अन्तोऽवत्याः

6-1-220 अन्तः अवत्याः उदात्तः सञ्ज्ञायां

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

संज्ञायामित्येव। अवतीशब्दान्तस्य संज्ञायामन्त उदात्तो भवति। अ॒जि॒र॒व॒ती। ख॒दि॒र॒व॒ती। हं॒स॒व॒ती। का॒र॒ण्ड॒व॒ती। ङीपः पित्त्वादनुदात्तत्वं प्राप्तम्। अवत्या इति किमुच्यते, न वत्या इत्येवमुच्येत ? नैवं शक्यम्, इहापि स्यात् — राज॑वती। स्वरविधौ नलोपस्यासिद्धत्वाद् नायमवतीशब्दः। वत्वं पुनराश्रयात् सिद्धम्॥

Siddhanta Kaumudi

Up

अवतीशब्दस्यान्त उदात्तः । वेत्रवती । ङीपः पित्त्वादनुदात्तत्वं प्राप्तम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

इहासन्देहार्थम्'वत्या अन्तः' इत्यवचनादकारप्रश्लेषो निश्चितः। तत्र प्रयोजनं पृच्छति -अवत्या इति किमुच्यत इति। अथावत्या इत्युच्यगानेऽपि राजवतीत्यत्र कस्मान्न भवति, भवति ह्यएतदपि नलोपे कृतेऽवतीशब्दान्तम् ? अत आह -स्वरविधावित्यादि। ननु चोदाहरणेऽपि मतोर्वत्वस्यासिद्धत्वादवतीशब्दान्तत्वं नास्ति ? इत्याहृ -वत्वं पुनरिति। पुनःशब्दो नलोपाद्विशेषं द्योतयति ॥