मस्जिनशोर्झलि
7-1-60 मस्जिनशोह् झलि इदितः नुम्
Sampurna sutra
Up
मस्जि-नशोः नुम् झलि
Neelesh Sanskrit Brief
Up
मस्ज्-धातोः नश्-धातोः च झलादि-प्रत्यये परे नुमागमः भवति ।
Neelesh English Brief
Up
The verb roots मस्ज् and नश् get a नुमागम when followed by a झलादि प्रत्यय.
Kashika
Up
मस्जि नशि इत्येतयोरङ्गयोर्झलादौ प्रत्यये नुमागमो भवति। मङ्क्ता। मङ्क्तुम्। मङ्क्तव्यम्। नंष्टा। नंष्टुम्। नंष्टव्यम्। झलीति किम्? मज्जनम्। नशनम्। <<मस्जेरन्त्यात् पूर्वं नुममिच्छन्त्यनुषङ्गादिलोपार्थम्>> (१.१.४७ वा०)। मग्नः। मग्नवान्॥
Siddhanta Kaumudi
Up
नुम् स्यात् । ननष्ट । नेशिव । नेश्व । नेशिम । नेश्म । नशिता । नंष्टा । नशिष्यति । नङ्क्ष्यति । नश्येत् । नश्यात् । अनशत् । प्रणश्यति ॥
Laghu Siddhanta Kaumudi
Up
नुम् स्यात्। ननंष्ठ। नेशिव, नेश्व। नेशिम, नेश्म। नशिता, नंष्टा। नशिष्यति, नङ्क्ष्यति। नश्यतु। अनश्यत्। नश्येत्। नश्यात्। अनशत्॥॥ {$ {! 13 षूङ् !} प्राणिप्रसवे $} (धातुपाठे <{04.0027}>) ॥ सूयते। सुषुवे। क्रादिनियमादिट्। सुषुविषे। सुषुविवहे। सुषुविमहे। सविता सोता॥॥ {$ {! 14 दूङ् !} परितापे $} (धातुपाठे <{04.0028}>) ॥ दूयते॥ {$ {! 15 दीङ् !} क्षये $} (धातुपाठे <{04.0029}>) ॥ दीयते॥
Neelesh Sanskrit Detailed
Up
टुमस्जोँ (शुद्धौ, तुदादिः, <{6.151}>) तथा च णशँ (अदर्शने, दिवादिः, <{4.91}>) एतयोः धात्वोः झलादि-प्रत्यये परे नुमागमः भवति । उदाहरणानि एतानि —
1. मस्ज्-धातोः क्त-प्रत्ययान्तरूपम् -
टुमस्जोँ (शुद्धौ, तुदादिः, ओदित्)
→ मस्ज् + क्त [<<निष्ठा>> 3.2.102 इति क्त-प्रत्ययः]
→ मस न् ज् त [<<मस्जिनशोर्झलि>> 7.1.60 इति तकारे परे नुमागमः । यद्यपि अयम् मित्-आगमः अस्ति, तथापि इष्टरूपसिद्ध्यर्थम् अयम् अन्त्यात् पूर्वः (इत्युक्ते, जकारात् पूर्वः) विधीयते । यदि अत्र <<मिदचोऽन्त्यात्परः>> 1.1.47 इत्यनेन मकारोत्तर-अकारात् अनन्तरम् नुमागमः भवेत्, तर्हि <<अनिदितां हलः उपधायाः क्ङिति>> 6.4.24 इत्यनेन तस्य लोपः नैव सम्भवति, येन इष्टरूपसिद्धिः अपि न भवेत् । अतएव अत्र जकारात् पूर्वः नुम् विधीयते ।]
→ म स् ज् त [<<अनिदितां हलः उपधायाः क्ङिति>> 6.4.24 इति कित्-प्रत्यये परे अनिदित्-धातोः नकारलोपः]
→ म ज् त [<<स्कोः संयोगाद्योरन्ते च>> 8.2.29 इति सकारलोपः]
→ मग् त [<<चोः कुः>> 8.2.30 इति कुत्वम्]
→ मग्न [<<ओदितश्च>> 8.2.45 इति निष्ठातकारस्य नकारः]
2. मस्ज्-धातोः तृच्-प्रत्ययान्तरूपम् -
टुमस्जोँ (शुद्धौ, तुदादिः, ओदित्)
→ मस्ज् + तृच् [<<ण्वुल्तृचौ>> 3.1.133 इति तृच्-प्रत्ययः]
→ मन् स्ज् + तृ [<<मस्जिनशोर्झलि>> 7.1.60 इति तकारे परे नुमागमः । <<मिदचोऽन्त्यात्परः>> 1.1.47 इति अयम् अन्तिम-अच्-वर्णात् परः भवति चेदपि न कश्चन दोषः, अतः तथैव प्रक्रिया अत्र निर्दिष्टा अस्ति । परन्तु पूर्वप्रक्रियासदृशः अयम् अन्तिम-जकारात् पूर्वः स्थाप्यते चेदपि सम्यक् एव । ]
→ मन् ज् तृ [<<स्कोः संयोगाद्योरन्ते च>> 8.2.29 इति सकारलोपः]
→ मन् ग् तृ [<<चोः कुः>> 8.2.30 इति कुत्वम्]
→ मं ग् तृ [<<नश्चापदान्तस्य झलि>> 8.3.24 इति अनुस्वारः]
→ मं क् तृ [<<खरि च>> 8.4.55 इति चर्त्वम्]
→ मङ्क्तृ [<<अनुस्वारस्य ययि परसवर्णः>> 8.4.58 इति परसवर्णः ङकारः]
3. नश्-धातोः तव्यत्-प्रत्ययान्तरूपम् -
णशँ (अदर्शने, दिवादिः)
→ नश् [<<णो नः>> 6.1.65 इति नत्वम्]
→ नश् + तव्यत् [<<तव्यत्तव्यानीयरः>> 3.1.96 इति तव्यत्-प्रत्ययः]
→ नन् श् + तव्य [<<मस्जिनशोर्झलि>> 7.1.60 इति तकारे परे नुमागमः । <<मिदचोऽन्त्यात्परः>> 1.1.47 इति अयम् अन्तिम-अच्-वर्णात् परः भवति ।]
→ नन् ष् + तव्य [<<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> 8.2.36 इति झलि परे शकारस्य षकारः]
→ नं ष् तव्य [<<नश्चापदान्तस्य झलि>> 8.3.24 इति अनुस्वारः]
→ नं ष् टव्य [<<ष्टुना ष्टुः>> 8.4.41 इति तकारस्य ष्टुत्वम् टकारः]
→ नंष्टव्य
4. नश्-धातोः क्त्वा-प्रत्ययान्तरूपम् -
णशँ (अदर्शने, दिवादिः)
→ नश् [<<णो नः>> 6.1.65 इति नत्वम्]
→ नश् + क्त्वा [<<समानकर्तृकयोः पूर्वकाले>> 3.2.21 इति क्त्वा-प्रत्ययः]
→ नन् श् + त्वा [<<मस्जिनशोर्झलि>> 7.1.60 इति तकारे परे नुमागमः । <<मिदचोऽन्त्यात्परः>> 1.1.47 इति अयम् अन्तिम-अच्-वर्णात् परः भवति ।]
→ नश् +त्वा / नन्श् + त्वा [<<जान्तनशां विभाषा>> 6.4.32 इति कित्-प्रत्यये परे नश्-धातोः उपधानकारस्य वैकल्पिकः लोपः नकारलोपः]
→ न ष् + त्वा / नन्ष् + त्वा [<<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> 8.2.36 इति झलि परे शकारस्य षकारः]
→ न ष् त्वा / नंष् + त्वा [<<नश्चापदान्तस्य झलि>> 8.3.24 इति अनुस्वारः]
→ न ष् ट्वा / नंष् ट्वा [<<ष्टुना ष्टुः>> 8.4.41 इति तकारस्य ष्टुत्वम् टकारः]
→ नष्ट्वा / नंष्ट्वा
मस्ज्-धातोः नुमागमस्य विषये विशेषविधानम्
'नुम्' अयम् आगमः मित्-आगमः अस्ति, अतः <<मिदचोऽन्त्यात्परः>>
1.1.47 इत्यनेन अयम् अन्त्यात् अचः परः भवेत् । नश्-धातोः विषये एतादृशः आगमः क्रियते चेत् न कोऽपि दोषः । परन्तु मस्ज्-धातोः विषये कित्-प्रत्यये परे एतादृशः नुमागमः विधीयते चेत् इष्टरूपम् नैव साधयितुम् शक्यते । अतः, मस्ज्-धातोः विषये (आवश्यकं चेत्) अयं नुमागमः अन्तिम-वर्णात् पूर्वम् (इत्युक्ते, जकारात् पूर्वम्) विधीयते । <<हलोऽनन्तराः संयोगः>>
1.1.7 इत्यत्र भाष्ये विद्यमानात् <<मस्जेरन्त्यात् पूर्वः मित् अनुषङ्गसंयोगादिलोपार्थम् >> इति वचनात् अस्य प्रामाण्यम् स्पष्टी भवति । इदमेव भाष्यवाक्यम् वर्तमानसूत्रस्य काशिकाव्याख्याने अपि निर्दिष्टम् अस्ति ।
सूत्ररचनाविशेषाः
1. अस्मिन् सूत्रे 'मस्जिनशोः' इत्यत्र 'मस्जि' तथा 'नशि' इति धातुनिर्देशः <!इक्श्तिपो धातुनिर्देशे!> इति वार्त्तिकम् अनुसृत्य इक्-प्रत्ययेन सह कृतः अस्ति ।
2. <<यस्मिन् विधिः तदादौ अल्ग्रहणे>> इत्यनया परिभाषया 'झलि' इत्यस्य अर्थः 'झलादौ' इति स्वीक्रियते ।
Balamanorama
Up
<<मस्जिनशोर्झलि>> - नुम् स्यादिति ।इदितो नु॑मित्यतस्तदनुवृत्तेरिति बावः । ननंष्ठेति । व्रश्चादिषत्वम् । ष्टुत्वम् । प्रणश्यतीति ।उपसर्गादसमासे॑इति णत्वम् ।
Padamanjari
Up
टुअमस्जो शुद्धौ तृच्, एकाचः, इतीट्प्रतिषेधः, अन्त्याज्जकारात्पूर्वो नुम्, स्कोः संयोगाद्योरन्ते चेति सलोपः, कुत्वम्, अनुस्वारपरसवर्णौ । नंष्टेति । रधादिभ्यश्च इतीडभावपक्षे नुम् । मज्जनमिति । जकारे परतः सकारस्य श्चुत्वे च प्राप्ते जश्त्वस्यासिद्धत्वात् श्चुत्वम्, शकारस्य जश्त्वम् - जकारः । मस्जेरित्यादि । यद्यन्त्यादचः परः स्यातदा नसजानां समुदायस्यैका संयोगसंज्ञेति सकारस्यासंयोगादित्वाल्लोपो न स्यात् । अथापि सजयोः पृथक्संयोगसंज्ञामाश्रित्य लोपः स्याद् एवमपि तस्य लोपस्यासिद्धत्वान्नकार उपधा न भवतीति तस्य लोपो न स्यात् । तस्मादन्त्याज्जकारात्पूर्वः सजयोर्मध्ये नुमेषितव्यः ॥