8-1-74 विभाषितं विशेषवचने पदस्य अनुदात्तं सर्वम् अपादादौ आमन्त्रितं पूर्वम् अविद्यमानवत् आमन्त्रिते समानाधिकरणे
पूर्वेणाविद्यमानवत्त्वे प्रतिषिद्धे विकल्प उच्यते। विशेषवचने समानाधिकरण आमन्त्रितान्ते परतः पूर्वमामन्त्रितं बहुवचनान्तं विभाषितमविद्यमानवद् भवति। देवाः॒ शर॑ण्याः, देवाः॑ शरण्याः। ब्राह्म॑णा॒ वैया॑करणाः, ब्राह्म॑णा वैयाकरणाः। सामान्यवचनाधिकारादेव विशेषवचन इति सिद्धे विशेषवचनग्रहणं विस्पष्टार्थम्। बहुवचनमिति किम्? माण॑वक जटिलक। नित्यमेतद् विद्यमानवदेव॥
॥ इति श्रीवामनविरचितायां काशिकायां वृत्तावष्टमाध्यायस्य प्रथमः पादः॥
अत्र भाष्यकृता बहुवचनमिति पूरितम् । सामान्यवचनमिति च पूर्वसूत्रे योजितम् । आमन्त्रितान्ते विशेषणे परे पूर्वं बहुवचनान्तमविद्यमानवद्वा । द्वेवीः पलुर्वीरुरु नः कृणोत (द्वेवीः॑ पलुर्वीरु॒रु नः॑ कृणोत) । अत्र देवीनां विशेषणं षडिति । देवाशरण्याः । इह द्वितीयस्य निघातो वैकल्पिकः ॥
<<सामान्यवचनं विभाषितं विशेषवचने (बहुवचनम्)>> - सु=शोभनौ पादौ यस्येति बहुव्रीहौसंख्यासुपूर्वस्ये॑ति पादशब्दान्त्यलोपे सुपाच्छब्दः । तस्य सुटि रूपाण्याह — सुपादित्यादिना ।
बहुवचनमिति वार्तिके दर्शनात् प्रक्षिप्तम् । शरणत्वेन प्राप्तिः शरणम्, तत्र साधवः शरण्याः । शरणशब्दो हि शरण्येऽपि दृश्यते - शरणं भवन्तमतिकास्त्रणकमिति । शर्मण्या इति पाठे शर्मणि साधवः शर्मण्याः । सामान्ववचनाधिकारादेवेति । सामान्यस्य विशेषापेक्षत्वाद्यं प्रति सामान्यमित्येतद्भवति, तस्मिन्विशेषवचन एव भविष्यति ॥