक्तायां वाचि, अदादिः, <{2.7}>) → चक्ष् + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → चक्ष् + त [<<तिप्तस्झि...>> 3.4.78 इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः] → चक्ष् + ते [<<टित आत्मनेपदानां टेरे>> 3.4.79 इति एत्वम्] → चक्ष् + शप् + ते [<<कर्तरि शप्>> 3.1.68 इति शप्] → चक्ष् + ते [<<अदिप्रभृतिभ्यः शपः>> 2.4.72 इति शब्लुक्] → चष् + ते [<<स्कोः संयोगाद्योरन्ते च>> 8.2.29 इति ककारलोपः] → चष्टे [<<ष्टुना ष्टुः>> 8.4.41 इति ष्टुत्वम्] दलकृत्यम् 1. पदान्ते उत झलि परे किमर्थम् ? — यत्र संयोगात् परः स्वरः / अन्तःस्थवर्णः / वर्गपञ्चमः विद्यते, तत्र प्रकृतसूत्रेण संयोगादिसकारस्य संयोगादिककारस्य च लोपः न भवति । यथा, अक्षि इति शब्दस्य पञ्चम्येकवचने अक्ष्णः इत्यत्र नकारे परे संयोगादिककारस्य लोपः न भवति । 2. स्कोः इति किम्? — प्रकृतसूत्रेण केवलम् सकारस्य ककारस्य च एव लोपः भवति, अन्यवर्णानां न । यथा, भिद्-धातोः लट्लकारस्य प्रथमपुरुषद्विवचनस्य भिन्त्तः इत्यस्मिन् रूपे तकारे परे संयोागादि-नकारस्य लोपः न भवति । बहिरङ्गयणादेशस्य कृते अन्तरङ्गः लोपः असिद्धः भवति असि + अत्र → अस्यत्र, काकु + अत्र → काक्वत्र एतादृशानां शब्दानां सिद्धौ इक्-वर्णस्य यणादेशे कृते पदान्तसंयोगस्य आदौ सकारः ककारः वा जायते, अतः प्रकृतसूत्रेण तस्य अनिष्टः लोपः प्राप्नोति । तस्य निवारणार्थम् <<असिद्धं बहिरङ्गमन्तरङ्गे>> इति परिभाषायाः साहाय्यं स्वीक्रियते । अत्र प्रक्रियायाम् विद्यमानस्य यणादेशस्य निमित्तम् अग्रे विद्यमानः भिन्नपदस्थः अकारः अस्ति, परन्तु सकारलोपस्य निमित्तम् अस्य् इति एकस्मिन् एव पदे विद्यमानः संयोगः अस्ति । अतः, <<बह्वपेक्षम् बहिरङ्गम्, अल्पापेक्षम् अन्तरङ्गम्>> इति सिद्धान्तम् अनुसृत्य अत्र यणादेशस्य अपेक्षया सकारलोपः अन्तरङ्गः अस्ति । अतश्च <<असिद्धं बहिरङ्गमन्तरङ्गे>> इत्यनया परिभाषया यणादेशः संयोगान्तलोपस्य कृते असिद्धः एव ज्ञेयः । इत्युक्ते, यणादेशे कृते तत्पश्चात् सकारलोपः न हि प्रवर्तते । अयमेव सिद्धान्तः काशिकायाम् अपि उक्तः अस्ति । प्रक्रिया इयम् — असि + अत्र → अस्य + अत्र [<<इको यणचि>> 6.1.77 इति इकारस्य यणादेशः यकारः । अत्र 'असि' इति शब्दस्य पदसंज्ञा अस्ति, अतः स्थानिवद्भावेन 'अस्य्' इति शब्दस्य अपि पदसंज्ञा अवश्यं भवति । अस्यां स्थितौ <<स्कोः संयोगाद्योरन्ते च>> 8.2.23 इति सूत्रेण सकारस्य अनिष्टः लोपः प्राप्नोति । परन्तु << असिद्धं बहिरङ्गमन्तरङ्गे>> इत्यनया परिभाषया यणादेशस्य बहिरङ्गत्वात्, असिद्धत्वात् च अयं लोपः नैव विधीयते ।] → अस्यत्र

Balamanorama

Up

<<स्कोः संयोगाद्योरन्ते च>> - तत्र विशेषमाह — स्कोः संयोगाद्योः ।पदस्ये॑त्यधिकृतम् । चकारात्झलो झली॑त्यतोझली॑त्यनुवर्तते । पदस्यान्ते इति झलीति च संयोगेत्यनेन संबध्यते ।संयोगे॑ति लुप्तषष्ठीकं पृथक्पदम् । स् च क् च स्कौ, तयोरिति विग्रहः 'संयोगान्तस्य लोपः' इत्यतो 'लोप' इत्यनुवर्तते । तदाह — पदन्ते इत्यादिना । अत्र काष्ठशक् स्थातेत्यत्र झल्परसंयोगादित्वात्ककारस्य लोपप्राप्तौ तन्निवृत्त्यर्थं वार्तिकं पठितं-झलीत्यपहायसङीति वक्तव्य॑मिति । सनः सकारमारभ्य आमहिङो ङकारेण प्रत्याहारः । तदिदं वार्तिकं बाष्ये प्रत्याख्यातं-॒काष्ठशगेव नास्तिकुतः काष्ठशक् स्थाते॑ ति । ककारान्तेब्यो नास्ति क्विप्, अनभिधानादित्याशयः । नच पृथक्स्थातेत्यत्र ककारस्य लोपनिवृत्तयेसङी॑ति वार्तिकमावश्यकमिति वाच्यं, तत्प्रत्याख्यानपरभाष्यप्रमाण्यादेवंजातीयकसंयोगादिलोपप्राप्तियोग्योदाहरणानामप्रयोगावगमादिति शब्देन्दुशेखरे स्पष्टम् । भृट्-भृडिति । भृस्ज् स् इति स्थिते हल्ङ्यादिलोपेस्को॑रिति सकारलोपे जकारस्य व्रश्चादिना षत्वे जश्त्वचर्त्वे इति भावः । यद्यपि जकारस्य संयोगान्तलोपेऽपि सकारस्यव्रश्चे॑ति षत्वे जश्त्वचर्त्वयोर्भृट्-भृड् इति सिध्यति तथापि न्याय्यत्वादिह संयोगादिलोप एव भवति । सस्येति । भृस्ज-औ इत्यादावचि पदान्तझल्परसंयोगादित्वाऽभावान्न संयोगादिलोपः ।झलां जस् झशी॑ति जश्त्वस्या.ञसिद्धत्वात्सकारस्य श्चुत्वमिति भावः । तस्येति । शकारस्येत्यर्थः । तालुस्थानकत्वात्शकारस्य जकारः । नच जश्त्वस्यासिद्धत्वात्शकारस्य व्रश्चेति षत्वं शङ्क्यं, षत्वं प्रति श्चुत्वस्याऽसिद्धत्वात् । ब्यामादौ तु 'स्वादिषु' इति पदत्वात्संयोगादिलोपः । व्रश्चेति षत्वं, जश्त्वं च । भृड्भ्यमित्यादि । ऋत्विगित्यादिनेति । 'ऋ गतौ' औणादिकस्तुः । ऋतुः=गमनं, प्रापति, दक्षिणाद्रव्यलाभो विवक्षितः । तस्मिन्निमित्ते यजन्ति=यज्ञियव्यापारं कुर्वन्तीत्यर्थे ऋतावुपपदे यजधातोः क्विन् ।वचिस्वपी॑ति यकारस्य संप्रसारणमिकारः । पूर्वरूपम् । यणादेशश्च । ऋत्विजिति रूपम् । ततः सोर्हल्ङ्यादिलोपः । एतावत्सिद्धवत्कृत्याह — क्विन्नन्तत्वात्कुत्वमिति.॒क्विन्प्रत्ययस्येत्यनेने॑ति शेषः । एतदर्थमेव क्विन्विधानमिति भावः । नच क्विपि 'चोः कुः' इति कुत्वेनैवैतत्सिध्यतीति वाच्यं, चोः कुरिति कुत्वं हिव्रश्चे॑ति षत्वेनाऽपवादत्वाद्बाध्येत ।क्विन्प्रत्ययस्ये॑ति कुत्वं तु क्विन्विधिसामर्थ्यादेव न बाध्यते । यष्टेत्यादौ षविधेश्चरितार्थत्वादिति भावः । ऊर्क ऊर्गिति ।ऊर्ज बलप्राणनयोः॑चुरादिण्यन्तात्भ्राजभासे॑त्यादिना क्विप्, णिलोपः । ऊर्जिति रूपम् । ततः सोर्हल्ङ्यादिलोपः । 'चोः कुः' इति जस्य कुत्वं गकारः । 'वाऽवसाने' इति चर्त्वविकल्पः । नच कुत्वे कर्तव्ये णिलोपस्य स्थानिवत्त्वं शङ्क्यं , पदान्तविधौ तन्निषेधात्, पूर्वत्रासिद्धीये न स्थानिव॑दिति वचनाच्च । इति जान्ताः । अथ दकारान्ता निरूप्यन्ते । त्यद्शब्दस्तद्शब्दपर्यायः । तस्य विशेषमाह — त्यदाद्यत्वं पररूपत्वमिति । सर्वत्र विभक्तावुत्पन्नायां 'त्यदादीनाम' इति दकारस्यान्त्यस्य अकारः, 'अतो गुणे' इति पररूपं चेत्यर्थः । तथश्चाऽदन्तवद्रूपाणीति भावः । त्य स् इति स्थिते ।

Padamanjari

Up

गुणभूतोऽपि संयोगो झलन्ताभ्यां विशेष्यते । संयोगाद्योः पदस्यान्ते स्कोर्यस्मान्नास्ति सम्भवः ॥ इति मत्वाऽऽह - पदस्यान्त इति । झलि च परत इति । पदस्य यः संयोग इत्यपेक्षते । लग्न इति । ठोलस्जी व्रीडेऽ, निष्ठा, ईदित्वादिट्प्रतिषेधः । अत्र तकारे झलि परतः सजयोर्यस्संयोगः तदादिः सकारः, ठोदितश्चऽ इति निष्ठानत्वम्, तस्यासिद्धत्वात् कुत्वम् । साधुलगिति । साधु लज्जत इति क्विप् । मग्न इति ।'मस्जिनशोर्झलि' इति नुम्, स च जकारात्पूर्वः,'मस्जेरन्त्यात्पूर्वं नुममिच्छन्ति' इति वचनात् । तेन ठनिदिताम्ऽ इति नलोपः, सलोपादि पूर्ववत् । तष्ट इति ।'तक्षू तनूकरणे' , ऊदितावद्विकल्पितेट्,'यस्य विभाषा' इतीट्प्रतिषेधः । झलि सङीति वक्तव्यमिति । सङीत्ययं प्रकरणशेषः । किं प्रयोजनम् ? गिरोऽभोधिर्द्विष्टरां च दृषत्स्थः काष्टशक्स्थिरः । क्रुञ्चा धुर्येति मा स्मैषु सत्वादीनि भवन्त्विति ॥ गिर इति - अत्र ठचि विभाषाऽ इति लत्वं मा भूत् । अभोधिरिति -'धि च' इति सलोपो न भवति । द्विष्टरामिति -'ह्रस्वादङ्गात्' इति न भवति । दृषत्स्थः -'झलो झलि' इति न भवति । काष्ठशक्स्थिरः -'स्कोः संयोगाद्योः' इति न भवति । क्रुञ्चा -'चोः कुः' इति कुत्वं न भवति । धुरं वहतीति धुर्येति -'हलि च' इति दीर्घत्वं न भवति । तथा च वार्तिकम् -'सङ् लित्वलोपसंयोगादिलोपकुत्वदीर्घत्वानि' इति । सङीति प्रकृत्य लत्वादीनि वक्तव्यानीत्यर्थः । तदेवं वार्तिककारमतेऽपि चकाधीत्येव भवितव्यम्; सङीति वचनात् । सनः प्रमृतीति । धातुप्रत्ययानां ग्रहणमित्यर्थः । अत्र संयोगादिलोपं प्रयोजनं प्रत्याचष्टे - तदिति । तदिति वाक्योपन्यासे । शकेरिति । ककारान्तोपलक्षणमेतत्, तेन'कक लौल्ये' ,'कुक वृक आदाने' इत्यादेरपि क्विबन्तस्य प्रयोगो नास्त्येव । आहुरिति । भाष्यकारादयः । तत्र भाष्यं तावत् पठति - काष्ठशगेवेति । वाक्यर्थमित्यत्र स्थानिवद्भावोऽपि शक्यो वक्तुम्'तस्य दोषः संयोगादिलोप' इत्युक्तत्वात् ॥