3-2-123 वर्तमाने लट् प्रत्ययः परः च आद्युदात्तः च धातोः कृत्
index: 3.2.123 sutra: वर्तमाने लट्
धातोः वर्तमाने लट् प्रत्ययः परश्च
index: 3.2.123 sutra: वर्तमाने लट्
वर्तमानस्य अर्थे धातोः परः लट्-प्रत्ययः भवति ।
index: 3.2.123 sutra: वर्तमाने लट्
आरब्धोऽपरिसमाप्तश्च वर्तमानः। तस्मिन् वर्तमानेऽर्थे वर्तमनाद् धातोः लट् प्रत्ययो भवति। पचति। पठति।
index: 3.2.123 sutra: वर्तमाने लट्
॥ अथ तिङन्तभ्वादिप्रकरणम् ॥
वर्तमानक्रियावृत्तेर्धातोर्लट् स्यात् । अटावितौ ॥
index: 3.2.123 sutra: वर्तमाने लट्
वर्तमानक्रियावृत्तेर्धातोर्लट् स्यात्। अटावितौ। उच्चारणसामर्थ्याल्लस्य नेट्त्वम्। भू सत्तायाम्॥ {$ {! 1 भू !} सत्तायाम् $}॥ कर्तृविवक्षायां भू ल् इति स्थिते-
index: 3.2.123 sutra: वर्तमाने लट्
किम् नाम 'वर्तमानः'? 'आरब्धः अपरिसमाप्तश्च वर्तमानः' इति काशिकाकारः वदति । इत्युक्ते, या क्रिया आरब्धा अस्ति परन्तु समाप्ता नास्ति (प्रचलन्ती अस्ति) सा 'वर्तमाना' क्रिया अस्ति इत्यर्थः । एतादृशीं क्रियां दर्शयितुम् लट्-लकारस्य प्रयोगः भवति ।
यथा - 'रामः पाठम् पठति' इत्यत्र 'पठति' अस्मिन् तिङन्तरूपे लट्-लकारस्य प्रयोगः कृतः अस्ति, यतः अनेन सूत्रेण एतत् उच्यते यत् पठनक्रिया आरब्धा अस्ति परन्तु इदानीम् समाप्ता नास्ति ।
ज्ञातव्यम् -
'लट्' प्रत्ययस्य अर्थः 'वर्तमान' इति न । 'वर्तमानत्वम्' इति तु क्रियायाः विशेषणमस्ति । तत् द्योतयितुम् 'लट्' प्रत्ययस्य प्रयोगः भवति ।
वर्तमानकालस्य विषये भाष्यकारः वदति - 'भूतभविष्यतोः प्रतिद्वन्द्वी वर्तमानकालः' । इत्युक्ते -
अ) यत्र क्रियायाः आरम्भः अपि जातः, समाप्तिः अपि जाता - सः भूतकालः ।
आ) यत्र क्रियायाः आरम्भः एव न जातः, समाप्तिः अपि च न जाता - सः भविष्यकालः ।
इ) एतयोः भिन्नः यः अस्ति सः वर्तमानकालः । अतः वर्तमानकालस्य वैशिष्ठ्यम् - 'क्रियायाः आरम्भः जातः, समाप्ति च न जाता' इति ।
अन्यासु कासुचन भाषासु 'सामान्यवर्तमानकाल' (simple present), 'सततवर्तमानकाल' (present continuous), आदयः केचन भेदाः सन्ति । संस्कृते एतादृशाः भेदाः न सन्ति । अतः 'Ram goes / राम जाता है' तथा 'Ram is going / राम जा रहा है' एतयोः उभयोः अर्थे 'रामः गच्छति' इत्येव प्रयोगः क्रियते ।
शतृ-प्रयोगस्य अर्थः लट्-लकारवत् एव । 'रामः गच्छन् अस्ति' तथा 'रामः गच्छति' एतयोः अर्थयोर्मध्ये कोऽपि भेदः नास्ति ।
'लट्' इत्यत्र टकारस्य हलन्त्यम् 1.3.3 तथा अकारस्य उपदेशेऽजनुनासिक इत् 1.3.2 इत्यनेन इत्संज्ञा भवति, तयोः तस्य लोपः 1.3.9 इत्यनेन च लोपः भवति । अत्र अकारः अनुनासिकः अस्ति, अतः वस्तुतः अयं लकारः 'लँट्' इति लेखनीयः ।
index: 3.2.123 sutra: वर्तमाने लट्
वर्त्तमाने लट् - वर्तमाने लट् ।धातो॑रिति सूत्रमा तृतीयाध्यायसमाप्तेरधिकृतम् । 'वर्तमाने' इति तत्रान्वेति । वर्तमानेऽर्थे विद्यमानाद्धातोर्लडिति लभ्यते । फलितमाह — वर्तमानक्रियावृत्तेरिति । धात्वर्थक्रियाया वर्तमानत्वं तु वर्तमानकालवृत्तित्वम् । कालस्य तु वर्तमानत्वम् — अतीतानागतभिन्नकालत्वम् ।भूतभविष्यतोः प्रतिद्वन्द्वी वर्तमानः काल॑ इति भाष्यम् । वर्तमानत्वं च न प्रत्ययार्थभूतकत्र्रादिविशेषणम् । अतीतपाकादिक्रिये कर्तरि वर्तमाने पचतीत्याद्यापत्तेः, किंतु धात्वर्थविशेषणमेव वर्तमानत्वम् । लट् तु तस्य द्योतक एव । अटाविताविति । न च अकार उच्चारणार्थ एवास्त्विति वाच्यं, लिडादि वैलक्षण्याय तस्यावश्यकत्वात् । तथा च तस्य इत्संज्ञां विना निवृत्त्युपायाऽभावादित्संज्ञैवादर्तव्येति भावः ।
index: 3.2.123 sutra: वर्तमाने लट्
वर्तमाने लट्॥ प्रारब्धोऽपरिसमाप्तश्चेति। अधिश्रयणादिरधः श्रयणपर्यन्त ओदनफलावच्छिन्नो विततरूपो व्यापारनिचयः पचेरर्थः। एवं सर्वत्र स यावता कालेन निवर्तते स कालो वर्तमानः, तद्योगाद्वर्तमानो धात्वर्थ इत्यर्थः। तेन निष्पन्नस्यार्थस्य भूतत्वादनिष्पन्नस्य च भावित्वान्निष्पन्नानिष्पन्नव्यतिरेकेण राश्यन्तरस्याभावाद्वर्तमानाभाव इति चोद्यं परिहृतम्। इहाध्ययने प्रवृता यदा भोजनादिक्रियां कुर्वन्तो नाधीयते तदा अधीयत इति प्रयोगो न प्राप्नोति? नैष दोषः; आफलनिष्पतेरध्ययनमपरिसमाप्तमन्तरालवर्तितु भोजनादिक्वं नान्तरीयकं तस्यैव वावयवक्रिया। यमपि भवान्मुक्तसंशयं वर्तमानकालं न्याय्यं मन्यते - भुङ्क्ते देवदत इति, अत्राप्यवश्यं भुञ्जानो हसति जल्पति पानीयं वा पिबति, तत्र चेद्यौक्ता वर्तमानकालता, इहापि युक्ता द्दश्यताम्। उक्तं च - व्यवधानमिवोपैति निवृत इव द्दश्यते। क्रियासमूहो भुज्यादिरन्तरालप्रवृत्तिभिः॥ न च विच्छिन्नरूपोऽपि स विरामान्निवर्तते। सर्वैव हि क्रियाऽन्येन सङ्कीर्णैवोपलभ्यते॥ तदन्तरालद्दष्टा वा सर्वैवावयवक्रिया। साद्दश्यात्सति भेदे तु तदङ्गत्वेन गृह्यते॥ इति। एतदप्यनेनैवोक्तं प्रारब्धोऽपरिसमाप्तश्च वर्तमान इति। इह तिष्ठन्ति पर्वताः, स्रवन्ति सिन्धव इति पर्वतादिस्थित्यादेः सर्वदाभावाद् भूतभविष्यदभावातत्प्रतिद्वन्द्विरूपस्य वर्तमानस्याप्यभाव इति लण् न प्राप्नोति? नैष दोषः; कालत्रयवर्तिनां राज्ञां याः क्रियाः पालनादिका भूतादिभेदेन भिन्नास्ताः पर्वतस्थित्यादेर्भेदिकाः, ततश्च ये सम्प्रति राजानस्तत्क्रियाभेदेन भिन्नाया पर्वतादिस्थितेर्वर्तमानत्वम्। एवं च कृत्वा भूतभविष्यत्कालयोगोऽप्युपपद्यते - -तस्थुः पर्वता नलदुष्यन्तादिकाले, स्थास्यन्ति पर्वताः कल्किविष्णुकाले। लटष्टकारष्टेरेत्वार्थः॥