8-2-52 पचः वः पदस्य पूर्वत्र असिद्धम् निष्ठातः नः
पचेर्धातोरुत्तरस्य निष्ठातकारस्य वकारादेशो भवति। पक्वः। पक्ववान्॥
पक्वः ॥
पक्वः॥ क्षै क्षये॥
<<पचो वः>> - पचो वः । पचेः परस्य निष्टातस्य वः स्यादित्यर्थः । पक्व इति । वत्वस्याऽसिद्धत्वात्कुत्वम् ।