वेरपृक्तस्य
6-1-67 वेः अपृक्तस्य उपदेशे
Sampurna sutra
Up
अपृक्तस्य वेः लोपः
Neelesh Sanskrit Brief
Up
'वि' इत्यस्य अपृक्त-अवस्थायाम् लोपः भवति ।
Neelesh English Brief
Up
The प्रत्यय 'वि' is removed when it appears अपृक्त.
Kashika
Up
लोप इति वर्तते। वेरिति क्विबादयो विशेषाननुबन्धानुत्सृज्य सामान्येन गृह्यन्ते। वेरपृक्त स्य लोपो भवति। <<ब्रह्मभ्रूणवृत्रेषु क्विप्>> ३.२.८७ — ब्रह्महा। भ्रूणहा। <<स्पृशोऽनुदके क्विन्>> ३.२.५८ — घृतस्पृक्। तैलस्पृक्। <<भजो ण्विः>> ३.२.६२ — अर्धभाक् । पादभाक्। तुरीयभाक् । अपृक्तस्येति किम्? <<वृदृभ्यां विन्>> (प॰ उ॰ ४.५४) — दर्विः। <<जशस्तजागृभ्यः क्विन्>>(प॰ उ॰ ४.५५) — जागृविः॥
Siddhanta Kaumudi
Up
अपृक्तस्य वेर्लोपः स्यात् । कृत्तद्धित <{SK179}> इति प्रातिपदिकत्वात्स्वादयः ॥
Laghu Siddhanta Kaumudi
Up
अपृक्तस्य वस्य लोपः॥
Neelesh Sanskrit Detailed
Up
येषां प्रत्ययानाम् इत्संज्ञकवर्णस्य लोपात् अनन्तरम् वि इति रूपं जायते, ततः च अग्रे वकारोत्तरम् इकारम् उच्चारणार्थं मत्त्वा तस्य अपि लोपे कृते व् इति एकवर्णात्मकम् रूपम् सिद्ध्यति, तत्र <<अपृक्तः एकाल् प्रत्ययः>> 1.2.41 अनेन सूत्रेण वकारस्य अपृक्तम् इति संज्ञायां जातायाम्, अस्य (वि-इत्यस्मात् सिद्धस्य) अपृक्तसंज्ञक-वकारस्य लोपः भवति — इति प्रकृतसूत्रस्य अर्थः ।
<<अपृक्त एकाल् प्रत्ययः>> 1.2.41 इत्यनेन सूत्रेण एकवर्णात्मकस्य प्रत्ययस्य अपृक्तः इति संज्ञा भवति ।
अस्य सूत्रस्य प्रसक्तिः क्विप्, क्विन्, विट्, विच्, ण्वि, च्वि — एतेषाम् षण्णां प्रत्ययानां विषये दृश्यते । क्रमेण उदाहरणानि एतानि —
1. क्विप्-प्रत्ययस्य वकारस्य लोपः
क्विप्-प्रत्यये विद्यमानयोः ककारपकारयोः इत्संज्ञालोपे कृते वि इति अवशिष्यते । अत्र विद्यमानः वकारोत्तरः इकारः उच्चारणार्थः अस्ति, अतः तस्य लोपे जाते व् इति अपृक्तः (एकवर्णात्मकः) प्रत्ययः अवशिष्यते । अस्य प्रकृतसूत्रेण लोपः भवति । यथा —
वृत्र हन्ति इति
= हनँ (हिंसागत्योः <{2.2}>)
→ वृत्रम् + हन् + क्विप् [<<सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्>> 3.2.61 इति क्विप्]
→ वृत्रम् + हन् + वि [ककारस्य <<लशक्वतद्धिते>> 1.3.8 इति इत्संज्ञा । पकारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा । उभयोः अपि <<तस्य लोपः>> 1.3.9 इति लोपः]
→ वृत्रम् + हन् + व् [वकारोत्तरः इकारः उच्चारणार्थः, अतः तस्य अपि लोपः भवति । अवशिष्टस्य व् इत्यस्य <<अपृक्त एकाल् प्रत्ययः>> 1.2.41 इति अपृक्तसंज्ञा भवति ।]
→ वृत्रम् + हन् [<<वेरपृक्तस्य>> 6.1.67 इति अपृक्तवकारस्य लोपः]
→ वृत्रहन् [<<उपपदमतिङ्>> 2.2.19 इति उपपदसमासः । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्ययस्य लोपः]
2. क्विन्-प्रत्ययस्य वकारस्य लोपः —
क्विन्-प्रत्यये विद्यमानयोः ककारनकारयोः इत्संज्ञालोपे कृते वि इति अवशिष्यते । अत्र विद्यमानः वकारोत्तरः इकारः उच्चारणार्थः अस्ति, अतः तस्य लोपे जाते व् इति अपृक्तः (एकवर्णात्मकः) प्रत्ययः अवशिष्यते । अस्य प्रकृतसूत्रेण लोपः भवति । यथा —
घृतं स्पृशति इति
= स्पृश् (संस्पर्शने, <{6.158}>)
→ घृतम् + स्पृश् + क्विन् [<<स्पृशोऽनुदने क्विन्>> 3.2.61 इति क्विन्]
→ घृतम् + स्पृश् + व् [ककारस्य <<लशक्वतद्धिते>> 1.3.8 इति इत्संज्ञा । नकारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा । उभयोः अपि <<तस्य लोपः>> 1.3.9 इति लोपः]
→ घृतम् + स्पृश् + व् [वकारोत्तरः इकारः उच्चारणार्थः, अतः तस्य अपि लोपः भवति । अवशिष्टस्य व् इत्यस्य <<अपृक्त एकाल् प्रत्ययः>> 1.2.41 इति अपृक्तसंज्ञा भवति ।]
→ घृतम् + स्पृश् [<<वेरपृक्तस्य>> 6.1.67 इति अपृक्तवकारस्य लोपः ।]
→ घृतस्पृश् [<<उपपदमतिङ्>> 2.2.19 इति उपपदसमासः । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्ययस्य लोपः]
3. विट्-प्रत्ययस्य वकारस्य लोपः —
विट्-प्रत्यये विद्यमानस्य टकारस्य इत्संज्ञालोपे कृते वि इति अवशिष्यते । अत्र विद्यमानः वकारोत्तरः इकारः उच्चारणार्थः अस्ति, अतः तस्य लोपे जाते व् इति अपृक्तः (एकवर्णात्मकः) प्रत्ययः अवशिष्यते । अस्य प्रकृतसूत्रेण लोपः भवति । यथा —
सस्यम् अत्ति इति
→ अदँ (भक्षणे, अदादिः, <{2.1}>)
→ सस्यम् + अद् + विट् [<<अदोऽनन्ने>> 3.2.68 इति विट्-प्रत्ययः]
→ सस्यम् + अद् + वि [टकारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः]
→ सस्यम् + अद् + व् [वकारोत्तरः इकारः उच्चारणार्थः, अतः तस्य अपि लोपः भवति । अवशिष्टस्य व् इत्यस्य <<अपृक्त एकाल् प्रत्ययः>> 1.2.41 इति अपृक्तसंज्ञा भवति ।]
→ सस्यम् + अद् [<<वेरपृक्तस्य>> 6.1.67 इति अपृक्तवकारस्य लोपः ।]
→ सस्य + अद् [<<उपपदमतिङ्>> 2.2.19 इति उपपदसमासः । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्ययस्य लोपः]
→ सस्याद् [<<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घः]
4. विच्-प्रत्ययस्य वकारस्य लोपः —
विच्-प्रत्यये विद्यमानस्य चकारस्य इत्संज्ञालोपे कृते वि इति अवशिष्यते । अत्र विद्यमानः वकारोत्तरः इकारः उच्चारणार्थः अस्ति, अतः तस्य लोपे जाते व् इति अपृक्तः (एकवर्णात्मकः) प्रत्ययः अवशिष्यते । अस्य प्रकृतसूत्रेण लोपः भवति । यथा —
रिष् (हिंसायाम्, भ्वादिः, <{1.790}>)
→ रिष् + विच् [<<अन्येभ्योऽपि दृश्यन्ते>> 3.2.75 इति विच्-प्रत्ययः]
→ रिष् + वि [चकारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः]
→ रिष् + व् [वकारोत्तरः इकारः उच्चारणार्थः, अतः तस्य अपि लोपः भवति । अवशिष्टस्य व् इत्यस्य <<अपृक्त एकाल् प्रत्ययः>> 1.2.41 इति अपृक्तसंज्ञा भवति ।]
→ रिष् [<<वेरपृक्तस्य>> 6.1.67 इति अपृक्तवकारस्य लोपः ।]
→ रेष् [प्रत्ययस्य लोपे कृते अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> 1.1.62 इत्यनेन प्रत्ययलक्षणं कार्यम् अवश्यं भवति । अतः अत्र <<पुगन्तलघूपधस्य च>> 7.3.86 इत्यनेन उपधा-इकारस्य गुणादेशः भवति ।]
5. ण्वि-प्रत्ययस्य वकारस्य लोपः —
ण्वि-प्रत्यये विद्यमानस्य णकारस्य इत्संज्ञालोपे कृते वि इति अवशिष्यते । अत्र विद्यमानः वकारोत्तरः इकारः उच्चारणार्थः अस्ति, अतः तस्य लोपे जाते व् इति अपृक्तः (एकवर्णात्मकः) प्रत्ययः अवशिष्यते । अस्य प्रकृतसूत्रेण लोपः भवति । यथा —
अंशं भजति इति
= भजँ (सेवायाम्, भ्वादिः, <{1.1159}>)
→ अंशं + भज् + ण्वि [<<भजो ण्विः>> 3.2.62 इति ण्वि-प्रत्ययः]
→ अंशं + भज् + वि [णकारस्य <<चुटू>> 1.3.7 । <<तस्य लोपः>> 1.3.9 इति लोपः]
→ अंशं + भज् + व् [वकारोत्तरः इकारः उच्चारणार्थः, अतः तस्य अपि लोपः भवति । अवशिष्टस्य व् इत्यस्य <<अपृक्त एकाल् प्रत्ययः>> 1.2.41 इति अपृक्तसंज्ञा भवति ।]
→ अंशं + भज् [<<वेरपृक्तस्य>> 6.1.67 इति अपृक्तवकारस्य लोपः ।]
→ अंशभज् [<<उपपदमतिङ्>> 2.2.19 इति उपपदसमासः । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्ययस्य लोपः]
→ अंशभाज् [प्रत्ययस्य लोपे कृते अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> 1.1.62 इत्यनेन प्रत्ययलक्षणं कार्यम् अवश्यं भवति । अतः अत्र <<अत उपधायाः>> 7.2.116 इत्यनेन उपधा-अकारस्य वृद्धिः प्रवर्तते ।]
6. च्वि-प्रत्ययस्य वकारस्य लोपः —
च्वि-इति तद्धितसंज्ञकः प्रत्ययः अस्ति । अस्मिन् प्रत्यये विद्यमानस्य चकारस्य इत्संज्ञालोपे कृते वि इति अवशिष्यते । अत्र विद्यमानः वकारोत्तरः इकारः उच्चारणार्थः अस्ति, अतः तस्य लोपे जाते व् इति अपृक्तः (एकवर्णात्मकः) प्रत्ययः अवशिष्यते । अस्य प्रकृतसूत्रेण लोपः भवति । यथा —
अशुक्लः शुल्कः सम्पद्यमानः भवति
→ शुक्ल + च्वि + भवति [<<अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः>> 5.4.50 इति च्वि-प्रत्ययः]
→ शुक्ल् + वि + भवति [चकारस्य <<चुटू>> 1.3.7 । <<तस्य लोपः>> 1.3.9 इति लोपः]
→ शुक्ल + व् + भवति [वकारोत्तरः इकारः उच्चारणार्थः, अतः तस्य अपि लोपः भवति । अवशिष्टस्य व् इत्यस्य <<अपृक्त एकाल् प्रत्ययः>> 1.2.41 इति अपृक्तसंज्ञा भवति ।]
→ शुक्ल + ० + भवति [<<वेरपृक्तस्य>> 6.1.67 इति अपृक्तवकारस्य लोपः ।]
→ शुक्ली भवति [प्रत्ययस्य लोपे कृते अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> 1.1.62 इत्यनेन प्रत्ययलक्षणं कार्यम् अवश्यं भवति । अतः अत्र <<अस्य च्वौ>> 7.4.32 इत्यनेन अकारस्य ईकारादेशः भवति ।]
Balamanorama
Up
<<वेरपृक्तस्य>> - वेरपृक्तस्य । लोपो व्योः॑ इत्यतो 'लोप' इत्यनुवर्तते । उत्सृष्टानुबन्धाः । सरक्वे क्विबादयोवे॑रित्यनेन गृह्यन्ते । इकार उच्चारणार्षथः, अपृक्तग्रहणात्, तदाह — अपृक्तस्य वस्येति । अपृक्तस्येति किम् । जागृविः । क्विनः कृत्संज्ञायाः प्रयोजनमाह — कृत्तद्धितेति ।
Padamanjari
Up
क्विबादयो गृह्यन्त इति। ततोऽन्यस्य वेरपृक्तस्याभावात्। घृतस्पृगिति।'क्विन्प्रत्ययस्य कुः' अपृक्तग्रहणाद्वकारमात्रस्येदं ग्रहणम्, इकार उच्चारणाथः ॥