विप्रतिषेधे परं कार्यम्

1-4-2 विप्रतिषेधे परं कार्यम् आ कडारात् एका सञ्ज्ञा

Sampurna sutra

Up

विप्रतिषेधे परं कार्यम्

Neelesh Sanskrit Brief

Up

तुल्यबलसूत्रयोः समानस्थले प्राप्तिः अस्ति चेत् परसूत्रस्य प्रयोगः भवति ।

Neelesh English Brief

Up

If two sutras that can be invoked independent of each other happen to conflict at the same step during a प्रक्रिया, then the later occurring sutra gets applied by precedence.

Kashika

Up

तुल्यबलविरोधो विप्रतिषेधः। यत्र द्वौ प्रसङ्गावन्यार्थावेकस्मिन् युगपत् प्राप्नुतः स तुल्यबलविरोधो विप्रतिषेधः। तस्मिन् विप्रतिषेधे परं कार्यं भवति। उत्सर्गापवादनित्यानित्यान्तरङ्गबहिरङ्गेषु तुल्यबलता नास्तीति नायमस्य योगस्य विषयः। बलवतैव तत्र भवितव्यम्। अप्रवृत्तौ पर्यायेण वा प्रवृत्तौ प्राप्तायां वचनमारभ्यते। <<अतो दीर्घो यञि>> ७.३.१०१ <<सुपि च>> ७.३.१०२ इत्यस्यावकाशः — वृक्षाभ्याम्। प्लक्षाभ्याम्। <<बहुवचने झल्येत्>>७.३.१०३ इत्यस्यावकाशः — वृक्षेषु। प्लक्षेषु। इहोभयं प्राप्नोतिवृक्षेभ्यः, प्लक्षेभ्य इति। परं भवति विप्रतिषेधेन॥

Siddhanta Kaumudi

Up

तुल्यबलविरोधे परं कार्यं स्यात् । इति लोपे प्राप्ते । पूर्वत्रासिद्धम् <{SK12}> इति रोरि <{SK173}> इत्यस्यासिद्धत्वादुत्वमेव । मनोरथः ॥

Laghu Siddhanta Kaumudi

Up

तुल्यबलविरोधे परं कार्यं स्यात्। इति लोपे प्राप्ते। पूर्वत्रासिद्धमिति रोरीत्यस्यासिद्धत्वादुत्वमेव। मनोरथः॥

Neelesh Sanskrit Detailed

Up

प्रक्रियायाम् द्वयोः अधिकानां वा सूत्राणाम् विप्रतिषेधे प्राप्ते तस्मिन् स्थले तेषु परसूत्रस्य प्रयोगः भवति — इति अस्य सूत्रस्य आशयः । विप्रतिषेधः — काशिकायाम् अस्य शब्दस्य व्याख्या इत्थं दीयते — यत्र द्वौ प्रसङ्गौ अन्यार्थौ, एकस्मिन् युगपत् प्राप्नुतः, सः तुल्यबलविरोधः विप्रतिषेधः । इत्युक्ते, ये द्वे सूत्रे सामान्यरूपेण भिन्नेषु स्थलेषु स्वतन्त्ररूपेण कार्यं कुरुतः, ते कुत्रचित् युगपत् प्राप्नुतः चेत् तयोर्मध्ये विप्रतिषेधः उत तुल्यबलत्वम् अस्ति इति उच्यते । एतादृशे विप्रतिषेधे जाते तत्र अष्टाध्यायीक्रमेण अनन्तरम् स्थितस्य सूत्रस्य प्रयोगः भवति —‌ इति प्रकृतसूत्रस्य अर्थः । उदाहरणानि अस्य सूत्रस्य प्रयोगः प्रायेण सर्वासु अपि प्रक्रियासु प्राचुर्येण कृतः दृश्यते । कानिचन मुख्यानि उदाहरणानि एतानि —

  • 1. <<बहुवचने झल्येत्>> 7.3.103 तथा च <<सुपि च>> 7.3.102 एते द्वे सूत्रे बहुषु स्थलेषु स्वतन्त्ररूपेण कार्यं कुरुतः । यथा, राम-शब्दस्य सप्तमीबहुवचनस्य प्रक्रियायाम् सुप्-प्रत्यये परे मकारोत्तरस्य अकारस्य <<बहुवचने झल्येत्>> 7.3.103 इति सूत्रेण एकारादेशे कृते रामेषु इति शब्दः सिद्ध्यति । अस्यां प्रक्रियायाम् <<सुपि च>> 7.3.102 इत्यस्य प्रसक्तिरेव नास्ति, यतः सुप् इति यञादिप्रत्ययः नास्ति । एवमेव, राम-शब्दस्य तृतीयाद्विवचनस्य प्रक्रियायाम् भ्याम्-प्रत्यये परे मकारोत्तरस्य अकारस्य <<सुपि च>> 7.3.102 इति सूत्रेण दीर्घादेशे कृते रामाभ्याम् इति शब्दः सिद्ध्यति । अस्यां प्रक्रियायाम् <<बहुवचने झल्येत्>> 7.3.103 इत्यस्य प्रसक्तिरेव नास्ति, यतःभ्याम्-प्रत्ययः बहुवचनस्य प्रत्ययः नास्ति । अनेन प्रकारेण <<बहुवचने झल्येत्>> 7.3.103 तथा च <<सुपि च>> 7.3.102 एतयोः सूत्रयोः भिन्नेषु स्थलेषु पृथग् पृथग् रूपेण प्रयोगः सम्भवति । अस्यैव निर्देशः काशिकाकारेण अन्यार्थौ इति शब्देन कृतः अस्ति । इदानीम्, एते एव द्वे सूत्रे राम-शब्दस्य चतुर्थीबहुवचनस्य प्रक्रियायाम् भ्यस्-प्रत्यये परे युगपत् प्राप्नुतः, यतः भ्यस्-प्रत्ययः बहुवचनस्य प्रत्ययः अस्ति (अतः <<बहुवचने झल्येत्>> 7.3.103 इत्यस्य प्राप्तिः विद्यते), तथा च भ्यस्-प्रत्ययः यञादि-सुप्-प्रत्ययः अपि अस्ति (अतः <<सुपि च>> 7.3.102 इत्यस्यापि प्राप्तिः वर्तते) । एतादृशम् द्वयोः सूत्रयोः अत्र विप्रतिषेधः वर्तते । अस्यां स्थितौ — <<बहुवचने झल्येत्>> 7.3.103 इत्यनेन एकारादेशः करणीयः उत <<सुपि च>> 7.3.102 इत्यनेन दीर्घादेशः कर्तव्यः — इति सम्भ्रमे जाते, विप्रतिषेधे सति परसूत्रस्य प्रयोगः करणीयः — इति निर्णयः <<विप्रतिषेधे परं कार्यम्>> 1.4.2 इति सूत्रेण क्रियते । अतः राम-शब्दस्य चतुर्थीबहुवचनस्य प्रक्रियायाम् <<बहुवचने झल्येत्>> 7.3.103 तथा च <<सुपि च>> 7.3.102 एताभ्याम् परसूत्रेण (इत्युक्ते, <<बहुवचने झल्येत्>> 7.3.103 इत्यनेन) एकारादेशे कृते अन्तिमं रूपं सिद्ध्यति — राम + भ्यस् [<<स्वौजसमौट्...>> 4.1.2 इति चतुर्थीबहुवचनस्य प्रत्ययः] → रामे + भ्यस् [<<सुपि च>> 7.3.102 तथा च <<बहुवचने झल्येत्>> 7.3.103 एतयोः युगपत् प्राप्तौ <<विप्रतिषेधे परं कार्यम्>> 1.4.2 इत्यनेन परत्वात् <<बहुवचने झल्येत्>> 7.3.103 इति एकारादेशः विधीयते ।] → रामेभ्यः [<<ससजुषो रुः>> 8.2.66 इति रुत्वम् । <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः ।]
  • 2. <<त्रेस्त्रयः>> 7.1.53 तथा च <<त्रिचतुरोः स्त्रियां तिसृचतसृ>> 7.2.99 एतयोः द्वयोः सूत्रयोः स्वतन्त्ररूपेण प्रयोगः सम्भवति । यथा, त्रि-शब्दस्य पुंलिङ्गे षष्ठीबहुवचनस्य रूपसिद्धौ <<त्रेस्त्रयः>> 7.1.53 इति सूत्रेण त्रि-शब्दस्य त्रय-आदेशे कृते त्रयाणाम् इति रूपं सिद्ध्यति । अत्र प्रक्रियायाम् <<त्रिचतुरोः स्त्रियां तिसृचतसृ>> 7.2.99 इत्यस्य प्राप्तिरेव नास्ति यतः अत्र पुंलिङ्गस्य रूपस्य सिद्धिः क्रियते । एवमेव, त्रि-शब्दस्य स्त्रीलिङ्गे प्रथमाबहुवचनस्य तिस्रः इति रूपस्य सिद्धौ <<त्रिचतुरोः स्त्रियां तिसृचतसृ>> इति शब्देन त्रि-शब्दस्य तिसृ-आदेशः भवति । तत्र <<त्रेस्त्रयः>> 7.1.53 इति सूत्रस्य नैव प्राप्तिः वर्तते यतः तत्र आम्-प्रत्ययः न विद्यते । अनेन प्रकारेण एतयोः द्वयोः सूत्रयोः भिन्नेषु स्थलेषु पृथग् पृथग् रूपेण प्रयोगः सम्भवति । परन्तु त्रि-शब्दस्य स्त्रीलिङ्गस्य षष्ठीबहुवचनस्य प्रक्रियायाम् एते एव द्वे सूत्रे युगपत् प्राप्नुतः । अस्यां स्थितौ प्रकृतसूत्रेण परसूत्रस्य प्रयोगः भवति, अतः <<त्रिचतुरोः स्त्रियां तिसृचतसृ>> इत्यनेन त्रि-शब्दस्य तिसृ-आदेशे कृते अन्तिमं रूपं सिद्ध्यति — त्रि (स्त्रीलिङ्गे) + आम् [<<स्वौजसमौट्...>> 4.1.2 इत्यनेन षष्ठीबहुवचनस्य आम्-प्रत्ययः] → त्रि + नुड् + आम् [<<ह्रस्वनद्यापो नुट्>> 7.1.54 इति नुडागमः] → तिसृ + न् + आम् [<<त्रेस्त्रयः>> 7.1.53 इत्यनेन त्रयादेशे प्राप्ते, <<विप्रतिषेधे परं कार्यम्>> 1.4.2 इति परत्वात् तं बाधित्वा <<त्रिचतुरोः स्त्रियां तिसृचतसृ>> 7.2.99 इति तिसृ-आदेशः भवति ।] → तिसृणाम् [ इति णत्वम्]
  • 3. <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> 6.4.77 तथा च <<सार्वधातुकार्धधातुकयोः>> 7.3.84 एते द्वे सूत्रे बहुषु स्थलेषु स्वतन्त्ररूपेण कार्यं कुरुतः । यथा, नी-धातोः क्विप्-प्रत्यये कृते नी-इति यत् प्रातिपदिकं सिद्ध्यति, तस्य इति नियमेन धातुत्वात् प्रथमाद्विवचनस्य इति अजादिप्रत्यये परे <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> 6.4.77 इत्यनेन इयङ्-आदेशे कृते नियौ इति रूपं सिद्ध्यति । अत्र <<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति सूत्रस्य प्राप्तिरेव नास्ति, यतः अत्र विहितः -प्रत्ययः सार्वधातुकः अपि नास्ति, आर्धधातुकः अपि नास्ति । एवमेव, नी-धातोः तुमुन्-प्रत्ययान्तस्य नेतुम् इति रूपस्य प्रक्रियायाम् <<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति सूत्रेण अङ्गस्य गुणः प्रवर्तते । अत्र प्रत्ययः अजादिः नास्ति, अतः अत्र <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> 6.4.77 इत्यस्य नैव प्राप्तिः सम्भवति । अनेन प्रकारेण एतयोः द्वयोः सूत्रयोः मध्ये तुल्यबलत्वम् विद्यते । इदानीम् नी-धातोः अनीयर्-प्रत्यये कृते, प्रत्ययस्य आर्धधातुकत्वात् <<सार्वधातुकार्धधातुकयोः>> 7.3.84 इत्यनेन अङ्गस्य गुणः, तथा च प्रत्ययस्य अजादित्वात् <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> 6.4.77 इत्यनेन अङ्गस्य इयङ्-आदेशः — इति द्वयोः युगपत् प्राप्तिः अस्ति । अस्यां स्थितौ <<विप्रतिषेधे परं कार्यम्>> 1.4.2 इत्यनेन परसूत्रस्य प्रयोगः भवति; अतः एव नी + अनीयर् इत्यत्र <<सार्वधातुकार्धधातुकयोः>> 7.3.84 इत्यनेन अङ्गस्य गुणं कृत्वा नयनीय इति रूपं सिद्ध्यति — णीञ् (प्रापणे, भ्वादिः, <{11.1049}>) → नी [<<णो नः>> 6.1.65 इति णकारस्य नकारः] → नी + अनीयर् [<<तव्यत्तव्यानीयरः>> 3.1.96 इति अनीयर्-प्रत्ययः] → ने + अनीय [<<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> 6.4.77 इति इयङ्-आदेशे प्राप्ते; परत्वात् तद्बाधित्वा <<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति गुणः प्रवर्तते] → नय् + अनीय [<<एचोऽयवायावः>> 6.1.78 इति अयादेशः] → नयनीय
  • 4. <<अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च>> 3.1.138 तथा च <<कर्मण्यण्>> 3.2.1 इत्येतयोः सूत्रयोः बहुत्र स्वतन्त्ररूपेण प्रयोगः सम्भवति । यथा, लिम्पति इति अस्मिन् अर्थे लिम्प्-धातोः <<अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च>> 3.1.138 इत्यनेन -प्रत्यये कृते लिम्पः इति रूपं सिद्ध्यति । अत्र किमपि उपपदम् न वर्तते अतः अत्र <<कर्मण्यण्>> 3.2.1 इति सूत्रस्य प्राप्तिरेव नास्ति । एवमेव, कुम्भं करोति इति अस्मिन् अर्थे कृ-धातोः <<कर्मण्यण्>> 3.2.1 इत्यनेन अण्-प्रत्यये कृते कुम्भकारः इति रूपं सिद्ध्यति । अत्र <<अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च>> 3.1.138 इति सूत्रस्य प्राप्तिरेव नास्ति यतः कृ-धातोः तत्र ग्रहणम् एव कृतं नास्ति । अनेन प्रकारेण एतयोः द्वयोः सूत्रयोः भिन्नेषु स्थलेषु पृथग् पृथग् रूपेण प्रयोगः सम्भवति । परन्तु कुड्यं लिम्पति इत्यत्र एतयोः द्वयोः अपि सूत्रयोः युगपत् प्राप्तिः वर्तते; यतः अत्र लिम्प्-धातुः अपि वर्तते, कर्मणि उपपदम् अपि च वर्तते । अस्यां स्थितौ <<विप्रतिषेधे परं कार्यम्>> 1.4.2 इति सूत्रेण परसूत्रस्यैव प्रयोगः भवति, अतः कुड्यं लिम्पति इत्यत्र <<कर्मण्यण्>> 3.2.1 इति सूत्रेण अण्-प्रत्यये कृते कुड्यलेपः इति अण्-प्रत्ययान्तं रूपम् एव सिद्ध्यति । अनेन प्रकारेण यत्र द्वयोः तुल्यबलयोः सूत्रयोः समानस्थले प्रसक्तिः अस्ति (इत्युक्ते, यत्र विप्रतिषेधः अस्ति), तत्र प्रकृतसूत्रस्य प्रयोगं कृत्वा परसूत्रस्य प्रयोगः क्रियते त्रिपाद्याः सन्दर्भे विप्रतिषेधस्य अनुपस्थितिः त्रिपाद्याम् पूर्वसूत्राणाम् कृते परसूत्राणि असिद्धानि सन्ति, अतः त्रिपाद्याम् विप्रतिषेधः नैव प्रवर्तते । इत्युक्ते, त्रिपाद्याम् यत्र यत्र पूर्वसूत्र-परसूत्रयोः युगपत् प्राप्तिः विद्यते, तत्र तत्र सर्वत्र परसूत्रं पूर्वसूत्रं प्रति असिद्धं भवति अतः नित्यम् पूर्वसूत्रस्यैव प्रयोगः भवति । यथा, चर्-धातोः प्रथमपुरुषबहुवचनस्य अन्ति-प्रत्यये परे नकारस्य <<नश्चापदान्तस्य झलि>> 8.3.24 इत्यनेन अनुस्वारादेशः प्राप्नोति; तथा च <<अट्कुप्वाङ्नुम्व्यवायेऽपि>> 8.4.2 इत्यनेन णत्वम् अपि सम्भवति । अस्यां स्थितौ अनुस्वारं प्रति णत्वस्य असिद्धत्वात् अनुस्वारादेशः एव प्रवर्तते । चरँ (गतौ भक्षणे च, भ्वादिः <{1.640}>) → चर् + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → चर् + झि [<<तिप्तस्झि..>> 3.4.78 इति प्रथमपुरुषबहुवचनस्य झि-प्रत्ययः] → चर् + अन्ति [<<झोऽन्तः>> 7.1.3 इति अन्ति-आदेशः] → चर् + शप् + अन्ति [<<कर्तरि शप्>> 3.1.68 इति शप्-विकरणम्] → चर् + अ + अन्ति [इत्संज्ञालोपः] → चर् + अ + अंति [नकारस्य <<नश्चापदान्तस्य झलि>> 8.3.24 इत्यनेन अनुस्वारादेशः भवति । अत्र <<अट्कुप्वाङ्नुम्व्यवायेऽपि>> 8.4.2 इत्यनेन णत्वस्य अपि युगपत् प्राप्तिः वर्तते परन्तु णत्वस्य असिद्धत्वात् अत्र अनुस्वारादेशः एव प्रवर्तते ।] →‌चर् + अ + अन्ति [<<अनुस्वारस्य ययि परसवर्णः>> 8.4.58 इति परसवर्णे नकारादेशः भवति । अयं नकारादेशः <<अट्कुप्वाङ्नुम्व्यवायेऽपि>> 8.4.2 इत्येतं प्रति असिद्धः अस्ति अतः अत्र अग्रे णत्वं नैव सम्भवति ।] एवमेव, यत्र त्रिपादीसूत्रस्य सपादसप्ताध्याय्याः सूत्रेण सह युगपत् प्राप्तिः वर्तते; तत्र अपि त्रिपादीसूत्रस्य असिद्धत्वात् <<विप्रतिषेधे परं कार्यम्>> 1.4.2 इत्यस्य प्रयोगः नैव सम्भवति, अतः तत्र सपादसप्ताध्यायीसूत्रम् एव प्रवर्तते । यथा, मनोरथ शब्दस्य सिद्धौ सपादसप्ताध्यायीस्थम् उत्वं प्रति त्रिपादीस्थस्य रेफलोपस्य असिद्धत्वात् उत्वम् एव प्रवर्तते — मनसः रथः [<<षष्ठी>> 2.2.8 इति षष्ठीतत्पुरुषः] → मनस् + रथ [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा ।<<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्यययोः लुक्] → मनरुँ + रथ [<<ससजुषो रुँः>> 8.2.66 इति रुँत्वम् ] → मनउ + रथ [रुँत्वे कृते <<हशि च>> 6.1.114 इति उत्वम् प्राप्नोति, एवमेव <<रो रिः>> 8.3.14 इति रेफलोपः अपि प्राप्नोति । अत्र उत्वम् सपादसप्ताध्याय्यां विद्यते, परन्तु विधानसामर्थ्यात् उत्वस्य कृते रुँत्वम् सिद्धम् अस्ति, अतः रुँत्वात् अनन्तरम् तस्य प्राप्तिः अवश्यं सम्भवति । परन्तु उत्वस्य कृते त्रिपादीस्थः रेफलोपः तु असिद्धः एव अस्ति । अत्र अत्र <<विप्रतिषेधे परं कार्यम्>> 1.4.2 इत्यस्य प्रयोगः नैव भवति, अपि तु सपादसप्ताध्यायीस्थं उत्वकार्यम् एव प्रवर्तते ] → मनोरथ [<<आद्गुणः>> 6.1.87 इति गुणैकादेशः] विप्रतिषेधः तथा उत्सर्गापवादः प्रक्रियायाम् एकस्मिन् सोपाने युगपत् प्राप्तयोः द्वयोः सूत्रयोः मध्ये नित्यम् विप्रतिषेधः एव स्यात् इति न आवश्यकम् । यदि द्वे सूत्रे सामान्यरूपेण भिन्नेषु स्थलेषु स्वतन्त्ररूपेण प्राप्नुतः, तर्हि एव तयोः युगपत् प्राप्तौ विप्रतिषेधस्य विधानं भवति । परन्तु यदि ताभ्याम् एकम् सूत्रम् अन्यसूत्रं विना स्वतन्त्ररूपेण नैव कुत्रचित् प्राप्नोति, तर्हि तयोमर्ध्ये विप्रतिषेधः नैव स्वीक्रियते (अपितु उत्सर्गापवादभावः स्वीक्रियते), अतश्च <<विप्रतिषेधे परं कार्यम्>> 1.4.2 इति सूत्रम् अपि तत्र न प्रवर्तते । अस्य एकम् उदाहरणम् एतादृशम् — <<स्वमोर्नपुंसकात्>> 7.1.23 इति सूत्रेण नपुंसकशब्दात् विहितस्य सुँ/अम्-प्रत्ययस्य लुक् विधीयते । परन्तु ह्रस्व-अकारान्त-नपुंसकलिङ्ग-शब्देभ्यः विहितस्य सुँ/अम्-प्रत्ययस्य <<अतोऽम्>> 7.1.24 इति सूत्रेण अम् इति आदेशः भवति । अत्र <<स्वमोर्नपुंसकात्>> 7.1.23 इति सूत्रम् सर्वेभ्यः नपुंसकलिङ्गशब्देभ्यः कृते प्रयोक्तुं शक्यते, परन्तु <<अतोऽम्>> 7.1.24 इति सूत्रम् केवलम् ह्रस्व-अकारान्त-नपुंसकलिङ्ग-शब्देभ्यः एव प्रयोक्तुं शक्यते । इत्युक्ते, यत्र यत्र <<अतोऽम्>> 7.1.24 इति सूत्रस्य प्राप्तिः वर्तते; तत्र तत्र सर्वत्र <<स्वमोर्नपुंसकात्>> 7.1.23 इति सूत्रम् अपि अवश्यं प्राप्नोति । अस्यैव अर्थः अयम्, यत् <<अतोऽम्>> 7.1.24 सूत्रस्य स्वतन्त्ररूपेण ( <<स्वमोर्नपुंसकात्>> 7.1.23 इति सूत्रं विना) नैव कुत्रचित् प्राप्तिः सम्भवति । अस्यां स्थितौ एतयोमर्ध्ये तुल्यबलत्वम् नैव वर्तते; अपि तु, <<अतोऽम्>> 7.1.24 इति सूत्रम् <<स्वमोर्नपुंसकात्>> 7.1.23 इत्यस्य अपवादरूपेण एव स्वीक्रियते । एतादृशे उत्सर्ग-अपवाद-सम्बन्धे प्राप्ते; तत्र <<विप्रतिषेधे परं कार्यम्>> 1.4.2 इति सूत्रस्य प्रयोगः न भवति, अपि तु अपवादसूत्रम् एव प्राधान्येन प्रयुज्यते । <pv>परसूत्रस्य प्रयोगात् अनन्तरम् पूर्वसूत्रम् प्रवर्तते वा ? विप्रतिषेधे जाते <<विप्रतिषेधे परं कार्यम्>> 1.4.2 इति सूत्रेण परसूत्रस्य चयने कृते; तदनन्तरम् कुत्रचित् पूर्वसूत्रस्य अपि प्राप्तिः इष्यते । यथा, <<यज्>>-धातोः लिट्-लकारस्य प्रथमपुरुषद्विवचनस्य अतुस्-प्रत्यये परे <<वचिस्वपियजादीनां किति>> 6.1.15 इत्यनेन सम्प्रसारणम्, तथा च <<लिटि धातोरनभ्यासस्य>> 6.1.8 इत्यनेन द्वित्वम् — एतयोः मध्ये विप्रतिषेधः अस्ति । अस्यां स्थितौ <<वचिस्वपियजादीनां किति>> 6.1.15 इत्यनेन आदौ सम्प्रसारणं कृत्वा, ततः <<लिटि धातोरनभ्यासस्य>> 6.1.8 इत्यनेन द्वित्वम् अपि क्रियते, येन इष्टरूपं सिद्ध्यति‌ — यजँ ( देवपूजासङ्गतिकरणदानेषु, भ्वादिः, <{1.1157}>) → यज् + लिट् [<<परोक्षे लिट्>> 3.2.115 इति लिट्] → यज् + तस् [<<तिप्तस्झि..>> 3.4.78 इति प्रथमपुरुषद्विवचनस्य तस्-प्रत्ययः] → यज् + अतुस् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> 3.4.82 इति अतुस्-आदेशः] → इज् + अतुस् [<<असंयोगाल्लिट् कित्>> 1.2.5 इति प्रत्ययस्य कित्त्वात् <<वचिस्वपियजादीनां किति>> 6.1.15 इति सम्प्रसारणम् । अत्र <<लिटि धातोरनभ्यासस्य>> 6.1.8 इत्यनेन द्वित्वम् अपि प्राप्नोति, परन्तु <<विप्रतिषेधे परं कार्यम्>> 1.4.2 इत्यनेन परत्वात् <<वचिस्वपियजादीनां किति>> 6.1.15 इत्यस्यैव प्रयोगः भवति ।] → इज् इज् अतुस् [सम्प्रसारणे कृते ततः पूर्वसोपाने बाधितं सूत्रम् अत्र पुनः प्रवर्तते । अतः <<लिटि धातोरनभ्यासस्य>> 6.1.8 इत्यनेन अत्र द्वित्वम् भवति ।] → इ इज् अतुस् [<<हलादिः शेषः>> 7.4.60 → ईजतुः [<<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घः । <<ससजुषो रुः>> 8.2.66 इति सकारस्य रुत्वम् । <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] एतादृशम् विप्रतिषेधेन पूर्वं बाधितस्य सूत्रस्य पुनः प्रसक्त्यर्थम् भाष्यकारेण << पुनः प्रसङ्गविज्ञानात् सिद्धम् >> इति परिभाषा दत्ता अस्ति । बाधकसूत्रस्य प्रयोगात् अनन्तरम्, तस्मिन्नेव स्थले पुनः विप्रतिषेधेन बाधितस्य सूत्रस्य प्राप्तौ, तत् सूत्रम् अवश्यं प्रयोक्तुं शक्यते — इति अस्याः परिभाषायाः अर्थः । परन्तु, केषुचन अन्येषु स्थलेषु विप्रतिषेधेन बाधितस्य सूत्रस्य पुनः प्राप्तौ अपि तस्य प्रयोगः नैव इष्यते । यथा, माला-शब्दस्य सप्तम्येकवचनस्य रूपसिद्धौ ङि-प्रत्ययस्य <<ङेराम्नद्याम्नीभ्यः>> 7.3.116 इत्यनेन आम्-आदेशे कृते ततः <<याडापः>> 7.3.113 इत्यनेन याडागमः तथा च <<ह्रस्वनद्यापो नुट्>> 7.1.54 इत्यनेन नुडागमः - इति उभयोः युगपत् प्राप्तिः विद्यते । तत्र <<विप्रतिषेधे परं कार्यम्>> 1.4.2 इत्यनेन परत्वात् <<याडापः>> 7.3.113 इत्यस्य प्रयोगे कृते, ततः पुनः <<ह्रस्वनद्यापो नुट्>> 7.1.54 इत्यस्य प्रयोगः अवश्यं सम्भवति, परन्तु साधुरूपसिद्धौ सः नैव इष्यते — माला + ङि [सप्तम्येकवचनस्य प्रत्ययः] → माला + आम् [<<ङेराम्नद्याम्नीभ्यः>> 7.3.116 इति ङि-प्रत्ययस्य आम्-आदेशः] → माला + याट् + आम् [<<याडापः>> 7.3.113 इत्यनेन याट्-आगमः । अयम् परत्वात् <<ह्रस्वनद्यापो नुट्>> 7.1.54 इत्येतं प्राप्तं नुडागमं बाधते । ] → माला + याम् [<<यदागमास्तद्गुणूभूताः तद्ग्रहणेन गृह्यन्ते>> इति परिभाषया याडागमम् आम्-प्रत्ययस्यैव अवयवं मत्वा <<ह्रस्वनद्यापो नुट्>> 7.1.54 इत्यस्य पुनः प्राप्तिः अवश्यम् अस्ति । परन्तु एतादृशः नुडागमः अत्र न इष्यते] → मालायाम् [<<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घः] एतादृशम् विप्रतिषेधेन पूर्वं बाधितस्य सूत्रस्य पूर्वं बाधितस्य सूत्रस्य नित्यम् बाधनार्थम् भाष्यकारेण <<सकृद्गतौ विप्रतिषेधे यद्बाधितम् तद्बाधितमेव>> इति अन्या परिभाषा अपि पाठिता अस्ति । बाधकसूत्रस्य प्रयोगात् अनन्तरम्, तस्मिन्नेव स्थले पुनः विप्रतिषेधेन बाधितस्य सूत्रस्य प्राप्तौ, तत् सूत्रम् नैव प्रयोक्तव्यम् — इति अस्याः परिभाषायाः अर्थः । अनेन प्रकारेण भाष्यकारेण अस्य सूत्रस्य भाष्ये << पुनः प्रसङ्गविज्ञानात् सिद्धम् >> तथा च <<सकृद्गतौ विप्रतिषेधे यद्बाधितम् तद्बाधितमेव>> एतयोः द्वयोः विरूद्धार्थयोः परिभाषयोः निर्देशः कृतः अस्ति । साधुरूपसिद्ध्यर्थम् एताभ्याम् या परिभाषा आवश्यकी, तस्याः प्रयोगः करणीयः — इति अत्र विवेकः ज्ञेयः । किञ्च, एते द्वे अपि परिभाषे <<विप्रतिषेधे परं कार्यम्>> 1.4.2 इत्यस्मात् सूत्रात् एव सिद्ध्यतः इति अपि भाष्यकारः अस्मिन् स्थले स्पष्टी करोति । तत्र सः ब्रूते — पठिष्यति हि आचार्यः, सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितम् एव इति । पुनश्च पठिष्यति - पुनः प्रसङ्गविज्ञानात् सिद्धम्, इति । किं पुनः इयता सूत्रेण उभयं लभ्यम् ? लभ्यम् इत्याह । कथम् ? इह भवता द्वौ हेतू व्यपदिष्टौ - तृजादिभिः तुल्यं पर्यायः प्राप्नोतीति च, अप्रतिपत्तिः वा उभयोः तुल्यबलत्वाद् इति च । तद् यदा तावद् एष हेतुः तृजादिभिः तुल्यं पर्यायः प्राप्नोति इति, तदा विप्रतिषेधे परम् इत्यनेन किं क्रियते ? नियमः । विप्रतिषेधे परमेव भवति — इति । तदा एतद् उपपन्नं भवति — सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितम् एव एति । यदा तु एषः हेतुः अप्रतिपत्तिः उभयोः तुल्यबलत्वादिति, तदा विप्रतिषेधे परम् इत्यनेन किं क्रियते क्रियते ? द्वारम् । विप्रतिषेधे परं तावद् भवति, तस्मिन् कृते यदि पूर्वम् अपि प्राप्नोति, तदपि भवति । तदा एतद् उपपन्नं भवति — पुनः प्रसङ्गविज्ञानात् सिद्धम् इति । <<विप्रतिषेधे परं कार्यम्>> 1.4.2 इति सूत्रम् नियमसूत्रम् अस्ति इति स्वीक्रियते चेत् विप्रतिषेधे परम् एव कार्यम्, न हि पूर्वम् इति अर्थः जायते, येन <<सकृद्गतौ विप्रतिषेधे यद्बाधितम् तद्बाधितमेव>> इति परिभाषा सिद्ध्यति । परन्तु <<विप्रतिषेधे परं कार्यम्>> 1.4.2 इति सूत्रम् विधिसूत्रम् अस्ति इति स्वीक्रियते चेत् विप्रतिषेधे परम् अवश्यं भवति, ततः इष्टं चेत् पूर्वम् अपि भवति इति अर्थः जायते, येन << पुनः प्रसङ्गविज्ञानात् सिद्धम् >> इति परिभाषा सिद्ध्यति । अनेन प्रकारेण प्रकृतसूत्रात् एव द्वयोः अपि परिभाषयोः ज्ञापनं भवति - इति अत्र भाष्यकारस्य आशयः वर्तते । अस्मिन् सन्दर्भे अधिकं पिपठिषवः अस्य सूत्रस्य भाष्यम् अवश्यं पश्येयुः । <pv>पूर्वविप्रतिषेधः, इष्टवाची परशब्दः यद्यपि विप्रतिषेधे प्राप्ते परसूत्रम् प्राधान्येन प्रयोक्तव्यम् इति अस्य सूत्रस्य आशयः अस्ति, तथापि कुत्रचित् विप्रतिषेधे जाते अपि पूर्वसूत्रस्य एव प्रयोगः इष्यते । यथा, वारि-शब्दस्य चतुर्थ्येकवचनस्य रूपे <<इकोऽचि विभक्तौ>> 7.1.73 इत्यनेन नुमागमः; तथा च <<घेर्ङिति>> 7.3.111 इत्यनेन गुणः — इत्येतयोः युगपत् प्राप्तौ सत्याम् <<विप्रतिषेधे परं कार्यम्>> 1.4.2 इत्यनेन परसूत्रस्य (गुणस्य) एव विधानं भवेत्; परन्तु तत्र <<इकोऽचि विभक्तौ>> 7.1.73 इति पूर्वसूत्रेण नुमागमे कृते एव इष्टं रूपं सिद्ध्यति — वारि + ङे [चतुर्थ्येकवचनस्य प्रत्ययः] → वारि + नुम् + ए [<<इकोऽचि विभक्तौ>> 7.1.73 इति नुमागमः ।] → वारिणे [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> 8.4.2 इति णत्वम्] एतादृशानाम् उदाहरणानाम् सिद्ध्यर्थम् एतेषु स्थलेषु विप्रतिषेधे जाते पूर्वसूत्रेण परसूत्रस्य बाधः भवति इति भाष्ये स्पष्टीकृतम् अस्ति । अस्यैव निर्देशः व्याकरणशास्त्रे पूर्वविप्रतिषेधः इति नाम्ना क्रियते । अस्य विप्रतिषेधस्य विधानार्थम् तथा च इति द्वे वार्त्तिके अपि वार्त्तिककारेण पाठिते स्तः । परन्तु परन्तु एते वार्त्तिके भाष्यकारेण प्रत्याख्याते स्तः । तत्र भाष्यकारः ब्रूते — इष्टवाची परशब्दः; तस्य इदं ग्रहणम् । विप्रतिषेधे परं यद् इष्टं तद्भवति । अत्र भाष्यकारेण <<विप्रतिषेधे परं कार्यम्>> 1.4.2 अस्मिन् सूत्रे विद्यमानस्य परशब्दस्य अर्थः इष्टः इति कृतः अस्ति । विप्रतिषेधे जाते, अन्तिमरूपार्थम् यद् सूत्रम् इष्टम्, तस्य प्रयोगः भवति — इति अत्र भाष्यकारस्य आशयः वर्तते । अतः उपरिनिर्दिष्टायां प्रक्रियायाम् <<इकोऽचि विभक्तौ>> 7.1.73 इत्यनेन नुमागमः; तथा च <<घेर्ङिति>> 7.3.111 इत्यनेन गुणः — इत्येतयोः युगपत् प्राप्तौ सत्याम् प्रक्रियायाम् यद् परम् (इष्टम्) तत् नुमागमविधानम् एव भवति — इति अर्थः अत्र सिद्ध्यति । ##Balamanorama <<विप्रतिषेधे परं कार्यम्>> - ननु परत्वाद्रेफलोप एव स्यादिति शङ्कितुमाह — विप्रतिषेधे । विप्रतिपूर्वात्सेधतेर्घञि उपसर्गवशात्परस्परविरोधे विप्रतिषेधशब्दः । विरोधश्च तुल्यबलयोरेव लोकसिद्धः । नहि मशकसिंहयोर्विरोध इत्यस्ति । तदाह — तुल्यबलेति । द्वयोः शास्त्रयोः क्वचिल्लब्धावकाशयोरेकत्र लक्ष्ये युगपत्सम्भवस्तुल्यबलविरोधः । कार्यस्य परत्वञ्च-परसास्त्रविहितत्वमेव । इति लोपे च प्राप्त इति ।हशि चे॑त्यस्यावकाशः-शिवो वन्द्य इति । रेफलोपस्यावकाशः-पुना रमते इति । तत्र हि रोरित्युकारानुबन्धग्रहणाद्धसिचेत्यप्रसक्तम् । ततश्च तयोस्तुल्यबलयोः उत्वरेफलोपयोर्मनोरथ इत्यत्र युगपत्सम्भवादन्यतरस्मिन् बाधनीये सति परत्वादुत्वं बाधित्वा रेफलोपे प्राप्ते इत्यर्थः । तामिमां रेफलोपशङ्कां परिहरति-पूर्वत्रेति । अत्र रेफलोपस्यासिद्धत्वादित्यनुक्त्वा रो रीत्यस्यासिद्धत्वादिति ब्राउवन् पूर्वत्रासिद्धमित्य्तर शास्त्रासिद्धत्वमेवाभ्युपैति, नतु कार्यासिद्धत्वम् । तथा सति हि अतिदेशस्यारोपरूपत्वादऽसिद्धत्वोरोपान्निरधिष्ठानारोपाऽसम्भवेन सूत्रोदाहरणसम्पत्त्यै परत्वाल्लक्ष्ये कार्यप्रवृत्तेरावश्यकतया परत्वात्त्रैपादिके कार्ये जाते तत्राऽभावप्रतियोगित्वारोपेऽपि देवदत्तस्य न पुनरुन्मज्जनमिति न्यायेन स्थानीबूतरोरभावाद्धशि चेत्यस्य प्राप्तिर्न स्यात् । शास्त्राऽसिद्धत्वे तु यद्यत्रैपादिकं शास्त्रं प्रवृत्त्युन्मुखं तत्त्च्चास्त्र एवासिद्धत्वारोपात्पूर्वशास्त्रप्रतिबन्धकस्य परशास्त्रस्य उच्छेदबुद्धौ सत्यांविप्रतिषेधे परं कार्य॑मिति न प्रवर्तते । तदुक्तं — ॒पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्ये॑ति ततश्च स्थानिनो निवृत्त्यभावात्पूर्वशास्त्रप्रवृत्तिर्निर्बाधा । एतच्च पूर्वत्रासिद्धमित्यत्र, अचः परस्मिन्नित्यत्र, षत्वतुकोरसिद्ध इत्यत्र च भाष्ये स्पष्टम् । न च तौ सदित्यादिनिर्देशाद्देवदत्तहन्तृन्यायो न सार्वत्रिक इति वाच्यं,हते सति देवदत्ते तद्धन्तरि हतेऽपि देवदत्तस्य न पुनरुन्मेषः । हन्तृहन्तरि हतत्वारोपे तु सुतरां नोन्मेषः । देवदत्तं हन्तुमुद्युक्तस्य हनने तु देवदत्तस्य जीवनमस्त्येवे॑ति न्यायशरीरम् । तावित्यादौ च वृद्धिहन्तुः पूर्वसवर्णदीर्घस्य हननोद्यमसजातीयं प्रसङ्गमात्रम् । न तु हननस्थानीया लक्ष्ये कार्यप्रवृत्तिरावश्यकी । ततस्च प्रवृत्तस्य रेफलोपस्याऽसिद्धत्वेऽपि देवदत्तहन्तृहतन्यायेन रोरुन्मेषा.ञभावादुत्वं न भवतीति शब्दरत्ने प्रपञ्चितम् । न च उत्वकार्यासिद्धत्वपक्षे ।ञपि मनोरथसिद्धिरस्त्येव, दर्शनाऽभावरूपरेफलोपस्याभावरूपा.ञसिद्धत्व सति रोरुन्मेषावश्यकत्वात्, अभावाभावस्य प्रतियोगिरूपत्वादिति वाच्यं, एवमपि कार्यासिद्धत्वे अमू अमी इत्याद्यसिद्धेः । यता चैतत्तथा अदस्शब्दनिरूपणावसरे प्रपञ्चयिष्यते । ##Padamanjari विप्रतिषेध इति।'षिधु शास्त्रे' 'षिधु गत्याम्' इति भौवादिकयोरन्यतरस्य रूपम्, तस्य हि'सेधसिचसञ्जस्वञ्जाम्' इति षत्वमिति। उपसर्गवशाच्च विरोधार्थत्वम्। धातुनां ह्युपसर्गवशादन्यश्चार्थ उपजायते,तद्यथा - प्रहारः, उपहारः, अनुहारः, संहार इति।'षिधू संराद्धौ' इत्यस्य तु दैवादिकस्य षत्वं नास्ति,'सेधषिच' इति शपा निर्देशात्। ठादेशप्रत्यययोःऽ इति विहितस्य तु'सात्पदाद्योः' इति निषेधः। ननु'गतिकारकोपपदानां कृद्भिः सह सामासवचनं प्राक् सुबुत्पतेः' इति वचनान्नायं सकारः पदादिः। षत्वविषये परिभाषेयं न भवति, यदि स्याद्, गोष्ठः, भूमिष्ठ इत्यादौ सकारस्यापदादित्वात् ठादेशप्रत्यययोःऽइत्येव षत्वसिद्धेरम्बादौ गावादिग्रहणमनर्थकं स्यात्। परशब्दोऽयं त्रिलिङ्गः-परो देशः, परा सेना, परं कार्यमिति। अतोऽयमव्युत्पन्नः, पचाद्यजन्तो वा, न तु ठृदोरप्ऽ इत्यबन्तः,तथा हि सति त्रिलिङ्गता न स्यात्॥ कृल्ल्युट् नपुंसके भावे स्त्रियां क्तिन्नादयो यतः। अतो घञाद्याः पुंस्येव यथा पाकश्चयो लवः॥ वासरूपविधिर्न्नास्ति, कृल्ल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नास्तीति वचनात्। स्त्रियामपि नास्ति, ठस्त्रियाम्ऽ इति प्रतिषेधात्। अतो भावघञादयः पुंस्येव। कर्तृवर्जिते तु कारके पुंनपुंसकयोः, न कथाञ्चित् स्त्रियाम्। परं कार्यमिति । परं यत्कार्यमेत्वादि तद्भवतीत्यर्थः, अथ वा-यत्परं तत्कार्यं भवति, कर्तव्यं भवतीत्यर्थः। अन्ये त्वाहुः- न क्रियापदत्वेन कार्यशब्दस्यान्वयः, नापि परं कार्यं भवति, न तु शास्त्रमित्येवं शास्त्रादिव्यावृतये कार्यशब्दः, किं तर्हि? यत्कार्यं कृत्यर्हं परं तद्भवतीति वचनव्यक्तिः। अर्हे कृत्यप्रत्ययः, किं सिद्धं भवति? तुल्यबलविरोध इति सिद्धं भवति। न ह्यपवादादीनां सन्निधावुत्सर्गादीनां कृत्यर्हत्वम्, तैर्बाधितत्वादिति। विशेधो विप्रतिषेध इति। तद्वाचित्वेनैव लोके प्रसिद्धत्वाद् विप्रतिषिद्धमित्युक्ते विरुद्धमिति गम्यते, तस्य विषयं दर्शयति-यत्रेत्यादि। यत्र विषये, वृक्षाभ्याम्, वृक्षोष्वित्यादौ चरितार्थावित्यर्थः। व्यक्तिपक्षे तु तद्विषययोःउ विध्योरन्यत्र चरितार्थत्वासम्भवाद् अन्योऽर्थः प्रयोजनमनयोस्तावन्यार्थौ। द्वौ प्रसङ्गौउकार्ये दीर्घत्वेत्वादिके युगपत्प्राप्नुतः। स विप्रतिषेधः, विप्रतिषेधस्य विषय इत्यर्थः, तुल्यबलयोर्विरोधो यस्मिन् स तथोक्तः। परं कार्ये भवतीति। यत्कार्यं कृत्यर्हं परं तद्भवतीत्यर्थः। तुल्यबलविरोध इत्यस्य व्यावर्त्यं दर्शयति-उत्सर्गापवादेत्यादि। तत्र'श्याद्व्यध' इत्याकारान्तलक्षणो णप्रत्यय उत्सर्गः, तं परमप्यनुपसर्ग सावकाशं बाधित्वाऽनवकाशत्वात् ठातश्चोपसर्गेऽ इति क एव भवति-सग्लः, सम्लः। रधेर्णिचि रधिजभोरचिऽ इति नुम् कृताकृतप्रसङ्गित्वान्नित्यः, ठत उपधायाःऽ इति वृद्धिरनित्या, नुमि कृतेऽकारस्यानुपधात्वादप्राप्तेः। तत्र पूर्वोऽपि नुमेव भवति-रन्धयतीति। अशिश्रियद्, अदुद्रुवद् इत्यात्रान्तर्भूतचङ्पेक्षत्वाद् इयणुवान्तरङ्गौ बहिरङ्गं लघूपधगुणं परमपि बाधेते, अपवादादीनां तु परस्परसंप्रधारणायां नित्यादप्यन्तरङ्गम्, तस्मादपवादः। उक्तं च - परं विदुः पूर्वपरोपपतौ परस्य नित्यस्य च नित्यमेव। नित्यान्तरङ्गोपगमेऽन्तरङ्गं तस्माद्विधिः प्रातिपदो बलीयान्॥ इति। द्वयोरेकत्रोपनिपातःऊपपतिः, परस्य नित्यस्य चेति। अत्र उप समस्तद्याकृतौ पदार्थे द्वयोरप्यन्यत्र कृतार्थत्वाद्विप्रतिषेधे सति परस्परप्रतिबन्धादप्रवृत्तिरेव प्रप्नोति, तद्यथा - यो हि द्वयोस्तुल्यबलयोरेकः प्रेष्यो भवति स तयोः पर्यायेण कार्यं कारोति; यदा तमुभौ युगपत्प्रेषयतो नाना दिक्षु च कार्ये भवतस्तदा यद्यसावविरोधार्थो भवति उभयोर्न करोति, तत्र विध्यर्थमिदं परं भवतीति तस्मिन् कृते यदि पूर्वस्यापि निमितमस्ति तदपि भवत्येव। यथा - भिन्धकीति, भिन्द् हि इति स्थिते परत्वाद्धिभावेपुनः प्रसङ्गविज्ञानादकज् भवति। व्यक्तौ तु पदार्थे सर्वव्यक्त्युद्देशेन शास्त्रस्य प्रवृतेस्तद्विषयोपनिपातिनोऽन्यत्र चरितार्थत्वात्पर्यायेण प्रवृतौ प्राप्तायां नियमार्थमिदम्-विप्रतिषेधे परमेव भवति, न पूर्वमिति। एतत्सूत्रारम्भाच्च पूर्वस्य लक्षणस्य तत्रानारम्भोऽनुमीयते, तदुच्यते-ठ्सकृद्गतौ विप्रतिषेधे यद्वाधितं तद्वाधितमेवऽ इति। तद्यथा-जुहुतात् त्वमिति परत्वातातङदेशे कृते स्थानिवद्भावेन प्राप्तं धित्वं न भवति। लक्ष्यानुरोधेन व्यक्त्याकृतिपदार्थाश्रयणादनयोः परिभाषयोर्विषयविभागोऽवसेयः॥