हशि च

6-1-114 हशि च संहितायाम् अचि अतः रोः अप्लुतात्

Sampurna sutra

Up

अप्लुतात् अतः रोः उत् हशि

Neelesh Sanskrit Brief

Up

अप्लुत-ह्रस्व-अकारात् परस्य रुँ-इत्यस्य हश्-वर्णे परे उकारादेशः भवति ।

Neelesh English Brief

Up

A रुँ letter that follows an अप्लुत-ह्रस्व-अकार and is followed by a हश् letter is converted to an उकार.

Kashika

Up

हशि च परतोऽत उत्तरस्य रोरुकारादेशो भवति। पुरुषो याति। पुरुषो हसति। पुरुषो ददाति॥

Siddhanta Kaumudi

Up

अप्लुतादतः परस्य रोरुः स्याद्धशि । शिवो वन्द्यः । रोरित्युकारानुबन्धग्रहणान्नेह । प्रातरत्र । भ्रातर्गच्छ । देवास् इह इति स्थिते । रुत्वम् ॥

Laghu Siddhanta Kaumudi

Up

तथा। शिवो वन्द्यः॥

Neelesh Sanskrit Detailed

Up

'रुँ' इति आदेशात् पूर्वम् यदि ह्रस्व-अकारः विद्यते, तथा च अस्मात् आदेशात् अनन्तरम् यदि हश्-वर्णः विद्यते, तर्हि रुँ इत्यस्य <<भोभगोअघोअपूर्वस्य योऽशि>> 8.3.17 इत्यनेन प्राप्तम् यकारादेशं बाधित्वा प्रकृतसूत्रेण उकारादेशः भवति —‌ इति अस्य सूत्रस्य आशयः । हश् = सर्वाणि मृदुव्यञ्जनानि = वर्गतृतीयाः, वर्गचतुर्थाः, वर्गपञ्चमाः, अन्तःस्थाः, हकारः । इति आहत्य 20 वर्णाः । कानिचन उदाहरणानि एतानि — 1. <<ससजुषो रुँः>> 8.2.66 इत्यनेन पदान्तसकारस्य रुँत्वे कृते, अग्रे हश्-वर्णः विद्यते चेत् प्रकृतसूत्रेण रेफस्य उत्वम् सम्भवति — राम सुँ गच्छति → राम रुँ गच्छति [<<ससजुषोः रुः>> 8.2.66 इति रुत्वम् ।] → राम उ गच्छति [<<हशि च>> 6.1.113 इति रुँ-इत्यस्य उत्वम् ।] → रामो गच्छति [<<आद्गुणः>> 6.1.87 इति गुण-एकादेशः] 2. <<अहन्>> 8.2.68 इत्यनेन पदान्तनकारस्य रुँत्वे कृते अग्रे हश्-वर्णः विद्यते चेत् प्रकृतसूत्रेण रेफस्य उत्वम् सम्भवति — अहन् सुँ यद् [अहन्-शब्दस्य प्रथमैकवचनस्य रूपम् । ततः 'यद्' इति शब्दः स्थापितः अस्ति ।] → अहन् यद् [सकारोत्तस्य उकारस्य <<उपदेशेऽजनुनासिक इत्>> 1.3.2 इति इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः । <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति अपृक्तसकारलोपः ।] → अहरुँ यद् [<<अहन्>> 8.2.68 इति रुत्वम्] → अह उ यद् [<<हशि च>> 6.1.113 इति रुँ-इत्यस्य उत्वम् ।] → अहो यद् [<<आद्गुणः>> 6.1.87 इति गुण-एकादेशः] 3. <<सिपि धातोः रुर्वा>> 8.2.74 इति सूत्रेण धातोः अन्ते विद्यमानस्य सकारस्य सिप्-प्रत्यये परे विकल्पेन रुँ-आदेशः भवति । अस्मिन् आदेशे कृते अग्रे हश्-वर्णः अस्ति चेत् प्रकृतसूत्रेण तस्य रुँत्वम् सम्भवति । यथा,अहिनो ह्यः इति सन्धिः इत्थं सिद्ध्यन्ति — हिसिँ (हिंसायाम्, रुधादिः, <{7.19}>) → हिन्स् [<<इदितो नुम् धातोः>> 7.1.58] → हिन्स् लङ् ह्यः [<<अनद्यतने लङ्>> 3.2.111 इति लङ् । अग्रे 'ह्यः' इति शब्देन सह अपि प्रक्रिया इष्यते अतः सः शब्दः अपि दर्शितः अस्ति ।] → अट् हिन्स् लङ् ह्यः [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अडागमः] → अ हिन्स् सिप् ह्यः [<<तिप्तस्झि..>> 3.4.78 इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]। → अ हिन्स् स् ह्यः [<<इतश्च>> 3.4.100 इति इकारलोपः] → अ हि श्नम् न्स् स् ह्यः [<<रुधादिभ्यः श्नम्>> 3.1.78 इति श्नम्-विकरणम्] → अ हि न न्स् स् ह्यः [इत्संज्ञालोपः] → अ हिन स् स् ह्यः [<<श्नान्नलोपः>> 6.4.23 इति नकारलोपः] → अ हिन स् ह्यः [<<स्कोः संयोगाद्योरन्ते च>> 8.2.29 इति सकारलोपः] → अ हिन रुँ ह्यः [<<सिपि धातो रुर्वा>> 8.2.74 इति पाक्षिकं रुत्वम् ] → अ हिन उ ह्यः [<<हशि च>> 6.1.113 इति रुँ-इत्यस्य उत्वम् ।] → अहिनो ह्यः [<<आद्गुणः>> 6.1.87 इति गुणैकादेशः] 4. <<दश्च>> 8.2.75 इति सूत्रेण धातोः अन्ते विद्यमानस्य दकारस्य सिप्-प्रत्यये परे विकल्पेन रुँ-आदेशः भवति । अस्मिन् आदेशे कृते अग्रे हश्-वर्णः अस्ति चेत् प्रकृतसूत्रेण तस्य रुँत्वम् सम्भवति । यथा, 'अभिनो राजन्' इति सन्धिः इत्थं सिद्ध्यन्ति — भिदिँर् (विदारणे, रुधादिः, <{7.2}>) → भिद् [<! इर इत्संज्ञा वाच्या !> इति इँर्-इत्यस्य इत्संज्ञा । <<तस्य लोपः>>1.3.9 इति लोपः] → भिद् लङ् राजन् [<<अनद्यतने लङ्>> 3.2.111 इति लङ् । अग्रे 'राजन्' इति शब्देन सह अपि प्रक्रिया इष्यते अतः सः शब्दः अपि दर्शितः अस्ति ।] → अट् भिद् लङ् राजन् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अडागमः] → अ भिद् सिप् राजन् [<<तिप्तस्झि..>> 3.4.78 इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]। → अ भिद् स् राजन् [<<इतश्च>> 3.4.100 इति इकारलोपः] → अ भि श्नम् द् स् राजन् [<<रुधादिभ्यः श्नम्>> 3.1.78 इति श्नम्-विकरणम्] → अ भि न द् स् राजन् [इत्संज्ञालोपः] → अ भि न द् राजन् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति अपृक्त-सि-प्रत्ययस्य लोपः] → अ भि न रुँ राजन् [<<दश्च>> 8.2.75 इति पाक्षिकं रुत्वम् ] → अ भिन उ राजन् [<<हशि च>> 6.1.113 इति रुँ-इत्यस्य उत्वम् ।] → अभिनो राजन् [<<आद्गुणः>> 6.1.87 इति गुणैकादेशः] प्रकृतसूत्रे स्थानीरूपेण निर्दिष्टः 'रुँ' इति शब्दः केवलं त्रिपादीसूत्रैः एव सिद्ध्यति, न हि कैश्चित् सपादसप्ताध्याय्याः सूत्रैः । अतः, अत्र सूत्रविधानसामर्थ्याद् एव <<ससजुषोः रुः>> 8.2.66, <<अहन्>> 8.2.68, <<सिपि धातो रुर्वा>> 8.2.74, <<दश्च>> 8.2.75 इत्यादीनि सर्वाणि त्रिपादीसूत्राणि <<हशि च>> 6.1.114 इति सपादसप्ताध्याय्याः सूत्रस्य कृते सिद्धानि एव सन्ति । रुत्वात् अनन्तरम् उत्वे कृते ततः सपादसप्ताध्याय्याः सूत्रैः पाठितम् गुणकार्यम् अपि इष्यते, अतएव इदं सूत्रम् आचार्यैः सपादसप्ताध्याय्यां संस्थाप्य, रुत्वं प्रति निर्देशसामर्थ्यात् सिद्धं ज्ञापितम् अस्ति । <<मतुवसो रु सम्बुद्धौ छन्दसि>> 8.3.1 इत्यस्मात् आरभ्य <<कानाम्रेडिते>> 8.3.12 इति यावद्भिः सूत्रैः अपि रुत्वम् आदेशरूपेण विधीयते । अस्य रुत्वस्य विषये अपि प्रकृतसूत्रस्य प्रसक्तिः अस्ति, परन्तु तत्र अस्य सूत्रस्य प्रयोगः केवलं वैदिकसन्दर्भे एव भवति । लौकिकसंस्कृतस्य उदाहरणे तु तत्र निर्देशात् रुँ इति आदेशात् अनन्तरम् हश्-वर्णः नैव सम्भवति, अतः प्रकृतसूत्रम् अपि तत्र नैव प्रवर्तते । दलकृत्यम् 1. अनुवृत्तिरूपेण स्वीकृते 'अतः' इति शब्दे तपरकरणम् किमर्थम् ? <<तपरस्तत्कालस्य>> 1.1.70 इत्यनेन अकारस्य केवलम् तात्कालिकभेदानाम् (ह्रस्वभेदानाम्) ग्रहणं कर्तुम् अत्र अकारस्य तपरकरणम् कृतम् अस्ति । 'अति' इत्यत्र तपरकरणेन अकारस्य दीर्घभेदस्य (आकारस्य) ग्रहणं न भवति । अतः आकारात्-परस्य रुँ-आदेशस्य विषये इदं सूत्रं नैव प्रवर्तते । यथा, देवा सुँ गच्छन्ति → देवा रुँ गच्छन्ति → देवा गच्छन्ति — अस्याम् प्रक्रियायाम् उत्वं न भवति । 2. रोः इत्यत्र 'रु' इति उकारान्तस्य ग्रहणम् किमर्थम्? इदं सूत्रम् केवलम् 'रुँ' इति आदेशस्य विषये एव प्रवर्तते, 'र्' इत्यस्य विषये न प्रवर्तते, अतः अस्मिन् सूत्रे 'रु' शब्दः साक्षात् स्वीकृतः अस्ति । यथा, पुनर् + गच्छति → पुनर्गच्छति —‌ अस्याम् प्रक्रियायाम् उत्वं न भवति ।

Balamanorama

Up

<<हशि च>> - हशि च ।अतो रोरप्लुता॑दिति पदत्रयमनुवर्तते ।ऋत उ॑दित्यतउ॑दिति च । तदाह-अप्लुतादिति । शिवो वन्द्य इति । शिवस् वन्द्य इति स्थिते सस्य रुः । तस्याऽत्परकत्वाभावात्पूर्वसूत्रेण उत्वं न प्राप्तमिति वचनमिदम् । ननु प्रातरत्र धातर्गच्छत्यत्र रेफस्य अतो रोरिति हशि चेति च उत्वं कुतो न स्यादित्यत आह — रोरित्यनुकारेति । उकारोऽनुबन्ध इद्यस्य स उकारानुबन्धः, तस्यैव उत्वविधौ ग्रहणात् प्रातरत्र उत्वं न भवति । प्रातरिति हि रेफान्तमव्ययम् । न तत्र रेफ उकारानुबन्धवान् । धातृशब्दात् सम्बुद्धिः सुः,ऋतो ङि सर्वनामस्थानयोः॑ इति ऋकारस्य गुणोऽकारो रपरः, हल्ङ्यादिना सुलोपः । अत्रापि न रेफ उकारानुबन्धवान् । अत उभयत्रापि रेफस्य उत्वं न भवतीत्यर्थः । अथ देवा इहेति रूपं दर्शयितुमाह — देवास् इह इति स्थिते रुत्वमिति ।

Padamanjari

Up

अप्लुतादित्येव - सुस्रोता3 देहीति। चकारोऽतीत्यस्यानुकर्षणार्थः, तेनोतरत्र तस्यैवानुवृत्तिर्भवति, न हशीत्यस्य, नहि तदनुकर्षणस्यान्यत्प्रयोजनमस्ति ॥