एकविभक्ति चापूर्वनिपाते

1-2-44 एकविभक्ति च अपूर्वनिपाते समासे उपसर्जनम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

एका विभक्तिर्यस्य तदिदमेकविभक्ति। समासे विधीयमाने यद् नियतविभक्तिकं द्वितीये संबन्धिनि बहुभिर्विभक्तिभिर्युज्यमानेऽप्येकयैव विभक्त्या युज्यते तदुपसर्जनसंज्ञं भवत्यपूर्वनिपाते, पूर्वनिपातं पूर्वनिपाताख्यमुपसर्जनकार्यं वर्जयित्वा। <<निरादयः क्रान्ताद्यर्थे पञ्चम्या>> (२.२.१८ वा०)। पूर्वपदे नानाविभक्तिकेऽप्युत्तरपदं तु पञ्चम्यन्तमेव भवति। निष्क्रान्तःकौशाम्ब्या निष्कौशाम्बिः। निष्क्रान्तं कौशाम्ब्या निष्कौशाम्बिम्। निष्क्रान्तेन कौशाम्ब्या निष्कौशाम्बिना। निष्क्रान्ताय कौशाम्ब्या निष्कौशाम्बये। निष्क्रान्तात् कौशाम्ब्या निष्कौशाम्बेः। निष्क्रान्तस्य कौशाम्ब्या निष्कौशाम्बेः। निष्क्रान्ते कौशाम्ब्या निष्कौशाम्बौ। एवं निर्वाराणसिः। एकविभक्तीति किम्? राजकुमारी। अपूर्वनिपात इति किम्? न हि भवति कौशाम्बीनिरिति॥

Siddhanta Kaumudi

Up

विग्रहे यन्नियतविभक्तिकं तदुपसर्जनसंज्ञं स्यात् न तु तस्य पूर्वनिपातः ॥

Laghu Siddhanta Kaumudi

Up

विग्रहे यन्नियतविभक्तिकं तदुपसर्जनसंज्ञं स्यान्न तु तस्य पूर्वनिपातः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<एकविभक्ति चापूर्वनिपाते>> - अत्र दिशाशब्दस्यापि उपसर्जनत्वमाह-एकविभक्ति ।प्रथमानिर्दिष्टं समास उपसर्जन॑मित्यतः 'समास' इति,उपसर्जन॑मिति चानुवर्तते । 'समास' इत्यनेन विग्रहवाक्यं लक्ष्यते । एकैव विभक्तिर्यस्य तदेकंविभक्ति । नियतविभक्तिकमिति यावत् । एवंच विग्रहे यन्नियतविभक्तिकं तत्पूर्वनिपातभिन्नकार्ये कर्तव्ये उपसर्जनं स्यादित्यर्थः । फलितमाह-विग्रहे यन्नियतेति ।निष्कौशाम्बि॑शब्द उदाहरणम् । तत्र कौशाम्ब्या निष्क्रान्तः । निष्क्रातं निष्क्रान्तेन निष्क्रान्ताय निष्क्रान्तात् निष्क्रान्तस्य निष्क्रान्ते इति विग्रहेषुनिरादयः क्रान्ताद्यर्थे पञ्चम्या॑ इति समासे निष्कौशाम्बिः निष्कौशाम्ब निष्कौशाम्बिना इत्यादीति स्थितिः । अत्रकौशाम्बी॑शब्द एव विग्रहे नियतविभक्तिक इति तस्योपसर्जनत्वमनेन भवति । समासशास्त्रे कौशाम्बीशब्दस्य पञ्चमीनिर्दिष्टत्वमेव, न तु प्रथमानिर्दिष्टत्वमिति प्रथमानिर्दिष्टमित्यनेनोपसर्जनत्वाऽप्राप्तौ वचनम् । तत्र कौशाम्बीशब्दस्याऽनेन उपसर्जनत्वेऽपिनपूर्वनिपातः तत्तद्विभक्त्यन्तैरेव समास इत्यत्र इदमेव सूत्रं प्रमाणम् ।तुल्यार्थै॑रिति सूत्रे भाष्ये स्पष्टमिदम् । प्रथमान्तपदेनैव समास इत#इअनेक॑मिति सूत्रे भाष्ये स्थितम् ।

Padamanjari

Up

विभक्तिशब्दः सुपां वाचकः, कारकशक्तिवचनो वा; विभज्यतेऽनया प्रातिपदिकार्थ इति कृत्वा । समासे विधीयमाने इति । यदुपमर्दनेन समासो भवति तस्मन्वाक्य इत्यर्थः, समासरूपप्राप्त्यभिमुखे पदत्रय इति यावत् । एतन समासार्थं वाक्यमत्र समासः, न पूर्वसूत्र इव शास्त्रमिति दर्शयति । शास्त्रे सर्वमेविभक्तिमित्येकविभक्तीत्यनर्थकं स्यात्, मुख्येऽपि समासे प्रत्ययलक्षणेनैकविभक्तित्वं समर्थनीयमिति वाक्यमेवात्र समासः । एकस्मिंश्च प्रयोगे सर्वमेकविभक्तिकमिति विशेषणओपादानसामर्थ्यतप्रयोगभेदेनापि यस्य न सर्वविभक्तित्वं तदाश्रीयत इत्याह-यन्नियतविभक्तिकमिति । एतदेव स्पष्ययति-द्वितीये सम्बन्धिनीत्यादि । केचिदाहुः-ऽयेन सह समास्यते द्वितीयसम्बन्धीऽ इति, एवं तु पञ्चानां खट्वानां समाहारः पञ्चखट्वीति वा टाबन्त इति स्त्रीलिङ्गपक्षे उपसर्जनह्रस्वत्वं न स्यात् । समाहारो ह्यत्र नानाविभक्तियुक्तो न पञ्चञ्शब्दः, तस्मातप्रधानार्थवाची शब्दो द्वितीयः सम्बन्धः । निष्कौशाम्बिरिति कौशाम्बीशब्दो निष्क्रमणक्रियापेक्षयाऽपादानशक्तियोगात् पिञ्चम्यन्ते एव, न तस्य क्रियान्तरमपेक्ष्य शक्त्यन्तरावेशः सम्भवति । निःशब्दस्तु निष्क्रान्तप्रधानो नानाशक्तिभिर्युज्यते । निष्कौशाम्बिरिति । कुशाम्बेन निर्वृता नगरी कौशाम्बी, ऽगोस्त्रियोरुपसर्जनस्यऽ इति ह्रस्वः । निर्वाराणसिरिति । अनो जलं तद्वरं यस्याः सा वराणा गङ्गा, तस्या अदूरभवा नगरी वाराणसी । पुराणे तु वरणा चासिश्च नद्यौ, शकन्ध्वादिः, तयोरदूरभवा पृषोदरादित्वाद्रेफाकारस्य दीर्घः । निसः पूर्वेणोपसर्जनत्वम्, प्रधानस्यापि हि प्रथमानिर्देशसामर्थ्यात् भवतीत्युक्तम् । इहास्यावकारशोऽप्रथमानिर्द्दिष्टः, पूर्वस्यावकाशोऽनेकविभक्तिः नीलोत्पलादिः, अर्द्धिपिप्पल्यादिश्च; कष्टश्रितादिषु कष्टादय एकविभक्तिकाः प्रथमानिर्दिष्टाश्चेत्युभयप्रसङ्गे परत्वादनेनैव प्राप्नोति, ततश्चऽअपूर्वनिपातेऽ इति प्रतिषेधप्रसङ्गः, न; अप्रतिषेधात् । नायं प्रसज्यप्रतिषेधः-पूर्वनिपाते नेति, किं तर्हि ? पर्युदासोऽयम्, पूर्वनिपाते न विधिर्न प्रतिषेधः । प्रसज्यप्रतिषेधेऽप्यनन्तरप्राप्तिः प्रतिषिध्यते, कुत एतद् ? अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा भवति, पूर्वा प्राप्तिरप्रतिषिद्धा तया भविष्यति । न चेयं प्राप्तिः पूर्वां प्राप्तिं बाधते, प्रतिषिद्धत्वात् ॥