संयोगान्तस्य लोपः

8-2-23 संयोगान्तस्य लोपः पदस्य पूर्वत्र असिद्धम्

Sampurna sutra

Up

संयोगान्तस्य पदस्य लोपः

Neelesh Sanskrit Brief

Up

यस्य पदस्य अन्ते संयोगः विद्यते तस्य पदस्य अन्तिमवर्णस्य लोपः भवति ।

Neelesh English Brief

Up

The last letter of a पद that ends in a संयोग is removed.

Kashika

Up

संयोगान्तस्य पदस्य लोपो भवति। गोमान्। यवमान्। कृतवान्। हतवान्। इह श्रेयान्, भूयानिति रुत्वं परमप्यसिद्धत्वात् संयोगान्तस्य लोपं न बाधते। जश्त्वे तु नाप्राप्ते तदारभ्यत इति तस्य बाधकं भवति — यशः, पय इति। दध्यत्र, मध्वत्रेत्यत्र तु यणादेशस्य बहिरङ्गलक्षणस्यासिद्धत्वात् संयोगान्तलोपो न भवति॥

Siddhanta Kaumudi

Up

संयोगान्तं यत्पदं तदन्तस्य लोपः स्यात् । इति यलोपे प्राप्ते ॥<!यणः प्रतिषेधो वाच्यः !> (वार्तिकम्) ।<!यणो मयो द्वे वाच्ये !> (वार्तिकम्) ॥ मय इति पञ्चमी यण इति षष्ठी इति पक्षे यकारस्यापि द्वित्वम् । तदिह धकारयकारयोर्द्वित्वविकल्पाच्चत्वारि रूपाणि ॥ एकधमेकयम् । द्विधं द्वियम् । द्विधमेकयम् । एकधं द्वियम् । सुद्ध्युपास्यः । मद्ध्वरिः । धात्रंशः । लाकृतिः ॥

Laghu Siddhanta Kaumudi

Up

संयोगान्तं यत्पदं तदन्तस्य लोपः स्यात्॥

Neelesh Sanskrit Detailed

Up

द्वयोः व्यञ्जनयोः स्वरस्य (विरामस्य च) व्यवधानं विना कृतम् उच्चारणम् संयोगः नाम्ना ज्ञायते । एतादृशः संयोगः यस्य पदस्य अन्ते विद्यते, तस्य पदस्य अन्तिमवर्णस्य (इत्युक्ते, संयोगस्य अन्तिमवर्णस्य) प्रकृतसूत्रेण लोपः भवति । उदाहरणानि एतानि —

1) विद्वस्-शब्दस्य पुंलिङ्गस्य प्रथमैकवचनस्य रूपे पदान्तसकारस्य लोपः — विद्वस् + सुँ [प्रथमैकवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे <<सुप्तिङन्तं पदम्>> 1.4.14 इति पदसंज्ञा अपि भवति ।] → विद्व् न् स् + स् [<<उगिदचां सर्वनामस्थाने अधातोः>> 7.1.70 इति नुमागमः] → विद्वान् स् स् [<<सान्तमहतः संयोगस्य>> 6.4.10 इति नकारस्य उपधायाः दीर्घः] → विद्वान् स् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इत्यनेन सुँ-प्रत्ययस्य अपृक्तसकारस्य लोपःभवति । सुँप्रत्ययस्य लोपे कृते अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> 1.1.62 इत्यनेन प्रत्ययविशिष्टम् कार्यम् अवश्यम् प्रवर्तते, अतः <<सुप्तिङन्तं पदम्>> 1.4.14 इति सुप्-प्रत्ययविशिष्टा पदसंज्ञा अवशिष्टस्य अंशस्य विषये अपि भवति ।] → विद्वान् [पदस्य अन्ते विद्यमानस्य संयोगस्य अन्तिमवर्णस्य <<संयोगान्तस्य लोपः>> 8.2.23 इत्यनेन लोपः भवति । अतः अत्र सकारस्य लोपः क्रियते ।] 2) पठ्-धातोः लङ्लकारस्य प्रथमपुरुषबहुवचनस्य रूपे पदान्ततकारस्य लोपः — पठ् + लङ् [<<अनद्यतने लङ्>> 3.2.111 इति लङ् । <<सुप्तिङन्तं पदम्>> 1.4.14 इति पदसंज्ञा ।] → पठ् + झि [<<तिप्तस्झि...>> 3.4.78 इति प्रथमपुरुषबहुवचनस्य विवक्षायाम् झि-प्रत्ययः] → पठ् + अन्ति [<<झोऽन्तः>> 7.1.3 इति झकारस्य अन्त्-आदेशः] → पठ् + अन्त् [<<इतश्च>> 3.4.100 इति इकारस्य लोपः] → पठ् + शप् + अन्त् [<<कर्तरि शप्>> 3.1.68 इति औत्सर्गिकं गणविकरणम् शप् ] → अट् + पठ् + अ + अन्त् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.78 इति अडागमः ] → अपठन्त् [<<अतो गुणे>> 6.1.97 इति गुणैकादेशः । → अपठन् [<<संयोगान्तस्य लोपः>> 8.2.23 इत्यनेन पदान्ततकारस्य लोपः] सूत्रे 'अन्त'ग्रहणस्य प्रयोजनम् अस्मिन् सूत्रे विद्यमानः संयोगान्तस्य इति शब्दः पदस्य इत्यस्य विशेषणरूपेण प्रयुज्यते । यस्य पदस्य अन्ते संयोगः विद्यते, तादृशस्य पदस्य निर्देशं कर्तुम् संयोगान्तस्य इति शब्दे अन्त इति शब्दः स्थापितः वर्तते । एतादृशस्य पदस्य लोपः भवति — इति प्रकृतसूत्रस्य आशयः । अनेन प्रकारेण सम्पूर्णस्य पदस्य लोपे प्राप्ते <<अलोऽन्त्यस्य>> 1.1.52 इत्यनया परिभाषया 'पदस्य अन्तिमवर्णस्यैव लोपः भवति' इति अर्थः स्पष्टी भवति । अतः अस्य सूत्रस्य सम्यक् अर्थज्ञापनार्थम् <<येन विधिस्तदन्तस्य>> 1.1.72 इत्यस्य, तथा च <<अलोऽन्त्यस्य>> 1.1.52 इत्यस्यापि सूत्रस्य साहाय्यम् आवश्यकम् अस्ति । बाध्यबाधकभावः प्रकृतसूत्रेण संयोगान्तस्य पदस्य अन्तिमवर्णस्य लोपे प्राप्ते; <<रात्सस्य>> 8.2.24 इति अग्रिमसूत्रेण सः नियम्यते । यत्र यत्र संयोगस्य प्रथमः वर्णः रेफः अस्ति, तत्र तत्र केवलम् सकारस्यैव लोपः भवति इति <<रात्सस्य>> 8.2.24 इति सूत्रस्य आशयः । अपि च, पदान्ते विद्यमानस्य संयोगस्य प्रथमवर्णः सकारः उत ककारः अस्ति चेत् प्रकृतसूत्रस्य अपवादरूपेण <<स्कोः संयोगाद्योरन्ते च>> 8.2.29 इति सूत्रम् प्रवर्तते, येन संयोगान्तलोपस्य अपेक्षया संयोगादौ विद्यमानस्य सकारस्य ककारस्य च लोपः भवतिवार्त्तिकम् - <!यणः प्रतिषेधो वाच्यः!> दध्यत्र, मध्वत्र एतादृशानां शब्दानां सिद्धौ इक्-वर्णस्य यणादेशे कृते यण्-वर्णः नित्यम् पदान्ते एव विधीयते, अतः प्रकृतसूत्रेण तस्य अनिष्टः लोपः प्राप्नोति । एतादृशस्य लोपस्य निवारणार्थम् सिद्धान्तकौमुद्याम् <!यणः प्रतिषेधो वाच्यः!> इति वार्त्तिकं पाठ्यते । पदान्ते विद्यमानस्य यण्-वर्णस्य प्रकृतसूत्रेण लोपः न भवति — इति अस्य वार्त्तिकस्य आशयः । प्रक्रिया इयम् — दधि + अत्र → दध्य् + अत्र [<<इको यणचि>> 6.1.77 इति इकारस्य यणादेशः यकारः । अत्र 'दधि' इति शब्दस्य पदसंज्ञा अस्ति, अतः स्थानिवद्भावेन 'दध्य्' इति शब्दस्य अपि पदसंज्ञा अवश्यं भवति । अस्यां स्थितौ <<संयोगान्तस्य लोपः>> 8.2.23 इति सूत्रेण यकारस्य लोपः प्राप्नोति । अस्य लोपस्य निवारणार्थं <!यणः प्रतिषेधो वाच्यः!> इति वार्त्तिकं दीयते । अनेन वार्त्तिकेन पदान्त-यकारस्य लोपः निवार्यते ।] → दध्यत्र भाष्यकारेण अत्र अन्यः अपि एकः उपायः उक्तः अस्ति । अत्र प्रक्रियायाम् विद्यमानस्य यणादेशस्य निमित्तम् अग्रे विद्यमानः भिन्नपदस्थः अकारः स्वीक्रियते, परन्तु संयोगान्तलोपस्य निमित्तम् 'दध्य्' इति एकस्मिन् एव पदे विद्यमानः संयोगः अस्ति । अतः, <<बह्वपेक्षम् बहिरङ्गम्, अल्पापेक्षम् अन्तरङ्गम्>> इति सिद्धान्तम् अनुसृत्य अत्र यणादेशस्य अपेक्षया संयोगान्तलोपः अन्तरङ्गः अस्ति । अतश्च <<असिद्धं बहिरङ्गमन्तरङ्गे>> इत्यनया परिभाषया यणादेशः संयोगान्तलोपस्य कृते असिद्धः एव ज्ञेयः । इत्युक्ते, यणादेशे कृते तत्पश्चात् संयोगान्तलोपः न हि प्रवर्तते । अयमेव सिद्धान्तः काशिकायाम् अपि उक्तः दृश्यते । 'सुध्युपास्यः' इति शब्दस्य चत्वारि रूपाणि अस्मिन् सूत्रे सिद्धान्तकौमुद्याम् प्रसङ्गवशात् सुध्युपास्य शब्दस्य — सुध्युपास्य, सुद्ध्युपास्य, सुद्ध्य्युपास्य, सुद्ध्ध्य्युपास्य — इति चत्वारि रूपाणि पाठितानि सन्ति । एतेषाम् प्रक्रिया एतादृशी वर्तते — सुधीभिः उपास्यः [<<कर्तृकरणे कृता बहुलम्>> 2.1.32 इति तृतीयातत्पुरुषः] सुधी उपास्य [<<कृत्तद्धितसमासाश्छ>> 1.2.46 इति प्रातिपदिकसंज्ञा ।<<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्यययोः लुक्] → सुध्य् उपास्य [<<इको यणचि>> 6.1.77 इति यणादेशः] → सुध्युपास्य → सुध्युपास्य, सुध्ध्युपास्य, सुध्य्युपास्य, सुध्ध्युपास्य [<<अनचि च>> 8.4.47 इति धकारस्य पाक्षिकं द्वित्वम् । <!यणो मयो द्वे वाच्ये!> इत्यत्र 'मयः इति पञ्चमी, यणः इति षष्ठी' इति पक्षे यकारस्य अपि पाक्षिकं द्वित्वम् ] → सुध्युपास्य, सुद्ध्युपास्य, सुद्ध्य्युपास्य, सुद्ध्ध्य्युपास्य [<<झलां जश् झशि>> 8.4.53 इति प्रथमधकारस्य जश्त्वे दकारः]

Balamanorama

Up

<<संयोगान्तस्य लोपः>> - तदाह — प्रसक्तस्येति । तत्र श्रवणाऽभावात्मके लोपे विहिते श्रवणार्थमुच्चारणमपि नास्तीत्यर्थाल्लभ्यते । प्रसक्तस्य किम् दधीत्यादौ क्विपोऽश्रवणात्मकलोपस्य प्रत्ययलक्षणमाश्रित्य ह्रस्वस्य पिति कृतीति तुग्मा भूत् । संयोगान्तस्य लोपः । पदस्येत्यधिकृतम् । संयोगोऽन्तो यस्येति विग्रहः । संयोगान्तस्य पदस्य लोप इत्यन्वयः । न च कृत्स्नपदस्य लोपः किन्त्वलोऽन्त्यस्येति परिभाषया तदन्तस्यैव । तदाह — संयोगान्तमित्यादिना । अत्र अन्तग्रहणं स्पष्टार्थमेव । संयोगस्य पदविशेषणतया येन विधिरित्येव तदन्तलाभात् । यत्तु संयोगावन्तौ यस्येति विग्रहलाभार्थमन्तग्रहणम् । अन्यथा सुदृषत्प्रासाद इत्यत्र पकारात् पूर्वस्यतकारस्य लोपः स्यादिति, तन्न, संयोगसंज्ञाया व्यासज्यवृत्तित्वात्, प्रत्येकवृत्तित्वमब्युपगम्या.ञन्तग्रहणप्रयोजनवर्णनस्य व्यर्थत्वादिति शब्दरत्ने विस्तरः ।इति यलोप इति । सुध् य इति यकारस्याऽनेन सूत्रेण लोपे प्राप्ते तत्प्रतिषेध आरभ्यते । यणः प्रतिषेधो वाच्यः । यणः संयोगान्तलोपप्रतिषेधो वक्तव्य इत्यर्थः ।अनेन वार्तिकेन यकारस्य संयोगान्तलोपो न भवती॑ति शेषः । इदं वार्तिकमाकरे प्रत्याख्यातम् । अथात्र यकारस्याऽचः परत्वाऽभावादच्परकत्वाच्चाऽनचि चेति द्वित्वाऽप्राप्तौ द्वित्वविधिमाह — यणो मयो द्वे वाच्ये । अनेन वार्तिकेन यकारस्य द्वित्वमित्यन्वयः । ननु यदि यण इति पञ्चमी मय इति षष्ठी तर्हि यणः परस्य मयो द्वित्वमिति लभ्यते । प्रकृते च यकारो न यणः परो नापि मय् । अतः कथमनेन वार्तिकेन तस्य द्वित्वमित्यत आह — मय इतीति । 'पक्षे' इत्यनेन उभयथा व्याख्यानमिष्टमिति सूचि तम् । विनिगमनाविरहादिति भावः । अत्रापि वार्तिके 'यरोऽनुनासिक' इत्यतो 'वा' ग्रहणमनुवर्तते । ततश्च फलितमाह — तदिहेति ।त॑दित्यव्यम् । इयता संदर्भेण यत्प्रपञ्चितं तेन इह=सुध् यित्यत्र यकारधकारयोर्द्वित्वविकल्पाच्चात्वारि रूपाणि सम्पद्यन्ते इत्यर्थः । एकधमेकयमिति । एको धकारो यस्य तदेकधम् । एवमेकयमित्यपि । धकारयकारयोरुभयोरपि द्वित्वाऽभावे एकधकारमेकयकारं च प्रथमं रूपमित्यर्थः । द्विधं द्वियमिति । द्वो धाकारौ यस्य द्विधम् । एवं द्वयमित्यपि । धकारयकारयोरुभयोरपि द्वित्वे द्वियकारं द्विधाकारं च द्वितीयं रूपमित्यर्थः । द्विधमेकयमिति । धकारस्य द्वित्वे यकारस्य द्वित्वाऽभावे द्विधमेकयं च तृतीयं रूपमित्यर्थः । एकधं द्वियमिति । धकारस्य द्वित्वाऽभावे यकारस्य द्वित्वे एकधं द्वियं च चतुर्थं रूपमित्यर्थः । सुद्ध्युपास्य इति । इहन भूसुधियो॑रिति निषेधस्तु न भवति, तस्याऽजादौ सुपि विधानात् । 'इकोऽसवर्ण' इत्यपि न,न समासे इति तन्निषेधात् । मद्ध्वरिरिति । मधुर्नाम असुरविशेषः तस्यारिश्शत्रुः — मद्ध्वरिः । हरिरित्यर्थः । अत्र धकारादुकारस्य स्थानत आन्तर्याद्यथासंख्यपरिभाषया वा वकारः । न चात्र वकारस्य द०न्तस्थानाधिक्यान्न स्थानसाम्यमिति वाच्यं, यावत्स्थानसाम्यस्य सावण्र्यप्रयोजकत्वेऽपि आन्तरतम्ये यत्किञ्चित्स्थानसाम्यस्यापि प्रयोजकत्वात् । अन्यथा चेता स्तोतेत्यादौ इकारादेरेकाराद्यनापत्तेः । धात्रंश इति । अत्र तकारस्यैव द्वित्वं न तु रेफस्येत्यनुपदमेव अचोरहाब्यामित्यत्र वक्ष्यते । लाकृतिरिति । ऌवर्णस्य आकृतिरिव आकृतिर्यस्येति विग्रहः । अत्र आकारे परे ऌवर्णस्य दन्तस्थानसाम्याल्लकारः । न च दन्तस्थानसाम्यात्प्रथमातिक्रमे कारणाऽभावाच्च तस्य वकार एवास्तु । आन्तरतम्ये यत्कचित्स्थानसाम्यस्य प्रयोजकताया मध्ध्वरिरित्यत्रोक्तत्वादिति वाच्यम्, त्र हि चत्वारो यणो यवरला विधेयाः । तत्र वकारविधिरुकारे ओष्ठस्थानसाम्यान्निस्सपत्नः सावकाशः, तत्र लकारस्य दन्तरूपस्थानभेदादप्राप्तेः । लाकृतिरित्यत्र ऌवर्णे तु वकारो लकारश्चेत्युभयमपि प्राप्तम् । अत्र शब्दपरविप्रतिषेधमाश्रित्य लकारविधिः परत्वादपवादत्वाच्च वकारविधिं बाधते । यदि हि प्रथमातिक्रमे कारणाऽबावादत्रापि वकार एव स्यात्तर्हि लकारविधिर्निरवकाश एव स्यात् । अतोऽत्र ऌवर्णस्य लकार एवेत्यास्तां तावत् ।

Padamanjari

Up

इह श्रेयान्, भूयानिति संयोगान्तलोपो न प्राप्नोति, परत्वाद्रुत्वेन बाध्यमानत्वात् ? इत्याशङ्क्याह - इहेति । यथैव तर्हि रुत्वमसिद्धत्वात्संयोगान्तलोपं न बाधते, तथा जश्त्वमपि न बाधेत; ततश्च पयः, यश इति जश्त्वमेव स्याद् ? अत आह - जश्त्वे त्विति । संयोगान्तलोपे हि प्राप्तेऽप्राप्ते च रुत्वमारभ्यते - श्रेयानित्यादौ प्राप्ते, पय इत्यादौ त्वप्राप्ते । जश्त्वे तु सर्वत्र प्राप्ते एव । तस्माद्येननाप्राप्तिन्यायेन जश्त्वमेव बाध्यते, न संयोगान्तलोपः । दध्यत्रेत्यादि । यणादेशो हि द्विपदाश्रयत्वाद्बहिरङ्गः, संयोगान्तस्य लोपस्तु एकपदाश्रयत्वादन्तरङ्गः । अन्तग्रहणं शक्यमकर्तुम् ।'पदस्य' इति वर्तते, संयोगेन हि पदे विशेष्यमाणे तदन्तविधिना'संयोगान्तस्य' इति लभ्यत एव ॥