7-1-14 सर्वनाम्नः स्मै अतः ङेः
index: 7.1.14 sutra: सर्वनाम्नः स्मै
अतः सर्वनाम्नः अङ्गात् ङेः स्मै
index: 7.1.14 sutra: सर्वनाम्नः स्मै
सर्वनामशब्दस्य अदन्तात् अङ्गात् परस्य ङे-प्रत्ययस्य स्मै-आदेशः भवति ।
index: 7.1.14 sutra: सर्वनाम्नः स्मै
The ङि-प्रत्यय attached to an अदन्त सर्वनाम get an आदेश 'स्मै'.
index: 7.1.14 sutra: सर्वनाम्नः स्मै
अकारान्तात् सर्वनाम्नः उत्तरस्य ङेः स्मै इत्ययमादेशो भवति। सर्वस्मै। विश्वस्मै। यस्मै। तस्मै। कस्मै। अतः इत्येव, भवते। अथोऽत्र अस्मै इत्यन्वादेशेऽशादेशे एकादेशः प्राप्नोति? तत्र अन्तरङ्गत्वादेकादेशात् पूर्वं स्मैभावः क्रियते पश्चादेकादेशः इति।
index: 7.1.14 sutra: सर्वनाम्नः स्मै
अतः सर्वनाम्नो ङे इत्यस्य स्मै स्यात् । सर्वस्मै ॥
index: 7.1.14 sutra: सर्वनाम्नः स्मै
अतः सर्वनाम्नो डेः स्मै। सर्वस्मै॥
index: 7.1.14 sutra: सर्वनाम्नः स्मै
ङेर्यः 7.1.13 इत्यनेन अदन्तात् अङ्गात् परस्य ङे-प्रत्ययस्य यकारादेशे प्राप्ते सर्वनामशब्दानां विषये अनेन सूत्रेण अपवादत्वेन 'स्मै' आदेशः विधीयते । यथा -
→ सर्व + स्मै [सर्वनाम्नः स्मै 7.1.14 इति ङे-इत्यस्य स्मै-आदेशः]
→ सर्वस्मै ।
→ त अ ए [त्यदादीनामः 7.2.102 इत्यनेन तकारस्य अकारादेशः]
→ त ए [अतो गुणे 6.1.97 इति पररूप-एकादेशः]
→ त स्मै [सर्वनाम्नः स्मै 7.1.14 इति ङे-इत्यस्य स्मै-आदेशः]
→ तस्मै
ज्ञातव्यम् - 'अतः' इत्यत्र तपरकरणम् कृतमस्ति, अतः आकारान्त-स्त्रीलिङ्गशब्दानाम् विषये अयमादेशः न भवति । यथा - सर्वा + ङे = सर्वस्यै ।
index: 7.1.14 sutra: सर्वनाम्नः स्मै
सर्वनाम्नः स्मै - सर्वशब्दाच्चतुर्थ्येकवचने 'ङेर्यः' इति प्राप्ते — सर्वनाम्नः स्मै । 'अतो भिस' इत्यस्मादत इत्यनुवरत्ते । 'ङेर्य' इत्यतोङे॑रिति च । तदाह — अतः सर्वेत्यादिना ।
index: 7.1.14 sutra: सर्वनाम्नः स्मै
भवत इति । द्विर्यन्तास्त्यदादयः इति वचनादन्यत्र त्यदाद्यत्वाभावादनकारन्तत्वम् । अन्वादेशेऽशदेशे कृत इति । अनन्वादेशे त्वत्रास्मै चेद्रूपलोपः, न चाकृते इद्रूपलोपे एकादेशः प्राप्नोतीति । न चाद्गुणप्रसङ्गः, नित्येनेद्रूपलोपेन बाधितत्वात् । एकादेशः प्राप्नोतीति । नित्यत्वात् । वाक्यसंस्कारपक्षे चैतच्चोद्यम् । तद्ध्यर्थप्रतिपादनाय लोके प्रयुज्यते, तदेव च शास्त्रे विभज्यान्वाख्यायते । अन्तरङ्गत्वादिति । एकपदा(यत्वादन्तरङ्गत्वम्, पदद्वयाश्रयत्वादेकादेशो बहिरङ्गः ॥