8-3-65 उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः प्राक् सितात् अड्व्यवाये अपि च अभ्यासस्य
मूर्धन्य इति वर्तते, स इति च। उपसर्गस्थाद् निमित्तादुत्तरस्य सुनोति सुवति स्यति स्तौति स्तोभति स्था सेनय सेध सिच सञ्ज स्वञ्ज इत्येतेषां सकारस्य मूर्धन्यादेशो भवति। सुनोति — अभिषुणोति। परिषुणोति। अभ्यषुणोत्। पर्यषुणोत्। सुवति — अभिषुवति। परिषुवति। अभ्यषुवत्। पर्यषुवत्। स्यति — अभिष्यति। परिष्यति। अभ्यष्यत्। पर्यष्यत्। स्तौति — अभिष्टौति। परिष्टौति। अभ्यष्टौत्। पर्यष्टौत्। स्तोभति — अभिष्टोभते। परिष्टोभते। अभ्यष्टोभत। पर्यष्टोभत। स्था — अभिष्ठास्यति। परिष्ठास्यति। अभ्यष्ठात्। पर्यष्ठात्। अभितष्ठौ। परितष्ठौ। सेनय — अभिषेणयति। परिषेणयति। अभ्यषेणयत्। पर्यषेणयत्। अभिषिषेणयिषति। परिषिषेणयिषति। सेध — अभिषेधति। परिषेधति। अभ्यषेधत्। पर्यषेधत्। सिच — अभिषिञ्चति। परिषिञ्चति। अभ्यषिञ्चत्। पर्यषिञ्चत्। अभिषिषिक्षति। परिषिषिक्षति। सञ्ज — अभिषजति। परिषजति। अभ्यषजत्। पर्यषजत्। अभिषिषङ्क्षति। परिषिषङ्क्षति। स्वञ्ज — अभिष्वजते। परिष्वजते। अभ्यष्वजत। पर्यष्वजत। अभिषिष्वङ्क्षते। परिषिष्वङ्क्षते। सेध इति शब्विकरणनिर्देशः सिध्यतिनिवृत्त्यर्थः। उपसर्गादिति किम्? दधि सिञ्चति। मधु सिञ्चति। निर्गताः सेचका अस्माद् देशाद् निःसेचको देश इति नायं सिचेरुपसर्गः। अभिसावकीयतीत्यत्रापि न सुनोतिं प्रति क्रियायोगः। किं तर्हि? सावकीयं प्रति। अभिषावयतीत्यत्र तु सुनोतिमेव प्रति क्रियायोगो न सावयतिं प्रतीति षत्वं भवति॥
उपसर्गस्थान्निमित्तादेषां सस्य षः स्यात् ॥
<<उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनय- सेधसिचसञ्जस्वञ्जाम्>> - उपसर्गात्सुनोति । उपसर्गस्तादिति । उपसर्गशब्द उपसर्गस्थे लाक्षणिक इतिभावः । निमित्तादिति । इण्रूपादित्यर्थ- ।इण्को॑रित्यधिकारेऽपि कोरिति नात्र संबध्यते, असंभवात् । सस्येति । 'सहेः साडः स' इत्यतः स इति षष्ठन्तमनुवर्तत इति भावः । षः स्यादिति ।अपदान्तस्य मूर्धन्य॑ इत्यधिकारादिति भावः । अत्र सुनोतीत्यादिः श्तिपा निर्देशो यङ्लुङ्निवृत्त्यर्थ इति प्राञ्चः । स्पष्टार्थ इति प्रौढमनोरमायाम् । सेनयेति णिजन्तो नामधातुः । सेधतीति शपा निर्देशात्सिध्यतेर्न ग्रहणम् । अभिषुणोतीत्याद्युदाहरणम् । प्रकृते निषेधतीत्याद्यर्थमिह सूत्रोपन्यास ।