8-2-9 मात् उपधायाः च मतोः वः अयवादिभ्यः पदस्य पूर्वत्र असिद्धम्
मतोरिह कार्यित्वेनोपादानात् सामर्थ्यलब्धं प्रातिपदिकम्, तद् मादिति मकारावर्णाभ्यां विशिष्यते, मकारावर्णविशिष्टया चोपधया इत्ययमर्थो भवति — मकारान्ताद् मकारोपधादवर्णान्तादवर्णोपधात् चोत्तरस्य मतोर्व इत्ययमादेशो भवति, यवादिभ्यस्तु परतो न भवति। मकारान्तात् तावत् — किंवान्। शंवान्। मकारोपधात् — शमीवान्। दाडिमीवान्। अवर्णान्तात् — वृक्षवान्। प्लक्षवान्। खट्वावान्। मालावान्। अवर्णोपधात् — पयस्वान्। यशस्वान्। भास्वान्। मादुपधायाश्चेति किम्? अग्निमान्। वायुमान्। अयवादिभ्य इति किम्? यवमान्। दल्मिमान्। ऊर्मिमान्॥ यव। दल्मि। ऊर्मि। भूमि। कृमि। क्रु ञ्चा। वशा। द्राक्षा। एतेषां <<मादुपधायाश्च०>> ८.२.९ इति प्राप्नोति। ध्रजि, ध्वजि, सञ्जि इत्येतेषां <<छन्दसीरः>> ८.२.१५ इति। हरित्, ककुत्, गरुत् इत्येतेषां <<झयः>> ८.२.१० इति। इक्षु, मधु, द्रुम, मण्ड, धूम इत्येतेषां <<संज्ञायाम्>>८.२.११ इति। आकृतिगणश्च यवादिः। अकृतवत्वो मतुब् यवादिषु द्रष्टव्यः। यस्य सति निमित्ते मतुपो वत्वं न दृश्यते, स यवादिषु द्रष्टव्यः। इह नृमत इदं नार्मतमिति बहिरङ्गलक्षणत्वात् अवर्णोपधस्य मतुपो वत्वं न भवति॥
मवर्णावर्णान्तान्मवर्णावर्णोपधाच्च यवादिवर्जितात्परस्य मतोर्मस्य वः स्यात् । किंवान् । ज्ञानवान् । विद्यावान । लक्ष्मीवान् । यशस्वान् । भास्वान् । यवादेस्तु यवमान् । भूमिमान् ॥
मवर्णावर्णान्तान्मवर्णावर्णोपधाच्च यवादिवर्जितात्परस्य मतोर्मस्य वः। वेतस्वान्॥
<<मादुपधायाश्च मतोर्वोऽयवादिभ्यः>> - मादुपधायाश्च । मात् उपधायाश्चेति च्छेदः । मादित्यावर्तते । मू च अश्चेति समाहारद्वनद्वात्पञ्चम्येकवचनम् । मतुप्प्रत्ययाक्षिप्तप्रातिपदिकविशेषणत्वात्तदन्तविधिः । णवर्णान्तादवर्णान्तात्प्रातिपदिकात्परस्य मतोर्मस्य वः स्यादित्येकोऽर्थः । मादित्युपधाविशेषणम् । मकारात्मिका अकारात्मिका च या उपधा ततः परस्य मतोर्मस्य वः स्यादित्यन्योऽर्थः । फलितमाह — मवर्णेत्यादिना । मान्तादुदाहरति — किंवानिति । किमस्यास्मिन्वाऽस्तीति विग्रहः । एवमग्रेऽपि । अकारान्तादुदाहरति — ज्ञानवानिति । अत्र तपरकरणाऽभावादाकारस्यापि ग्रहणमिति मत्वाग — विद्यावानिति । मोपधादुदाहरति — लक्ष्मीवानिति । अदुपदादुदाहरति — यशस्वानिति । 'तसौ मत्वर्थे' इति भत्वान्न रुत्वम् । आकारोपधादुदाहरति — लक्ष्मीवानिति । अदुपधादुदाहरति-यशस्वानिति । 'तसौ मत्वर्थे' इति भत्वान्न रुत्वम् । आकारोपधादुदाहरति — भास्वानिति ।
अत्र चकाराद्वाक्यभेदः, मश्च अश्चेति समाहारद्वन्द्वः । तस्मान्मात्परस्य मतोर्वो भवति । ठुपधायाश्चऽ, मादित्येव, उपधायाश्च मात्परस्य मतोर्वो भवति, पूर्वेणानन्तर्ये विहितं व्यवधानेऽपि यथा स्यादित्ययमारम्भः । एवं व्याख्यातव्ये मतोरिह कार्यित्वेनेत्यादि यदुक्तम्, तत्राभिप्रायो मृग्यः । कश्चिदाह -'मकारान्तान्मकारोपधावर्णान्तादवर्णोपधाच्चेति वैयाकरणगोष्ठीषु पठ।ल्ते, तस्येदमुपपादनम्' इति; तत्रापि मकारोपधादकारोपधादिति बहुव्रीह्यर्थस्य नोपपादनं दृश्यते । व इत्ययमादेशो भवतीति । अत्रेतिशब्दः पठितव्यः, तदयमर्थो भवतीत्युपक्रमात्, यवादिविप्रतिषेधे प्रकारे आदिशब्दः । पयस्वानिति ।'तसौ मत्वर्थे' इति भत्वाद्रुत्वाभावः, । इह नरोऽस्यास्तीति नृमान्, तस्येदं नार्मतमिति वृद्धौ कृतायामवर्णोपधादिति वत्वं प्राप्नोति, तस्य प्रतिषेधो वक्तव्यः ? इत्यत आह - इहेति । बहिर्भूततद्धितापेक्षत्वाद्बहिरङ्गा वृद्धिरन्तर्भूतमतुबपेक्षे वत्वे असिद्धा भवतीत्यर्थः ॥