आद्गुणः

6-1-87 आद् गुणः संहितायाम् अचि एकः पूर्वपरयोः

Sampurna sutra

Up

index: 6.1.87 sutra: आद्गुणः


आद् अचि पूर्वपरयोः एकः गुणः

Neelesh Sanskrit Brief

Up

index: 6.1.87 sutra: आद्गुणः


अवर्णात् अच्-वर्णे परे संहितायाम् पूर्वपरयोः एकः गुणः आदेशः भवति ।

Neelesh English Brief

Up

index: 6.1.87 sutra: आद्गुणः


When an अवर्ण is followed by an अच् letter in the context of संहिता, both of them are replaced by a single गुण letter

Kashika

Up

index: 6.1.87 sutra: आद्गुणः


अचि इत्यनुवर्तते। अवर्णात्परो योऽच् च पूर्वो योऽवर्णः तयोः पूर्वपरयोः अवर्णाचोः स्थाने एको गुण आदेशो भवति। तवेदम्। खट्वेन्द्रः। मालेन्द्रः। तवेहते। खट्वेहते। तवोदकम्। खट्वोदकम्। तवर्श्यः। खट्वर्श्यः। तवल्कारः। खट्वल्कारः। लृकारस्य स्थाने योऽने योऽण् तस्य लप्रत्वम् इष्यते।

Siddhanta Kaumudi

Up

index: 6.1.87 sutra: आद्गुणः


अवर्णादचि परे पूर्वपरयोरेको गुण आदेशः स्यात्संहितायाम् । उपेन्द्रः । रमेशः । गङ्गोदकम् ॥

Laghu Siddhanta Kaumudi

Up

index: 6.1.87 sutra: आद्गुणः


अवर्णादचि परे पूर्वपरयोरेको गुण आदेशः स्यात्। उपेन्द्रः। गङ्गोदकम्॥

Neelesh Sanskrit Detailed

Up

index: 6.1.87 sutra: आद्गुणः


अवर्णात् (अकारात् / आकारात्) संहितायाम् स्वरः विद्यते चेत् उभयोः गुणैकादेशः भवति । इत्युक्ते, 'गुण' इति संज्ञया निर्दिष्टः वर्णः आदेशरूपेण अत्र विधीयते ।

अष्टाध्याय्यां अदेङ् गुणः 1.1.2 इत्यनेन अकार-एकार-ओकाराणाम् गुणसंज्ञा भवति । एतेषु कः वर्णः आदेशरूपेण विधीयेत — इति प्रश्ने जाते, स्थानेऽन्तरतमः 1.1.50 इत्यस्याः परिभाषायाः आश्रयः स्वीक्रियते । अनया परिभाषया एतत् ज्ञाप्यते, यत् स्थानेन यः वर्णः सदृशतमः, तस्य आदेशरूपेण विधानम् भवति ।

वर्णानाम् उच्चारणस्थानानि एतादृशानि — अवर्णस्य कण्ठः । इवर्णस्य तालु । उवर्णस्य ओष्ठौ । ऋवर्णस्य मूर्धा । ऌवर्णस्य दन्ताः । एकारस्य कण्ठतालु । ओकारस्य कण्ठोष्ठम् । रेफस्य मूर्धा ॥

उदाहरणानि एतानि —

1. अवर्णात् इवर्णे परे उभयोः एकादेशः एकारः विधीयते । अवर्णस्य उच्चारणस्थानम् कण्ठः, इवर्णस्य उच्चारणस्थानम् तालु, एकारस्य उच्चारणस्थानम् कण्ठतालु - इति स्थानेन आन्तरतम्यम् सिद्ध्यति। यथा —

  • देवानाम् इन्द्रः → देव + इन्द्रः → देवेन्द्रः ।
  • महान् च असौ इन्द्रश्च → महत् + इन्द्रः → महा + इन्द्र [_आन्महतः समानाधिकरणजातीययोः_ 6.3.46 इति आकारादेशः] → महेन्द्रः ।
  • देवानाम् ईशः →‌ देव + ईशः → देवेशः।
  • महान् च असौ ईशश्च → महा + ईशः → महा + ईशः [_आन्महतः समानाधिकरणजातीययोः_ 6.3.46 इति आकारादेशः] → महेशः । 2. अवर्णात् उवर्णे परे उभयोः एकादेशः ओकारः विधीयते । अवर्णस्य उच्चारणस्थानम् कण्ठः, उवर्णस्य उच्चारणस्थानम् ओष्ठौ, ओकारस्य उच्चारणस्थानम् कण्ठोष्ठम् - इति स्थानेन आन्तरतम्यम् सिद्ध्यति । यथा —
  • सूर्यस्य उदयः → सूर्य + उदयः → सूर्योदयः ।
  • गङ्गायाः उदकम् → गङ्गा + उदकम् → गङ्गोदकम् ।
  • पादेन ऊनम् → पाद + ऊनम् →‌ पादोनम् ।
  • एकया ऊनम् → एका + ऊनम् → एकोनम् । 3. अवर्णात् ऋवर्णे परे उभयोः एकादेशः अर् विधीयते । अत्र अवर्णस्य उच्चारणस्थानम् कण्ठः, ऋवर्णस्य उच्चारणस्थानम् मूर्धा । गुणसंज्ञकेभ्यः त्रिभ्यः वर्णेभ्यः 'मूर्धा' इति उच्चारणस्थानम् कस्यापि वर्णस्य नास्ति । परन्तु _उरण् रपरः_ 1.1.51 इत्यनेन सूत्रेण एतत् ज्ञायते यत् ऋकारस्य स्थाने जायमानः अकारः नित्यम् रेफेण सह (इत्युक्ते, 'अर्' इत्यस्मिन् रूपे) विधीयते । अतः अवर्णात् ऋवर्णे परे उभयोः केवलम् 'अ' इति आदेशः कदापि नैव भवति, अपितु 'अर्' इति रेफयुक्तः आदेशः एव सम्भवति । अस्मिन् आदेशे विद्यमानस्य अकारस्य उच्चारणस्थानम् कण्ठः, रेफस्य उच्चारणस्थानम् च मूर्धा; अतः अत्र स्थानसाधर्म्यम् अपि सिद्ध्यति । अतः अवर्णात् ऋवर्णे परे 'अर्' इत्येव आदेशरूपेण विधीयते । यथा —
  • देवानाम् ऋषिः → देव + ऋषिः → देवर्षिः ।
  • महान् च असौ ऋषिः → महत् + ऋषिः → महा + ऋषिः [_आन्महतः समानाधिकरणजातीययोः_ 6.3.46 इति आकारादेशः] → महर्षिः । आकार-ऋकारयोः अपि अर्-आदेशः एव भवति, 'आर्' इति न ।
  • प्रथमश्च असौ ॠकारश्च → प्रथम + ॠकारः → प्रथमर्कार ।
  • बालिकायाः ॠकारः → बालिका + ॠकारः → बालिकर्कार । आकार-ॠकारयोः अपि अर्-आदेशः एव भवति, 'आर्' इति न । 4. अवर्णात् ऌवर्णे परे उभयोः एकादेशः अल् विधीयते । अत्र अवर्णस्य उच्चारणस्थानम् कण्ठः, ऌवर्णस्य उच्चारणस्थानम् दन्ताः । गुणसंज्ञकेभ्यः त्रिभ्यः वर्णेभ्यः 'दन्ताः' इति उच्चारणस्थानम् कस्यापि वर्णस्य नास्ति । परन्तु _उरण् रपरः_ 1.1.51 इत्यनेन सूत्रेण एतत् ज्ञायते यत् ऌकारस्य स्थाने जायमानः अकारः नित्यम् लकारेण सह (इत्युक्ते, 'अल्' इत्यस्मिन् रूपे) विधीयते । अतः अवर्णात् ऌवर्णे परे उभयोः केवलम् 'अ' इति आदेशः कदापि नैव भवति, अपितु 'अल्' इति लकारयुक्तः आदेशः एव सम्भवति । अस्मिन् आदेशे विद्यमानस्य अकारस्य उच्चारणस्थानम् कण्ठः, लकारस्य उच्चारणस्थानम् च दन्ताः; अतः अत्र स्थानसाधर्म्यम् अपि सिद्ध्यति । अतः अवर्णात् ऌवर्णे परे 'अल्' इत्येव आदेशरूपेण विधीयते । यथा —
  • कृष्णस्य ऌकारः → कृष्ण + ऌकारः →‌ कृष्णल्कारः ।
  • महान् च असौ ऌकारश्च → महत् + ऌकारः → महा + ऌकारः [_आन्महतः समानाधिकरणजातीययोः_ 6.3.46 इति आकारादेशः] → महल्कारः । आकार-ऌकारयोः अपि अल्-आदेशः एव भवति, 'आल्' इति न । बाध्यबाधकभावः प्रकृतसूत्रेण यद्यपि अचि परे गुणैकादेशः उक्तः अस्ति, तथापि अस्य सूत्रस्य प्रसक्तिः केवलम् 'इक्' वर्णे परे एव दृश्यते । अन्येषु वर्णेषु परेषु अस्य गुणादेशस्य सवर्णदीर्घेण वृद्ध्यादेशेन वा बाधः भवति । तदित्थम् — 1) अवर्णात् अवर्णे परे, प्रकृतसूत्रेण उभयोः गुणादेशे प्राप्ते, तद् बाधित्वा _अकः सवर्णे दीर्घः_ 6.1.101 इत्यनेन पूर्वपरयोः एकः सवर्णदीर्घादेशः भवति । 2) अवर्णात् एच्-वर्णे परे प्रकृतसूत्रेण उभयोः गुणादेशे प्राप्ते, तद् बाधित्वा _वृद्धिरेचि_ 6.1.88 इत्यनेन पूर्वपरयोः एकः वृद्ध्यैकादेशः भवति । ##Balamanorama --- index: 6.1.87 sutra: आद्गुणः --- _आद्गुणः_ - आद्गुणः । आदिति पञ्चमी नतु तपरकरणम् । एकः पूर्वपरयोरित्यधिकृतम् । तदाह-अवर्णादचीत्यादिना । उपेन्द्र इति । उप-इन्द्र इति स्थिते पकारादकारस्य तस्मादिकारस्य च पूर्वपरयोः कण्ठतालुस्थानकयोस्तथाविध एको गुण एकारः, आन्तरतम्यात् । अथ प्रत्याहारेषु स्ववाच्यवाच्येषूक्तां लक्षणां स्मारयितुं दीर्घविषयोदाहरणमाह-रमेश इति । रमा-ईश इति स्थिते आकारस्य ईकारस्य च स्थाने पूर्ववदेको गुण एकारः । गङ्गोदकमिति । गङ्गा-उदकमिति स्थिते आकारस्य उकारस्य च कण्ठोष्टस्थानकयोस्तथाविध एको गुण ओकारः । कृष्णर्द्धिरित्यत्र कृष्ण ऋद्धिरिति स्थिते आद्गुण इति प्राप्तम् । अत्र अकार ऋकारश्चेति द्वौ स्थानिनौ । तयोरकार एकार ओकारश्चेति त्रयोऽपि गुणः प्रसक्ताः, अकारेण तेषां कण्ठस्थानसाम्याऽविशेषात् । ##Padamanjari --- index: 6.1.87 sutra: आद्गुणः --- गुणग्रहणं किम्, यावताऽचीति वर्तते, ठेकः पूर्वपरयोऽ इति च, तत्रान्तर्यतः कण्ठतालव्ययोरकारेकारयोः स्थाने तादृश एवैकारो भविष्यति, कण्ठयौष्ठ।ल्योश्चाकारोकारयोः स्थाने तादृश एवौकारो भविष्यति, कण्ठयौष्ठ।ल्योश्चाकारोकारयोः स्थाने तादृश एवौकारो भविष्यति; चैकारौकारयोरपि प्रसङ्गः, वृद्दिरेचीति नियमात् ? तदिदानीं नियमार्थम्, ऐचोरनेनैव सिद्धत्वात्, एच्येव वृद्धिभर्वति। उभयथा नियमश्च व्याख्यास्यते, वृद्धिरेवैचीति। इर तर्हि खट्वर्श्यः मालार्श्य इति प्रमाणतोऽन्तरतमो मूर्द्धन्त ऋकारः प्राप्नाति ? माण एव रपरो भवतीति स्थानत् उभरोरन्तरतमः। आकारस्तर्हि प्राप्नोति ? ठिपसर्गादृति धातौऽ इत्येतन्न्यमार्थं भविष्यति - ऋति धातावेवाकारो नान्यत्रेति। प्रुतस्तर्हि प्राप्नोति - खट्वेन्द्रः,'प्लुतश्च विषये स्मृतः' , प्लुतविदाने हि सति यस्मिन्विषे ब्लुतो विहितस्तस्मिन्नप्यनैनैव भाव्यम् ? अस्मिन्कर्तव्ये आष्टमिकस्य प्लुतस्यासिद्धत्वात्, ततश्च पक्षेऽनुवाददोषपसङ्गत् प्लुगो न भवतीति। इह तर्हि शट्वा ईषा खट्वेषा,शट्वा ऊढा खट्वेढा, आन्तर्यतश्चतुर्मात्र आदेशः प्राप्नोति, गुणग्रहणे तु क्रियमाणे गुणसंज्ञायान्परकरणं सर्वार्थमिति त्रिमात्रचतुर्मात्राणामगुणत्वादप्रसङ्गः। तस्माद् गुणग्रहणम्। श्लेकौ चात्र भवत - आदेशश्चेद् गुणः केन स्थानेऽन्तरतमो हि साः। ऐदौतौ नैचि तावुक्तावृकारो नोभयन्तरः ॥ आकारो नर्तिधातौ स प्लतश्च विषये स्मृत। आन्तर्यात्रिचतुर्मात्रो गुणश्च तपरः समृतः ॥ इह वृक्षशब्दान्ङ्ः, वृक्षि अ इ अ इन्द्रमिति स्थिते अकारेकायोर्गुणश्च प्राप्नोतीकारयोः सवर्णदीर्घश्च, तत्र शब्दपरविप्रतिषेधाद्दीर्घप्रसङ्गः, तथा तच्छपब्दान्'जश्शसोः शिः' , न इ इन्द्रम्, पचेरुतमैकवचनमिट् शप् पच इ चन्द्रम् ? नैष दोषः एकपदातरङ्गो गुणे भविष्यते प्रगेव पदान्तरसन्निदानात् । लृकारस्य स्तानत इतै। यथा चैतल्लभ्यते तथा।'लण्' इत्यत्र व्याख्यातम् ॥