झषस्तथोर्धोऽधः

8-2-40 झषः तथोः धः अधः पदस्य पूर्वत्र असिद्धम्

Sampurna sutra

Up

झषः तथोः धः - अधः ।

Neelesh Sanskrit Brief

Up

धा-धातुं विहाय अन्येषाम् धातूनाम् विषये झष्-वर्णात् परस्य तकारस्य थकारस्य च धकारः भवति ।

Neelesh English Brief

Up

The तकार and थकार that follows a झष् letter is converted to धकार. But this conversion does not happen for the verb root 'धा'.

Kashika

Up

झष उत्तरयोस्तकारथकारयोः स्थाने धकार आदेशो भवति, दधातिं वर्जयित्वा। लब्धा। लब्धुम्। लब्धव्यम्। अलब्ध। अलब्धाः। दुह — दोग्धा। दोग्धुम्। दोग्धव्यम्। अदुग्ध। अदुग्धाः। लिह — लेढा। लेढुम्। लेढव्यम्। अलीढ। अलीढाः। बुध — बोद्धा। बोद्धुम्। बोद्धव्यम्। अबुद्ध। अबुद्धाः। अध इति किम्? धत्तः। धत्थः॥

Siddhanta Kaumudi

Up

झषः परयोस्तथयोर्धः स्यान्न तु दधातेः । जश्त्वम् । सिषेद्ध । सिषेधिथ । सेद्धा । सेधिता । सेत्स्यति । सेधिष्यति । असैत्सीत् ॥

Laghu Siddhanta Kaumudi

Up

झषः परस्योस्तथोर्धः स्यान्न तु दधातेः॥

Neelesh Sanskrit Detailed

Up

झष्-प्रत्याहारे सर्वे वर्गचतुर्थाः आगच्छन्ति । एतेषाम् परस्य तकारस्य थकारस्य च अनेन सूत्रेण धकारः भवति । परन्तु धा-धातोः विषये अयमादेशः न विधीयते । उदाहरणानि एतानि - 1. लभ्-धातोः क्त-प्रत्ययान्तरूपम् एतादृशम् सिद्ध्यति - लभ् + क्त [<<निष्ठा>> 3.2.102 इति क्त-प्रत्ययः] → लभ् + ध [<<झषस्तथोर्धोऽधः>> 8.2.40 इति भकारात् परस्य तकारस्य धकारः] → लब्ध [<<झलां जश् झशि>> 8.4.53 इति भकारस्य बकारः] 2. 'लिहँ' (आस्वादने) इति अदादिगणस्य धातुः । अस्य धातोः आत्मनेपदस्य लङ्लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रिया इयम् - लिह् + लङ् [<<अनद्यतने लङ्>> 3.2.111 इति लङ् ] → अट् लिह् लङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अडागमः] → अ + लिह् थास् [<<तिप्तस्...>> 3.4.78 इति आत्मनेपदस्य मध्यमपुरुषैकवचनस्य थास्-प्रत्ययः] → अ लिह् शप् थास् [<<कर्तरि शप्>> 3.1.68 इति औत्सर्गिकं विकरणम् शप् ] → अ लिह् थास् [<<अदिप्रभृतिभ्यः शपः>> 2.4.72 इति शप्-विकरणस्य लुक्] → अ लिढ् थास् [<<हो ढः>> 8.2.31 इति हकारस्य झलि परे ढकारः] → अ लिढ् धास् [<<झषस्तथोर्धोऽधः>> 8.2.40 इति ढकारात् परस्य थकारस्य धकारः] → अ लिढ् धारुँ [<<ससजुषो रुँः>> 8.2.66 इति सकारस्य रुँत्वम्] → अ लिढ् धाः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] → अ लिढ् ढाः [<<ष्टुना ष्टुः>> 8.4.41 इति ष्टुत्वम्] → अ लिढाः [<<ढो ढे लोपः>> 8.3.13 इति ढकारस्य ढकारे परे लोपः । एतस्य कृत्वे ष्टुत्वम् सिद्धमस्ति ।] → अ लीढाः [<<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> 6.3.111 इति ढकारलोपे पूर्वस्य इकारस्य दीर्घः । एतस्य कृते ढलोपः सिद्धः अस्ति ।] → अलीढाः 3. धा-धातोः विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, धा-धातोः लट्-लकारस्य प्रथमपुरुषद्विवचनस्य प्रक्रियायाम् - धा + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → धा + तस् [<<तिप्तस्...>> 3.4.78 इति प्रथमपुरुषद्विवचनस्य तस्-प्रत्ययः] → धा + शप् + तस् [<<कर्तरि शप्>> 3.1.68 इति औत्सर्गिकं विकरणम् शप् ] → धा धा + तस् [<<जुहोत्यादिभ्यः श्लुः>> 2.4.75 इति विकरणस्य श्लुः (इत्युक्ते लोपः) । <<श्लौ>> 6.1.10 इति धातोः एकाचः अङ्गस्य द्वित्वम्] → ध धा तस् [<<ह्रस्वः>> 7.4.59 इति अभ्यासस्य ह्रस्वः] → ध ध् तस् [<<श्नाभ्यस्तयोरातः>> 6.4.112 इति आकारलोपः] → द ध् तस् [<<अभ्यासे चर्च्च>> 8.4.54 इति अभ्यासस्य जश्त्वम्] → धध् तस् [<<दधस्तथोश्च>> 8.2.38 इति दकारस्य धकारः] → ध त् तः [अत्र 'धध्' इत्यत्र धकारः झष्-वर्णः अस्ति, परन्तु तस्मात् परस्य तकारस्य <<झषस्तथोर्धोऽधः>> 8.2.40 इति धकारादेशः न भवति, यतः तस्मिन् सूत्रे 'अधः' इति निर्दिष्टः अस्ति । अतः विसर्गं कृत्वा अग्रे <<खरि च>> 8.4.55 इत्यनेन धकारस्य तकारः भवति] → धत्तः

Balamanorama

Up

<<झषस्तथोर्धोऽधः>> - झषस्तथोः । झष इति पञ्चमी । तश्च थ् चेति द्वन्द्वः । तकारादकार उच्चारणार्थः । तकारथकायोरिति लभ्यते । 'धः' इति प्रथमैकवचनम् । अकार उच्चारणार्थः । धकार इति लभ्यते । 'अध' इति षष्ठन्तम् । धाधातुभिन्नस्येति लभ्यते । तदाह — झषः परयोरिति । जश्त्वमिति । सिसेध् ध इति स्थितेझलां जस् झशी॑ति प्रथमधकारस्य दकारे सिषेद्धेति रूपमित्यर्थः । सिषिदिव — सिषिध्व । सिषिधिम — सिषिध्म । क्रादिनियमस्तु नेड्वशीति प्रक्रमाननञ्प्रापितस्यैवाऽभावस्य निवर्तको, नतु विभाषादप्रापितस्यापि, अनन्तरस्येति न्यायात् । इट्पक्षे आह — सिषेधिथेति । सेद्धेति । लृट् तास् इडभावः । डा टिलोपः गुणः । धत्वं जश्त्वम् । सेद्धार इत्यादि । सेधितेति । इट्पक्षे रूपम् । सेत्स्यति सेधिष्यतीति । लृटि स्यः । इड्विकल्पः । असैत्सीदिति । लुङस्तिप् । इकारलोपः । च्लिः । सिच् । इडभावः । 'अस्तिसिचः' इति ईट् । वदव्रजेति वृद्धिः । धकारस्य चर्त्वम् ।

Padamanjari

Up

दधातिं वर्जयित्वेति । अनेनाध इति धातुप्रतिषेधं दर्शयति । यदि धकारप्रतिषेधः स्यात् - धकारात्परयोर्नेति, ततः'गतिबुद्धि' इत्यादयो निर्देशा नोपपद्येरन् । अलब्धष अलब्धा इति । लुङि त-थासौ । एवमलीढ, अलीढा इति । धतः, धत्थ इति । धत्वे प्रतिषिद्धे धकारस्य चर्त्वम् । ठधःऽ इति शक्यमवक्तुम् । इह कस्मान्न - धतः, धत्थ इति ? जश्त्वे योगविभागः करिष्यते,'दधस्तथोश्च' ,'झलां जशः' - झलां जशो भवन्ति दधस्तथोः, ततः ठन्तेऽ - अन्ते च झलां जशो भवन्ति, तत्र'पूर्वत्रासिद्धम्' इति भष्भावे जश्त्वस्यासिद्धत्वाज्झषन्तत्वम् । धत्वे परस्मिन् सिद्धं जश्त्वमित्यझषन्तत्वाद्धत्वाभाव इति सिद्धमिष्टम् ॥