प्रथमयोः पूर्वसवर्णः

6-1-102 प्रथमयोः पूर्वसवर्णः संहितायाम् अचि एकः पूर्वपरयोः अकः दीर्घः

Sampurna sutra

Up

अकः प्रथमयोः अचि पूर्वपरयोः एकः पूर्वसवर्णः दीर्घः

Neelesh Sanskrit Brief

Up

अक्-वर्णात् प्रथमा-द्वितीया-विभक्त्योः अजादि प्रत्यये परे पूर्वपरयोः एकः पूर्वसवर्णदीर्घः भवति ।

Neelesh English Brief

Up

When a letter from the अक् प्रत्याहार is followed by an अजादि प्रत्यय of प्रथमा or द्वितीया विभक्ति, then पूर्व and the पर letters are replaced by a single पूर्वसवर्णदीर्घ.

Kashika

Up

अक इति दीर्घ इति वर्तते। प्रथमाशब्दो विभक्तिविशेषे रूढः, तत्साहचर्याद् द्वितीयापि प्रथमेत्युक्त ा। तस्यां प्रथमायां द्वितीयायां च विभक्त ावचि अकः पूर्वपरयोः स्थाने पूर्वसवर्णदीर्घ एकादेशो भवति। अग्नी। वायू। वृक्षाः। प्लक्षाः। वृक्षान्। प्लक्षान्। <<अतो गुणे>> ६.१.९७ इति यदकारे पररूपं तदकः सवर्णे दीर्घत्वमेव बाधते, न तु पूर्वसवर्णदीर्घत्वम् — <<पुरस्तादपवादा अनन्तरान् विधीन् बाधन्ते॰>> (परि॰ ५९) इति। अचीत्येव — वृक्षः। प्लक्षः। अक इत्येव — नावौ। पूर्वसवर्णग्रहणं किम् ? अग्नी इत्यत्र पक्षे परसवर्णो मा भूत्। दीर्घग्रहणं किम् ? त्रिमात्रे स्थानिनि त्रिमात्रादेशनिवृत्त्यर्थम्॥

Siddhanta Kaumudi

Up

अकः प्रथमाद्वितीययोरचि परे पूर्वसवर्णदीर्घ एकादेशः स्यात् । इति प्राप्ते ॥

Laghu Siddhanta Kaumudi

Up

अकः प्रथमाद्वितीययोरचि पूर्वसवर्णदीर्घ एकादेशः स्यात्। इति प्राप्ते॥

Neelesh Sanskrit Detailed

Up

<<स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्>> 4.1.2 इति सूत्रेण प्रथमाविभक्तेः द्वितीयाविभक्तेः च प्रत्येकं त्रयः त्रयः प्रत्ययाः विधीयन्ते । एतेषु औट्, शस्, अम्, ओ, जस् - एते पञ्च प्रत्ययाः अजादयः सन्ति । एतेभ्यः पञ्चभ्यः प्रत्ययेभ्यः कश्चन प्रत्ययः अक्-वर्णान्त-शब्दात् विधीयते चेत् सुबन्तप्रक्रियायाम् अक्-वर्णस्य प्रत्ययादिवर्णेन सह पूर्वसवर्णदीर्घादेशः भवति । अस्य सूत्रस्य प्रयोगः केवलम् अक्-वर्णान्तशब्दानाम् प्रथमा-द्वितीया-विभक्त्योः प्रक्रियायाम् एव भवति । सोदाहरणम् परिगणनम् एतादृशम् — 1. अकारान्तशब्दाः — अकारान्तशब्देभ्यः जस्/शस्-प्रत्यये परे <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्यनेन पूर्वसवर्णदीर्घैकादेशे कृते रूपं सिद्ध्यति । यथा — बाल + जस् [प्रथमाबहुवचनस्य प्रत्ययः] → बाल + अस् [<<चुटू>> 1.3.7 इत्यनेन जकारस्य इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः] → बालास् [<<अकः सवर्णे दीर्घः>> 6.1.101 इत्यनेन सवर्णदीर्घे प्राप्ते, तं परत्वात् बाधित्वा <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इति पूर्वसवर्णदीर्घः आकारः भवति ।] → बालारुँ [<<ससजुषोः रुँः>> 8.2.66 इति रुँत्वम्] → बालाः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] एवमेव शस्-प्रत्यये परे अपि पूर्वसवर्णदीर्घे कृते, ततः <<तस्माच्छसो नः पुंसि>> 6.1.103 इति नकारादेशं कृत्वा 'बालान्' इति रूपं सिद्ध्यति । 2. आकारान्तशब्दाः — आकारान्तशब्देभ्यः शस्-प्रत्यये परे <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्यनेन पूर्वसवर्णदीर्घैकादेशे कृते रूपं सिद्ध्यति । यथा — माला + शस् [द्वितीयाबहुवचनस्य प्रत्ययः] → माला + अस् [<<लशक्वतद्धिते>> 1.3.7 इत्यनेन शकारस्य इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः] → मालास् [<<अकः सवर्णे दीर्घः>> 6.1.101 इत्यनेन सवर्णदीर्घे प्राप्ते, तं परत्वात् बाधित्वा <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इति पूर्वसवर्णदीर्घः आकारः भवति ।] → मालारुँ [<<ससजुषोः रुँः>> 8.2.66 इति रुँत्वम्] → मालाः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] एवमेव, हाहा इति आकारान्तपुंलिङ्गशब्दस्य विषये अपि शस्-प्रत्यये परे <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इति पूर्वसवर्णदीर्घे कृते, ततः <<तस्माच्छसो नः पुंसि>> 6.1.103 इति नकारादेशं कृत्वा हाहान् इति रूपं सिद्ध्यति । आकारान्तशब्दानाम् विषये प्रथमैकवचनस्य जस्-प्रत्यये परे <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते, <<दीर्घाज्जसि च>> 6.1.105 इत्यनेन तस्य निषेधः भवति, अतः जस्-प्रत्ययस्य विषये प्रकृतसूत्रं न प्रवर्तते । 3. इकारान्तशब्दाः / उकारान्तशब्दाः — इकारान्तशब्देभ्यः / उकारान्तशब्देभ्यः औ/औट्/शस्-प्रत्ययेषु परेषु <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्यनेन पूर्वसवर्णदीर्घैकादेशे कृते रूपं सिद्ध्यति । यथा — मति + औ [प्रथमाद्विवचनस्य प्रत्ययः] → मती [<<इको यणचि>> 6.1.77 इत्यनेन यणादेशे प्राप्ते तद्बाधित्वा <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इति पूर्वसवर्णदीर्घः ईकारः भवति ।] एवमेव मुनी, साधू, धेनू - एतानि औ/औट्-प्रत्ययान्तरूपाणि ; मतीः, धेनूः, मुनीन्, साधून् - एतानि शस्-प्रत्ययान्तरूपाणि सिद्ध्यन्ति । 4. ईकारान्तशब्दाः / ऊकारान्तशब्दाः — ईकारान्तशब्देभ्यः / ऊकारान्तशब्देभ्यः शस्-प्रत्यये परे <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्यनेन पूर्वसवर्णदीर्घैकादेशे कृते रूपं सिद्ध्यति । यथा — नदी + शस् [द्वितीयाबहुवचनस्य प्रत्ययः] → नदी + अस् [<<लशक्वतद्धिते>> 1.3.7 इत्यनेन शकारस्य इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः] → नदीस् [<<इको यणचि>> 6.1.77 इत्यनेन यणादेशे प्राप्ते तद्बाधित्वा <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इति पूर्वसवर्णदीर्घः ईकारः भवति ।] → नदीरुँ [<<ससजुषोः रुँः>> 8.2.66 इति रुँत्वम्] → नदीः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] एवमेव वधू इति ऊकारान्तस्त्रीलिङ्गशब्दस्य द्वितीयाबहुवचस्य रूपे अपि <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्यनेन पूर्वसवर्णदीर्घैकादेशे कृते वधूः इति रूपं सिद्ध्यति । हुहू इति ऊकारान्तपुंलिङ्गशब्दस्य द्वितीयाबहुवचस्य रूपे अपि <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्यनेन पूर्वसवर्णदीर्घैकादेशे कृते, तथा च ततः <<तस्माच्छसो नः पुंसि>> 6.1.103 इति नकारादेशं कृत्वा हाहान् इति रूपं सिद्ध्यति । 5. ऋकारान्तशब्दाः — ऋकारान्तशब्देभ्यः शस्-प्रत्यये परे <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्यनेन पूर्वसवर्णदीर्घैकादेशे कृते रूपं सिद्ध्यति । यथा — मातृ + शस् [द्वितीयाबहुवचनस्य प्रत्ययः] → मातृ + अस् [<<लशक्वतद्धिते>> 1.3.7 इत्यनेन शकारस्य इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः] → मातॄस् [<<इको यणचि>> 6.1.77 इत्यनेन यणादेशे प्राप्ते तद्बाधित्वा <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इति पूर्वसवर्णदीर्घः ईकारः भवति ।] → मातॄरुँ [<<ससजुषोः रुँः>> 8.2.66 इति रुँत्वम्] → मातॄः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] एवमेव पितृ इति ऋकारान्तपुंलिङ्गशब्दस्य द्वितीयाबहुवचस्य रूपे अपि <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्यनेन पूर्वसवर्णदीर्घैकादेशे कृते ततः <<तस्माच्छसो नः पुंसि>> 6.1.103 इति नकारादेशं कृत्वा पितॄन् इति रूपं सिद्ध्यति । <<प्रथमयोः पूर्वसवर्णः>> तथा च <<अतो गुणे>> एतयोर्मध्ये बाध्यबाधकभावः <<अतो गुणे>> 6.1.97 इति सूत्रस्य अवकाशः <<वृद्धिरेचि>> 6.1.88, <<अकः सवर्णे दीर्घः>> 6.1.101 तथा च <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इति त्रिभिः सूत्रैः सम्पूर्णरूपेण विनश्यति । अतः <<अतो गुणे>> 6.1.97 इति सूत्रम् <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इति सूत्रस्य अपवादरूपेण अवश्यं स्वीक्रियते । परन्तु <<पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्>> इति परिभाषायाः सामर्थ्यात् अयम् अपवादः <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्येतम् उत्सर्गम् बाधितुं नैव शक्नोति । अतएव बाल + जस् इत्यत्र <<अतो गुणे>> 6.1.97 तथा च <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्येतयोः युगपत् प्राप्तौ सत्याम् अपि <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इति उत्सर्गसूत्रमेव प्रवर्तते, येन पूर्वसवर्णदीर्घं कृत्वा इष्टरूपं सिद्ध्यति । <<प्रथमयोः पूर्वसवर्णः>> तथा च <<अकः सवर्णे दीर्घः>> एतयोर्मध्ये बाध्यबाधकभावः <<इको यणचि>> 6.177 इत्यस्य अपवादरूपेण प्रवर्तमानयोः <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 तथा च <<अकः सवर्णे दीर्घः>> 6.1.101 एतयोः सूत्रयोः मध्ये तुल्यबलत्वम्, अतश्च विप्रतिषेधः अस्ति । तदित्थम् — 1. पपी + ङि इत्यत्र <<इको यणचि>> 6.177 इत्यनेन यणादेशे प्राप्ते तद्बाधित्वा <<अकः सवर्णे दीर्घः>> 6.1.101 इत्यनेन सवर्णदीर्घः भवति । अत्र <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्यस्य तु प्राप्तिरेव नास्ति । 2. मुनि + औ इत्यत्र <<इको यणचि>> 6.177 इत्यनेन यणादेशे प्राप्ते तद्बाधित्वा <<प्रथमयोः पूर्वसवर्णः>> 6.1.101 इत्यनेन पूर्वसवर्णदीर्घः भवति । अत्र <<अकः सवर्णे दीर्घः>> 6.1.101 इत्यस्य तु प्राप्तिरेव नास्ति । 3. राम + जस् इत्यत्र <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 तथा च <<अकः सवर्णे दीर्घः>> 6.1.101 इति द्वे अपि सूत्रे युगपत् प्रवर्तेते । अस्यां स्थितौ <<विप्रतिषेधे परं कार्यम्>> 1.4.2 इत्यनेन परत्वात् <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्यस्यैव प्रयोगः भवति । दलकृत्यम् 1. प्रथमयोः इति किमर्थम् ? — अत्र प्रयुक्तः 'प्रथमयोः' इति शब्दः 'प्रथमायाः द्वितीयायाः च' अस्मिन् अर्थे प्रयुक्तः अस्ति । प्रथमाविभक्तेः द्वितीयाविभक्तेः च प्रत्ययानां विषये एव इदं सूत्रम् प्रवर्तते इति अत्र आशयः । 2. अकः इति किमर्थम् ? — शब्दस्य अन्ते 'अक्' वर्णः नास्ति चेत् प्रकृतसूत्रम् न प्रवर्तते । यथा, नौ + शस् इत्यत्र प्रकृतसूत्रस्य प्रयोगः न भवति ।

Balamanorama

Up

<<प्रथमयोः पूर्वसवर्णः>> - शिव उ अच्र्य इति स्थिते-प्रथमयोः । 'अकः सवर्णे' इत्यतोऽक इति, इको यणचीत्यतोऽचीति चानुवर्तते ।एकः पूर्वपरयो॑रित्यधिकृतम् । प्रथमयोरित्यवयवषष्ठी । प्रथमाद्वितीये सुब्विभक्ती विवक्षिते । तदाह — अकः प्रथमेत्यादिना । इति प्राप्त इति । शिव — उ इत्यत्र अकारस्य उकारस्य च स्थाने पूर्वसवर्णे आकारे प्राप्त इत्यर्थः ।

Padamanjari

Up

प्रथमाशब्दो विभक्तिविशेषे रूढ इति। सुपामाद्यत्रिके'सपूर्वायाः प्रथमायाः' 'सप्तमीपञ्चमीप्रथमाभ्यः' इत्यादौ तस्यैव ग्रहणात्। ननु च स्त्रीलिङ्गः प्रथमाशब्दस्तत्र रूढः, न चास्य स्त्रीलिङ्गत्वे प्रमाणमस्ति, प्रत्युत प्रथमशब्दस्तिङं त्रिकद्वयेऽस्मिन्नेव शास्त्रे संज्ञात्वेन विनियुक्तं इति तस्यैव ग्रहणं युक्तम्; ततश्च पचति, पचतः, पचन्ति, पचते, पचेते, पचन्ते, चकार, चक्रतुः, चक्रुः; चक्रे, चक्राते, चक्रिरे - इत्यादौ यथाप्राप्तविध्यन्तरबाधेनायं विधिर्युक्तः। किञ्चैव सति मुख्येऽपि प्रथमशब्दे'प्रथमयोः' इति द्विवचनमुपपद्यते, आत्मनेपदपरस्मैपदभेदेन प्रथमस्य भेदात्? उच्यते; एवं सति द्विवचननिर्देशोऽनर्थकः;'लुटः प्रथमस्य' इत्यादिवत्सिद्धत्वात्। यद्वा -'वा सुप्यापिशलेः' इत्यतः सुपीत्यनुवर्तयिष्यते, तेन सुप एव प्रथमस्य ग्रहणम्, लिङ्गाच्च, किं लिङ्गम्?'दीर्घाज्जसि च' 'तस्माच्छसो नः पुंसि' इति। अत एवल लिङ्गात्सुपामप्यादितः प्रथमयोर्द्वयोर्ग्रहणं भवति, अचीत्यधिकाराच्च, न हि सुरजादिः। सुरपि कुण्डं तिष्ठतीत्यदावजादिः ? नात्रायं विधिः प्राप्नोति, कारणम् ? अमि पूर्वत्वेन बाध्यते। तस्मात् स्त्रीलिङ्गस्य ग्रहणमिति स्थितम्। तत्साहचर्याद् द्वितीयापि प्रथमेत्युक्तेति। द्विवचनं चात्र प्रमाणम्। ननु सकृच्छ्4%अतः शब्दो मुख्यवृत्तिरेव वा भवति, जघन्यवृत्तिरेव वा, न पुनरुभयवृत्ति ? प्रथणाद्वितीयासमुदाये जघन्यवृत्तिरेवायम्, स च समुदाय उद्भूतावयवभेद इति द्विवचनोपपतिः, यथा - च्छत्रिणो गच्छन्तीति। वृक्षाः, प्लक्षा इति। नन्वत्रापि ठतो गुणेऽ इति पररूपेण भवितव्यम्, नाप्राप्ते विध्यन्तरे तस्यारम्भात्। स्यादेतत् - प्रथमयोरित्येतदपि दीर्घत्वं नाप्राप्ते विध्यन्तरे आरभ्यमाणमग्नी इत्यादौ यथा बाधते, तथा पररूपमपि बाधिष्यते इति? तत्र, स्वरसन्धिषु गुणयावुत्सर्गौ, वृद्धिः सवर्णदीर्घत्वं पूर्वसवर्णादेशश्च तयोरपवादा इति द्वितीयकक्षाप्राप्ताः, पररूपं तु तृतीयकक्षाप्राप्तमिति तदेव प्राप्नोति। एवं तर्हि योगविभागः करिष्यते - प्रथमयोरिति, अकः सवर्ण इत्येव, तेन वृक्षा इत्यादौ पररूपं बाधित्वा प्रथमयोरकः सवर्णो दीर्घत्वं भविष्यति; यथैव तर्हि योगविभागः पररूपं बाधते, तथा वृक्षमित्यादावमि पूर्वमपि बाधेत, तस्य त्वग्निमित्यादिरवकाशः? नैष दोषःः; ठमि पूर्वःऽ इत्यत्रामीति योगविभागेन प्राप्तं दीर्घत्वमपि न भवतीत्यर्थः। एवमपि'तस्माच्छसो नः पुंसि' इत्यत्र तच्छब्देनानन्तरो दीर्घः परमृश्यते, एतान् गाश्चरतो बलीवर्द्दान्पस्य इत्यत्र ठौतोम्शसोःऽ इत्येकादेशान्मा भूदिति, ततः किम् ? योगविबागे क्रियमाणे अग्नीन्, वायुनित्यादावेव नत्वं स्यात्, न तु वृक्षानित्यादौ यत्र प्रथमयोरिति योगविभागाद् दीर्घो विधीयते ? अयमप्यदोषः; तस्मादित्यनेनाक्स्थानिको दीर्घः परामृश्यते, नानन्तरः, नापि दीर्घमात्रम्, एतच्चाक इत्यनुवृतेर्लभ्यते। मा भूद्वा योगविभागः - प्रथमयोरिति। ननु चोक्तम् - वृक्षा इत्यादौ पररूपप्रसङ्ग इति? नैष दोषः; आचार्यप्रवृत्तिर्ज्ञापयति - न जस्सासोः पररूपं भवतीति, यदयं'नादिचि' इतीज्ग्रहणं करोति; अन्यथा अवर्णान्तस्य नास्त्येव दीर्घप्रसङ्ग इतिक किमिज्ग्रहणेन? केवलोतरार्थे हि तस्मिंस्तत्रैव कर्तव्यं स्यात्। यद्वा -'दीर्घाच्छसि' इत्येव ब्रूयात्, किमर्थमिदम्? नीयमार्थम् - दीर्घाच्छस्येवेति। तेन जस्शसोर्न भविष्यति। वृत्तिकारस्तु यथोक्ते परिहारे प्रतिपतिगौरवप्रसङगन्यायतः परिहारमाहातो गुण इति यदकारे पररूपमित्यादि। न्यायं दर्शति - पुरस्तुदिति। इतिकरणो हेतौ ॥ अग्नी इत्यत्रेति। असति हि पूर्वग्रहणे पूर्वसमुदायस्य स्थानिनोऽन्तरतमस्य दीर्घस्याभावादवयवान्तरतमो भवन् पूर्वस्यैवेति नियमकारणाभावात्परसवर्णोऽपि स्यात्, ततस्तन्निवृत्यर्थम्। पूर्वग्रहणं तु विप्रतिषेधनिराकरणार्थम्; अन्यथा अग्नी इत्यत्र विप्रतिषिद्धमापद्यते। कथम्?'दीर्घः' इति वर्तते, यदि पूर्वो न दीर्घः, यदि दीर्घो न पूर्वः। ननु दीर्घग्रहणानुवृत्तिसामर्थ्यात् पूर्वशब्देन पूर्वाकृतिर्ग्रहीप्यते ? कथं पुनः सामर्थ्यम्, यावता यत्र पूर्वव्यक्तिर्दीर्घभूता - कुमारीः पश्य, भस्त्राः पश्येत्यादौ तत्रैव यथा स्यात्, अग्नी इत्यादौ मा भूदित्येवमर्था दीर्घानुवृत्तिः स्यात्? यद्येतावत्प्रयोजनं स्याद्-ठ्दीर्घाच्छसि पूर्वोऽमि चऽ इति ब्रूयात्; यतस्तु वलु प्रथमयोरित्यारभ्यते ततो ज्ञायते - न केवलं कुमारीः पश्येत्यादौ दीर्घस्यैव प्रथमयोरित्यनेन दीर्घो विधित्सितः, किं तर्हि? अग्नी इत्यादावपीति, तच्चाकृतिविवक्षायामुपपद्यते ? सत्यम्; तदेव सवर्णग्रहणेनापि विस्पष्टीक्रियते - त्रिमात्रे स्तानिनि त्रिमात्रादेशनिवृत्यर्थमिति। आन्तरतस्यात् त्रिमात्र एव प्राप्नोति। यत्र प्लुताप्लुतप्रसङ्गः स एव'प्लुतश्च विषये स्मृतः' इत्यस्य विषयः, इह तु प्लुतस्यैव प्रसङ्ग इति नायमस्य विषयः ॥