सेधतेर्गतौ

8-3-113 सेधतेः गतौ पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः

Kashika

Up

index: 8.3.113 sutra: सेधतेर्गतौ


गतौ वर्तमानस्य सेधतेः सकारस्य मूर्धन्यादेशो न भवति। अभिसेधयति गाः। परिसेधयति गाः। गतौ इति किम्? शिष्यमकार्यात् प्रतिषेधयति।

Siddhanta Kaumudi

Up

index: 8.3.113 sutra: सेधतेर्गतौ


गत्यर्थस्य सेधतेः षत्वं न स्यात् । गङ्गां विसेधति ।{$ {!48 षिधू!} शास्त्रे माङ्गल्ये च$} । शास्त्रं शासनम् ॥

Balamanorama

Up

index: 8.3.113 sutra: सेधतेर्गतौ


सेधतेर्गतौ - सात्पदाद्योः । शेषपूरणेन सूत्रं व्याचष्टे — सस्य षत्वं न स्यादिति । सातेरवयवस्य, पदादेश्च सस्य षत्वं न स्यादित्यर्थः ।न रपरसृपी॑त्यतो नेति,अपदान्तस्ये॑त्यतो 'मूर्धन्य' इति चानुवर्तत इति भावः । पदादेरुदाहरति — दधि सिञ्चतीति । षिचिधातोः 'धात्वादेः षः सः' इति षस्य सः । तस्यआदेशप्रत्यययो॑रिति षत्वे प्राप्ते ।ञनेन निषेधः । कृत्स्नमिति । सर्वावयवोपेतमित्यर्थः ।अग्निसा॑दित्यत्र प्रत्ययावयवसकारत्वात् षत्वे प्राप्तेऽनेन निषेधः । अग्नीभवतीति । च्विप्रत्ययेच्वौ चे ति दीर्घः । महाविभाषयेति ।समर्थाना॑मित्यतो वाग्रहणानुवृत्तेरित्यर्थः । माहाविभाषया सिद्धे इह विभाषाग्रहणं तु अपवादेन मुक्ते औत्सर्गिकच्वेः समावेशार्थम् ।

Padamanjari

Up

index: 8.3.113 sutra: सेधतेर्गतौ


सोड्भूतो गृह्यते इति । निष्ठान्तस्य प्रथमया निर्देशशङ्कामपाकरोति । परिसोञेति ।'परिनिविभ्यः' इति प्राप्ते प्रतिषेधः ॥