सहिवहोरोदवर्णस्य

6-3-112 सहिवहोः ओत् अवर्णस्य उत्तरपदे ढ्रलोपे पूर्वस्य दीर्घः

Sampurna sutra

Up

index: 6.3.112 sutra: सहिवहोरोदवर्णस्य


उत्तरपदे ढ्रलोपे सहि-वहोः अवर्णस्य ओत्

Neelesh Sanskrit Brief

Up

index: 6.3.112 sutra: सहिवहोरोदवर्णस्य


ढकारलोपनिमित्तके ढकारे परे सह्-धातोः वह्-धातोः च अवर्णस्य ओकारादेशः भवति ।

Neelesh English Brief

Up

index: 6.3.112 sutra: सहिवहोरोदवर्णस्य


For the verbs सह् and वह्, when a ढकार is deleted due to a ढकार that follows it, the अकार occurring before the deleted ढकार is converted to ओ.

Kashika

Up

index: 6.3.112 sutra: सहिवहोरोदवर्णस्य


सहि वहि इत्येतयोः अवर्णस्य ओकार आदेशो भवति ढ्रलोपे। सोढा। सोढुम्। सोढव्यम्। वोढा। वोढुम्। वोढव्यम्। अवर्णस्य इति किम्? ऊढः। ऊढवान्। वर्णग्रहणं किम्? कृतायामपि वृद्धौ यथा स्यात्। उदवोढाम्। उदवोढम्। तादपि परः तपरः, तपरत्वादाकारस्य ग्रहणं न स्यात्।

Siddhanta Kaumudi

Up

index: 6.3.112 sutra: सहिवहोरोदवर्णस्य


अनयोरवर्णस्य ओत्स्याड्ढलोपे सति ॥

Laghu Siddhanta Kaumudi

Up

index: 6.3.112 sutra: सहिवहोरोदवर्णस्य


अनयोरवर्णस्य ओत्स्याड्ढलोपे । अवोढ । ऊहे । वोढा । वक्ष्यति । अवाक्षीत् । अवोढाम् । अवाक्षुः । अवाक्षीः । अवोढम् । अवोढ । अवाक्षम् । अवाक्ष्व । अवाक्ष्म । अवोढ । अवक्षाताम् । अवक्षत । अवोढाः । अवक्षाथाम् । अवोढ्वम् । अवक्षि । अवक्ष्वहि । अवक्ष्महि ॥

Neelesh Sanskrit Detailed

Up

index: 6.3.112 sutra: सहिवहोरोदवर्णस्य


ढकारलोपनिमित्तके ढकारे परे, रेफलोपनिमित्तके वा रेफे परे ढ्रलोपे पूर्वस्य दीर्घोऽणः 6.3.111 इति सूत्रेण अकारस्य दीर्घादेशे प्राप्ते; सह् तथा वह् धात्वोः विषये तद्बाधित्वा प्रकृतसूत्रेण अण्-वर्णस्य ओकारादेशः भवति । क्रमेण उदाहरणानि एतादृशानि —

1. सह्-धातोः प्रक्रियायाम् अकारस्य ओकारादेशः

  1. सह्-धातोः तुमुन्-प्रत्यये कृते प्रकृतसूत्रेण ओकारादेशं कृत्वा अन्तिमं रूपं सिद्ध्यति —

षहँ (मर्षणे, <{1.988}>, भ्वादिः)

→ सह् [धात्वादेः षः सः 6.1.64]

→ सह् + तुम् [तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् 3.3.10 इति तुमुन्-प्रत्ययः]

→ सढ् + तुम् [हो ढः 8.2.31 इति हकारस्य ढत्वम्]

→ सढ् + धुम् [झषस्तथोर्धोऽधः 8.2.40 इति तकारस्य धकारः]

→ सढ् + ढुम् [ष्टुना ष्टुः 8.4.41 इति ष्टुत्वे ढकारः]

→ स + ढुम् [ढो ढे लोपः 8.3.13 इति ढकारे परे ढकारलोपः]

→ सोढुम् [ढ्रलोपे पूर्वस्य दीर्घोऽणः 6.3.111 इत्यनेन अकारस्य दीर्घे प्राप्ते; तद्बाधित्वा सहिवहोरोदवर्णस्य 6.3.112 इति ओकारादेशः]

  1. सह्-धातोः लुट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धौ प्रकृतसूत्रेण ओकारादेशः भवति —

षहँ (मर्षणे, <{1.988}>, भ्वादिः)

→ सह् [धात्वादेः षः सः 6.1.64]

→ सह् + लुट् [अनद्यतने लुट् 3.3.15 इति लुट्-लकारः]

→ सह् + तास् + लुट् [स्यतासी लृतुटोः 3.1.33 इति विकरणप्रत्ययः]

→ सह् + ता + तिप् [तिप्तस्झि.. 3.4.78 इति प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्-प्रत्ययः]

→ सह् + ता + डा [लुटः प्रथमस्य डारौरसः 2.4.85 इति तिप्-प्रत्ययस्य डा-आदेशः]

→ सह् + त् + आ [टेः 6.4.143 इति टिसंज्ञकस्य लोपः]

→ सढ् + त् + आ [हो ढः 8.2.31 इति अपदान्तहकारस्य झलि परे ढकारः]

→ सढ् + ध् + आ [झषस्तथोर्धोऽधः 8.2.40 इत्यनेन तकारस्य धकारः]

→ सढ् + ढ् + आ [ष्टुना ष्टुः 8.4.41 इति ष्टुत्वम्]

→ स + ढ् + आ [ढो ढे लोपः 8.3.13 इति ढकारलोपः]

→ सो + ढ् + आ [ढ्रलोपे पूर्वस्य दीर्घोणः 6.3.111 इत्यनेन अकारस्य दीर्घे प्राप्ते तस्य अपवादत्वेन सहिवहोरोदवर्णस्य 6.3.112 इति सह्-धातोः सकारात् परस्य अकारस्य ओकारादेशः]

→ सोढा

2. वह्-धातोः प्रक्रियायाम् अकारस्य ओकारादेशः

  1. वह्-धातोः तृच्-प्रत्ययान्तरूपस्य सिद्धौ प्रकृतसूत्रेण ओकारादेशः भवति —

वहँ (प्रापणे,भ्वादिः, <{1.1159}>)

→ वह् + तृच् [ण्वुल्तृचौ 3.1.133 इति तृच्-प्रत्ययः]

→ वढ् + तृ [हो ढः 8.2.31 इति अपदान्तहकारस्य झलि परे ढकारः]

→ वढ् + धृ [झषस्तथोर्धोऽधः 8.2.40 इत्यनेन तकारस्य धकारः]

→ वढ् + ढृ [ष्टुना ष्टुः 8.4.41 इति ष्टुत्वम्]

→ व + ढृ [ढो ढे लोपः 8.3.13 इति ढकारलोपः]

→ वोढृ [ढ्रलोपे पूर्वस्य दीर्घोणः 6.3.111 इत्यनेन अकारस्य दीर्घे प्राप्ते तस्य अपवादत्वेन सहिवहोरोदवर्णस्य 6.3.112 इति वह्-धातोः सकारात् परस्य अकारस्य ओकारादेशः]

  1. वह्-धातोः आत्मनेपदस्य लुङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धौ प्रकृतसूत्रेण ओकारादेशे कृते अन्तिमं रूपं सिद्ध्यति —

वहँ (प्रापणे,भ्वादिः, <{1.1159}>)

→ वह् + लुङ् [लुङ् 3.2.110 इति लुङ्-प्रत्ययः]

→ अट् + वह् + लुङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]

→ अ + वह् + च्लि + लुङ् [च्लि लुङि 3.1.43 इति च्लि-विकरणप्रत्ययः]

→ अ + वह् + सिच् + लुङ् [च्लेः सिच् 3.1.44 इति सिच्-आदेशः]

→ अ + वह् + स् + लुङ् [चकारस्य इत्संज्ञा, लोपः । सकारोत्तरः इकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]

→ अ + वह् + स् + त [तिप्तस्झि.. 3.4.78 इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः]

→ अ +वह् + त [झलो झलि 8.2.26 इति सकारलोपः]

→ अ + वढ् + त [हो ढः 8.2.31 इति ढत्वम्]

→ अ + वढ् + ध [झषस्तथोर्धोऽधः 8.2.40 इति धत्वम्]

→ अ + वढ् + ढ [ष्टुना ष्टुः 8.4.41 इति ढत्वम्]

→ अ + व + ढ [ढो ढे लोपः8.3.13 इति ढकारलोपः]

→ अवोढ [ढ्रलोपे पूर्वस्य दीर्घोणः 6.3.111 इत्यनेन अकारस्य दीर्घे प्राप्ते अपवादत्वेन सहिवहोरोदवर्णस्य 6.3.112 इति वह्-धातोः सकारात् परस्य अकारस्य ओकारादेशः]

दलकृत्यम्

  1. अवर्णस्य इत्यत्र अकारग्रहणं किमर्थम् ?ढ्रलोपे पूर्वस्य दीर्घोऽणः 6.3.111 इत्यनेन अण्-वर्णस्य दीर्घादेशे प्राप्ते; तद्बाधित्वा केवलम् अवर्णस्यैव ओकारादेशस्य विधानम् कर्तुम् अस्मिन् सूत्रे अवर्णस्य इत्यत्र अकारस्य ग्रहणं कृतम् अस्ति । अतः वह्-धातोः वकारस्य यत्र उकारादेशः विधीयते, तत्र प्रकृतसूत्रस्य प्राप्तिः नैव विद्यते, अत तत्र ढ्रलोपे पूर्वस्य दीर्घोऽणः 6.3.111 इत्यनेन अवश्यं दीर्घः सम्भवति । यथा, वह्-धातोः क्त-प्रत्यये परे ढ्रलोपे पूर्वस्य दीर्घोऽणः 6.3.111 इत्यनेन उकारस्य दीर्घे कृते अन्तिमं रूपं सिद्ध्यति —

वहँ (प्रापणे,भ्वादिः, <{1.1159}>)

→ वह् + क्त [निष्ठा 3.2.102 इति क्त-प्रत्ययः]

→ उह् + त [वचिस्वपियजादीनां किति 6.1.15 इति सम्प्रसारणम् । सम्प्रसारणाच्च 6.1.108 इति पूर्वरूपम् ]

→ उढ् + त [हो ढः 8.2.31 इति ढत्वम्]

→ उढ् + ध [झषस्तथोर्धोऽधः 8.2.40 इति धत्वम्]

→ उढ् + ढ [ष्टुना ष्टुः 8.4.41 इति ढत्वम्]

→ उ + ढ [ढो ढे लोपः8.3.13 इति ढकारलोपः]

→ ऊढ [ढ्रलोपे पूर्वस्य दीर्घोऽणः 6.3.111 इति उकारस्य दीर्घः]

एतत् काशिकाकारस्य मतम् अस्ति । वस्तुतस्तु भाष्यकारेण अत्र भिन्नां प्रक्रियाम् उक्त्वा एतत् अवर्णग्रहणम् सम्पूर्णरूपेण प्रत्याख्यातम् वर्तते । तत्र भाष्यकारस्य मतेन, ढत्वादीनि कार्याणि अन्तरङ्गानि सन्ति, सम्प्रसारणं तु बहिरङ्गं वर्तते; अतः आदौ ढत्वादीनि कार्याणि कृत्वा, ततः सहिवहोरोदवर्णस्य 6.3.112 इत्यनेन अकारस्य ओकारादेशे कृते, ततः सम्प्रसारणम् क्रियते । इत्युक्ते, सह्-धातोः वह्-धातोः च प्रक्रियायाम् केवलम् सहिवहोरोदवर्णस्य 6.3.112 इत्यस्य प्रयोगसमये केवलम् अकारः / आकारः एव दृश्यते, न हि कुत्रचित् ओकारः । अतः प्रकृतसूत्रे अवर्णस्य इति निर्देशः अपि नैव आवश्यकः — इति अत्र भाष्यकारस्य आशयः वर्तते । अस्मिन् पक्षे प्रकिया एतादृशी वर्तते —

भाष्यमतेन ऊढ-शब्दस्य प्रक्रिया

वहँ (प्रापणे,भ्वादिः, <{1.1159}>)

→ वह् + क्त [निष्ठा 3.2.102 इति क्त-प्रत्ययः]

→ वढ् + त [हो ढः 8.2.31 इति ढत्वम् । अन्तरङ्गत्वात् इदम् सम्प्रसारणात् पूर्वम् भवति ।]

→ वढ् + ध [झषस्तथोर्धोऽधः 8.2.40 इति धत्वम्]

→ वढ् + ढ [ष्टुना ष्टुः 8.4.41 इति ढत्वम्]

→ व + ढ [ढो ढे लोपः8.3.13 इति ढकारलोपः]

→‌ वो + ढ [अत्र वचिस्वपियजादीनां किति 6.1.15 तथा च सहिवहोरोदवर्णस्य 6.3.112 इत्येतयोः युगपत् प्राप्तौ विप्रतिषेधे परं कार्यम् 1.4.2 इत्यनेन परत्वात् इ_सहिवहोरोदवर्णस्य_ 6.3.112 इत्येव प्रवर्तते ।]

→ उ ओ ढ [<!पुनःप्रसङ्गविज्ञानात् सिद्धम्!> इति परिभाषया पूर्वम् प्रतिषिद्धम् सम्प्रसारणम् अस्मिन् सोपाने प्रवर्तते । अतः अत्र वचिस्वपियजादीनां किति 6.1.15 इत्यनेन वकारस्य सम्प्रसारणे उकारः सिद्ध्यति ]

→ उढ [सम्प्रसारणाच्च 6.1.108 इति उकार-ओकारयोः पूर्वरूपैकादेशः उकारः]

→ ऊढ [ढ्रलोपे पूर्वस्य दीर्घोऽणः 6.3.111 इति अण्-वर्णस्य दीर्घादेशः । अत्र <ऽलक्ष्ये लक्षणं सकृदेव प्रवर्ततेऽ> इति न्यायेन पुनः सहिवहोरोदवर्णस्य 6.3.112 इति सूत्रम् वह्-धातोः विषये न प्रवर्तते, अतः अत्र ढ्रलोपे पूर्वस्य दीर्घोऽणः 6.3.111 इत्यस्यैव प्रसक्तिः अस्ति ।]

अनेन प्रकारेण अत्र अवर्णस्य किमपि प्रयोजनं न वर्तते इति उक्त्वा भाष्यकारेण प्रकृतसूत्रात् अवर्णस्य इत्यस्य प्रत्याख्यानं कृतम् अस्ति । अस्मिन् सन्दर्भे अधिकं पिपठिषवः प्रकृतसूत्रस्य भाष्यम्, एवमेव <ऽयस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यम्ऽ> (परिभाषा-47) इति परिभाषाम् अपि पश्येयुः ।

  1. अवर्णस्य इत्यत्र वर्णग्रहणम् किमर्थम् ?अवर्णस्य इत्यत्र वर्णग्रहणेन अकारेण सह अत्र आकारस्य अपि ग्रहणं भवति । अतः यत्र प्रक्रियायाम् अकारस्य स्थाने वृद्धिं कृत्वा आकारः विधीयते, तत्र तस्य अपि प्रकृतसूत्रेण ओकारादेशः सम्भवति । यथा, वह्-धातोः लुङ्लकारस्य परस्मैपदस्य मध्यमपुरुषद्विवचनस्य प्रक्रियायाम् वदव्रजहलन्तस्याचः 7.2.3 इत्यनेन अकारस्य वृद्धौ आकारादेशे कृते, तस्य प्रकृतसूत्रेण अग्रे अवश्यम् ओकारादेशः भवति —

वहँ (प्रापणे,भ्वादिः, <{1.1159}>)

→ वह् + लुङ् [लुङ् 3.2.110 इति लुङ्-प्रत्ययः]

→ अट् + वह् + लुङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]

→ अ + वह् + च्लि + लुङ् [च्लि लुङि 3.1.43 इति च्लि-विकरणप्रत्ययः]

→ अ + वह् + सिच् + लुङ् [च्लेः सिच् 3.1.44 इति सिच्-आदेशः]

→ अ + वह् + स् + लुङ् [चकारस्य इत्संज्ञा, लोपः । सकारोत्तरः इकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]

→ अ + वह् + स् + थ [तिप्तस्झि.. 3.4.78 इति परस्मैपदस्य मध्यमपुरुषबहुवचनस्य त-प्रत्ययः]

→ अ + वह् + स् + त [तस्थस्थमिपां तांतंतामः 3.4.101 इति थ-प्रत्ययस्य तकारादेशः]

→ अ + वाह् + स् + त [वदव्रजहलन्तस्याचः 7.2.3 इत्यनेन अङ्गस्य अच्-वर्णस्य वृद्धिः । अकारस्य वृद्धिः आकारः]

→ अ +वाह् + त [झलो झलि 8.2.26 इति सकारलोपः]

→ अ + वाढ् + त [हो ढः 8.2.31 इति ढत्वम्]

→ अ + वाढ् + ध [झषस्तथोर्धोऽधः 8.2.40 इति धत्वम्]

→ अ + वाढ् + ढ [ष्टुना ष्टुः 8.4.41 इति ढत्वम्]

→ अ + वा + ढ [ढो ढे लोपः8.3.13 इति ढकारलोपः]

→ अवोढ [ढ्रलोपे पूर्वस्य दीर्घोणः 6.3.111 इत्यनेन अकारस्य दीर्घे प्राप्ते अपवादत्वेन सहिवहोरोदवर्णस्य 6.3.112 इति वह्-धातोः सकारात् परस्य आकारस्य ओकारादेशः]

  1. ओत् इत्यत्र तकारग्रहणम् किमर्थम् ? — ओत् इत्यत्र तकारग्रहणम् उच्चारणार्थम् अस्ति । सवर्णग्रहणनियमार्थम् अत्र तकारः नैव प्रयुज्यते, यतः अकारेण अवश्यम् सवर्णग्रहणम् इष्यते, ओकारश्च विधीयमानः अस्ति अतः तेन सवर्णग्रहणं नैव सम्भवति ।

बाध्यबाधकभावः

सह् तथा वह् धात्वोः अकारस्य ढ्रलोपे पूर्वस्य दीर्घोऽणः 6.3.111 इत्यनेन प्राप्तं दीर्घं बाधित्वा प्रकृतसूत्रेण ओकारादेशः भवति । अतः प्रकृतसूत्रम् ढ्रलोपे पूर्वस्य दीर्घोऽणः 6.3.111 इत्यस्य अपवादरूपेण प्रवर्तते ।

<b>ढो ढे लोपः</b> <a href="8.3.13.html">8.3.13</a> इत्यस्य आश्रयात् सिद्धत्वम्

यद्यपि एतत् सूत्रम् सपादसप्ताध्याय्याम् विद्यते, तथापि अस्य सूत्रस्य प्रसक्तिः केवलं ढो ढे लोपः 8.3.13 इत्यस्मात् अनन्तरम् एव विद्यते । अतः प्रकृतसूत्रस्य कृते ढो ढे लोपः 8.3.13 इति त्रिपादीसूत्रम् आश्रयात् सिद्धम् ज्ञेयम् ।

Balamanorama

Up

index: 6.3.112 sutra: सहिवहोरोदवर्णस्य


सहिवहोरोदवर्णस्य - सहिवहोः । ढलोपे इति । 'ढ्रलोप' इत्यतस्तदनुवृत्तेरिति भावः । 'रलोप' इति तु नानुवर्तते, असंभवात् । तथा चसकारादकारस्य ओत्वे सोढेति रूपम् ।परिसोढे॑त्यत्र 'परिनिविभ्य' इति षत्वे प्राप्ते —

Padamanjari

Up

index: 6.3.112 sutra: सहिवहोरोदवर्णस्य


ऊढ इति । अत्रासत्यावर्णग्रहणे वह् - त इति स्थिते न तावदोत्वं ढलोपनिमित्त्व्अत् । अत्र एपूर्वत्रासिद्धम् इति ढत्वादीनामसिद्धत्वात्पूर्वं यजादित्वात्सम्प्रसारणम्, तस्मिन्कृते पूर्वत्वे वोकारस्योत्वं प्राप्नोति । भाष्वे त्वावर्णग्रहणं प्रत्याख्यातम् । अन्तरङ्गणि ढत्वादीनि, वर्णाश्रयत्वात् बहिरङ्गं सम्प्रसारण्, प्रत्ययविशेषत्वातस्याप्यसिद्धत्वात् पूर्वत्रासिद्धम् इत्यस्यानुपस्थानम् । यद्वा - ढलोपस्यौत्वदीर्घविधौ निमितत्वेनाश्रयणादत्र विषये ढत्वादीनामसिद्धत्वं नास्ति, ततः प्रागेव सम्प्रसारणात्परत्वात् ढत्वादिषु कृतेषु वढ इति स्थिते सम्प्रसारणं च प्राप्नोति, ओत्वं च परत्वादोत्वम्, ततः सम्प्रसारणम् । पूर्वत्वं च न पुनरोत्वम्, तस्मन्नेव प्रयोगे कृतत्वातदभावे निमितसद्भावाद् दीर्घत्वं प्रवर्तिष्यत इति । वर्णग्रहणं किमिति । ओदस्येति वक्तव्यमिति प्रश्नः । कृतायामपीत्यादि । उत्पूर्वाद्वहेर्लुङ् तामाइदिषु सिचि वृद्धौ सलोपढत्वादीनि । तत्रेदानीमसति वर्णग्रहणे मात्रिकस्योच्यमानो दीर्घस्य न स्यात । नन्ववर्णः सवर्णान् गृह्णातीत्याकारस्यापि ग्रहणं भवति तत्राह - तादपि परस्तपर इति । इदमेव वर्णग्रहणं लिङ्गं तपरस्तत्कालस्य इत्यत्र पञ्चमीसमासोऽप्याश्रीयत इति । तेनैतन्न चोदनीयम् - सहिवहोरस्यैत् इत्येवं कस्मान्न कृतमिति ॥