8-3-59 आदेशप्रत्यययोः पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः नुम्विसर्जनीयशर्व्यवाये अपि
आदेश-प्रत्यययोः इण्कोः अपदान्तस्य सः मूर्धन्यः
इण्कोः परस्य अपदान्तस्य आदेशरूपस्य प्रत्ययावयवरूपस्य वा सकारस्य मूर्धन्यः आदेशः भवति ।
An अपदान्त सकार that was obtained either as an आदेश or through a प्रत्यय is converted to षकार when it follows a letter from इण्-प्रत्याहार or a कवर्ग.
मूर्धन्य इति वर्तते, स इति च। आदेशप्रत्यययोरिति षष्ठी भेदेन संबध्यते। आदेशो यः सकारः, प्रत्ययस्य च यः सकारः इण्कोरुत्तरस्तस्य मूर्धन्यो भवत्यादेशः। आदेशस्य तावत् — सिषेव। सुष्वाप। प्रत्ययस्य — अग्निषु। वायुषु। कर्तृषु। हर्तृषु। इन्द्रो मा वक्षत्, स दे॒वान् य॑क्षत् (ऋ०३.४.३) इति व्यपदेशिवद्भावात् प्रत्ययस्येति षत्वं भवति। यजतेर्वहतेश्च पञ्चमलकारे परस्मैपदप्रथमैकवचन इकारलोपः,<<लेटोऽडाटौ>>३.४.९४ इत्यट्, <<सिब्बहुलं लेटि>>३.१.३४ इति सिप्, ततः सिद्धं यक्षत्, वक्षद् इति॥
सहेः साडः सः <{SK335}> इति सूत्रात्स इति षष्ठ्यन्तं पदमनुवर्तते । इण्कवर्गाभ्यां परस्याऽपदान्तस्यादेशः प्रत्ययावयवश्च यः सकारस्तस्य मूर्धन्यादेशः स्यात् । विवृताघोषस्य सस्य तादृश एव षः । रामेषु । इण्कोः किम् । रामस्य । आदेशप्रत्यययोः किम् । सुपीः । सुपिसौ । सुपिसः । अपदान्तस्य किम् । हरिस्तत्र । एवं कृष्णमुकुन्दादयः ॥
इण्कुभ्यां परस्यापदान्तस्यादेशस्य प्रत्ययावयवस्य यः सस्तस्य मूर्धन्यादेशः। ईषद्विवृतस्य सस्य तादृश एव षः। रामेषु। एवं कृष्णादयोऽप्यदन्ताः॥
यदि कश्चन सकारः (1) स्वयम् आदेशरूपेण विहितः अस्ति, अथवा (2) कस्यचन प्रत्ययस्य अवयवः अस्ति, तर्हि तादृशस्य इण्कोः परस्य सकारस्य (अनुस्वार/विसर्ग/शर्-वर्णस्य व्यवाये अपि) षकारादेशः भवति । स्मर्तव्यम् - 'इण्' इत्यत्र परस्य णकारस्य (इत्युक्ते, लण्-प्रत्याहारस्य णकारस्य) ग्रहणं भवति । अतः इण् प्रत्याहारे अ/आ-एतौ विहाय सर्वे स्वराः, अन्तस्थाः तथा हकारः समाविश्यन्ते) । एवमेव 'कु' इत्यनेन सर्वेषां कवर्गीयवर्णानां ग्रहणं भवति । उदाहरणानि एतानि - 1) 'वाक्' शब्दस्य सप्तमीबहुवचनस्य रूपसिद्धौ - → वाक् + सुप् [सप्तमीबहुवचनस्य प्रत्ययः] → वाक् + षु [अत्र सुप्-इत्यस्य सकारः प्रत्ययस्य अवयवः अस्ति, अपदान्तः अस्ति, ककारात् च परः अस्ति । अतः <<आदेशप्रत्यययोः>> 8.3.59 इत्यनेन तस्य मूर्धन्यः षकारः भवति ।] → वाक्षु 2) पठ्-धातोः लृट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - पठ् + लृट् [<<लृट् शेषे च>> 3.3.13 इति लृट्-लकारः] → पठ् + स्य + लृट् [<<स्यतासी लृलुटोः>> 3.1.33 इति विकरणप्रत्ययः 'स्य'] → पठ् + इट् + स्य + लृट् [<<आर्द्धधातुकस्येड्वलादेः>> 7.2.35 इति इडागमः] → पठ् + इ + स्य + तिप् [<<तिप्तस्..>> 3.4.78 इति लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रत्ययः तिप्] → पठिष्यति ['स्य'-प्रत्ययस्य सकारः प्रत्ययावयवरूपेण विहितः अस्ति, अपदान्तस्य अस्ति, इकारात् परः अस्ति । अतः <<आदेशप्रत्यययोः>> 8.3.59 इत्यनेन तस्य षत्वम् भवति ।] 3) षिचँ (क्षरणे) अस्य लिट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - सिच् + लिट् [<<परोक्षे लिट्>> 3.2.115 इति लिट्] → सिच् + सिच् + लिट् [<<लिटिधातोरनभ्यासस्य>> 6.1.8 इति द्वित्वम्] → सि सिच् + लिट् [<<हलादि शेषः>> 7.4.60 इति अभ्यासस्य चकारलोपः] → सि सिच् + तिप् [<<तिप्तस्..>> 3.4.78 इत्यनेन प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः] → सि सिच् + णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> 3.4.82 इति तिप्-प्रत्ययस्य णल्-आदेशः।] → सि सेच् अ [<<पुगन्तलघूपधस्य च>> 7.3.86 इति गुणः] → सिषेच ['सेच्' इत्यस्य सकारः षकारस्य आदेशरूपेण प्राप्तः अस्ति, अपदान्तस्य अस्ति, इकारात् परः अस्ति । अतः <<आदेशप्रत्यययोः>> 8.3.59 इत्यनेन तस्य षत्वम् भवति ।] ज्ञातव्यम् - 1. इण्कोः परः अपदान्ते विद्यमानः सकारः यदि 'आदेशस्य अवयवः' अस्ति तर्हि अनेन सूत्रेण तस्य षत्वम् न भवति । यथा, 'मुसलम्' अस्य शब्दस्य <<नित्यवीप्सयोः>> 8.1.4 इत्यनेन द्वित्वे कृते 'मुसलम् मुसलम्' इति जायते । अत्र द्वितीयः 'मुसलम्' शब्दः आदेशरूपेण विहितः अस्ति । अस्मिन् आदेशे एकः वर्णः 'सकारः ' अपि अस्ति । अतः अत्र आदेशस्य 'अवयवरूपेण' सकारः विहितः अस्ति । अस्यामवस्थायाम् वर्तमानसूत्रेण सकारस्य षत्वम् न विधीयते । 2. आदेशस्वरूपः प्रत्ययावयवस्वरूपः वा सकारः पदान्ते अस्ति चेत् तस्य षत्वम् न भवति, यतः एतत् सूत्रम् <<अपदान्तस्य मूर्धन्यः>> 8.3.55 अस्मिन् अधिकारे आगच्छति । यथा, धनुष्-शब्दस्य सप्तमीबहुवचनस्य रूपस्य प्रक्रिया इयम् - धनुस् + सुप् → धनुरुँ + सु [<<स्वादिष्वसर्वनास्थाने>> 1.4.17 इत्यनेन अङ्गस्य पदसंज्ञा । <<ससजुषोः रुः>> 8.2.66 इति पदान्तसकारस्य रुत्वम्] → धनुः + सु [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति रेफस्य खरि परे विसर्गः] → धनुस् + सु [<<वा शरि>> 8.3.36 इति शर्-वर्णे परे विसर्गस्य वैकल्पिकः सकारः] → धनुस् + षु [<<आदेशप्रत्यययोः>> 8.3.59 इत्यनेन इण्कोः परस्य 'सु' इत्यस्य प्रत्ययावयवस्य सकारस्य षकारः । <<नुम्विसर्जनीयशर्व्यवायेऽपि>> 8.3.58 इत्यनेन अयं षकारः सकारस्य व्यवधाने अपि भवति ।] → धनुष् + षु [<<ष्टुना ष्टुः>> 8.4.41 इति ष्टुत्वम्] → धनुष्षु अत्र 'धनुस् + सु' इत्यत्र धनुस्-शब्दस्य सकारः यद्यपि विसर्गादेशस्य सकारः अस्ति, तथापि सः 'पदान्ते' अस्ति, अतः <<आदेशप्रत्यययोः>> 8.3.59 इत्यनेन तस्य षत्वं न भवति । केवलं प्रत्ययसकारस्य षत्वं कर्तुम् <<आदेशप्रत्यययोः>> 8.3.59 इत्यस्य प्रयोगः क्रियते ।
<<आदेशप्रत्यययोः>> - अथ षत्वविधायकं सूत्रमाह — आदेश । षष्ठन्तमिति । 'सहेः साडः सः' इति सूत्रे 'स्' इति निर्दिष्टमिति भावः । तच्चेह द्विवचनान्ततया विपरिणम्यआदेशप्रत्यययो॑रित्यत्र सम्बध्यते । ततश्चइण्कवर्गाभ्यां परयोरपदान्तयोरादेशात्मकप्रत्ययावयवात्मकयोः सकारयोर्मूर्धन्यः स्या॑दित्यर्थः । फलितमाह — इङ्कवर्गाभ्यामित्यादिना । प्रौढमनोरमायां तु आदेशप्रत्यययोरित्येकापि षष्ठी प्रत्ययविषये अवयवार्थिका, आदेशविषये चाऽभेदार्थिका । तथाच आदेशस्य प्रत्ययावयवस्य च सकारस्येति लभ्यत इति प्रत्ययशब्दस्य लक्षणां विनोक्तम् । सहविवक्षाऽभावेऽपि सौत्रो द्वन्द्व इति च स्वीकृतम् । यदि तु आदेशविषयेऽपि अवयवषष्ठी स्यात् — ॒आदेशावयवस्य सस्य ष॑ इति, तर्हि 'तिरुआः'तिसृणा॑मित्यादौ दोषः । नचत्रिचतुरोः स्त्रिया॑मित्यत्रादेशे सकारोच्चारणसामर्थ्यान्न तत्र षत्वमिति वाच्यं, तिरुआ इत्यत्रन रपरसृपिसृजिस्पृशिस्पृहिसवनादीना॑मिति षत्वनिषेधेन चरितार्थत्वात् । विसम्विसमित्यादौ सकारस्याऽऽदेशावयवतया षत्वापत्तेश्च, नित्यवीप्सयोरित्याष्टमिकद्विर्वचनस्यादेशरूपताया वक्ष्यमाणत्वात् ।प्रत्ययो यः सकारस्तस्ये॑ति व्याख्याने तु जिगीषुरित्यादाव#एव स्यात् । 'रामेषु' इत्यादौ न स्यात् । अतआदेशः प्रत्ययावयवश्च यः सकारस्तस्ये॑ति व्याख्यातम् । प्रत्ययावयवसक्षणायां चहलि सर्वेषां॑मिति निर्देशो लिङ्गम् । विवृताघोषस्येति । मूर्धन्यत्वम् ऋटुरषेष्वविशिष्टम् । विवृतत्वरूपाब्यन्तरप्रयत्नवतोऽघोषरूपबाह्रप्रयत्नवतश्च सकारस्य तदुभयात्मकः षकार एव भवतीत्यर्थः । टकारनिवारणायाद्यं विशेषणम् । ऋकारवारणाय द्वितीयम् । रामेष्विति । ननु सु इत्यस्य व्यपदेसिवद्भावेन सुबन्तत्वेन पदत्वात्सात्पदाद्यो॑रिति षत्वनिषेधः स्यादिति चेन्न,प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणा॑दित्यलम् । सुपिसाविति ।पिस गतौ॑क्विप् । धातुसकारोऽयं नत्वादेशो नापि प्रत्ययावयव इति भावः । अत सर्वादिशब्देषु सर्वनामकार्यं विधास्यन् सर्वनामसंज्ञामाह — सर्वादीनि । सर्वः आदिः=प्रथमावयवः येषां तानि सर्वादीनि । अत्र सर्वशब्दः स्वरूपपरः ।