पदान्तस्य

8-4-37 पदान्तस्य पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे

Sampurna sutra

Up

रषाभ्याम् पदान्तस्य नः णः न ।

Neelesh Sanskrit Brief

Up

रेफषकारात् परस्य पदान्तनकारस्य णत्वं न भवति ।

Neelesh English Brief

Up

A नकार occurring at end of a पद does not get णत्वम् ।

Kashika

Up

पदान्तो यो नकारस्तस्य णकारादेशो न भवति। वृक्षान्। प्लक्षान्। अरीन्। गिरीन्॥

Siddhanta Kaumudi

Up

पदान्तस्य नस्य णत्वं न स्यात् । रामान् ॥

Laghu Siddhanta Kaumudi

Up

नस्य णो न। रामान्॥

Neelesh Sanskrit Detailed

Up

यद्यपि पदे णत्वनिमित्तकः रेफः षकारः वा अस्ति, तथापि तस्य उपस्थितौ पदान्ते विद्यमानस्य नकारस्य णत्वम् न भवति । यथा - पूषन् , वृक्षान् , अकुर्वन्, चरन् - एतेषु पदेषु विद्यमानस्य नकारस्य णत्वं न भवति ।

Balamanorama

Up

<<पदान्तस्य>> - पदान्तस्य । 'रषाभ्यां नो ण' इत्यनुवर्तते ' न भाभूपू' इत्यतोने॑ति च, तदाह — पदान्तस्येति । अथ तृतीयाविभक्तिः । तत्र टा इति टकारस्य 'चुटू' इतीत्संज्ञायां लोपः । टकारोच्चारणं तु 'टाङसिङसां'द्वितीयाटौस्स्वि॑त्यादौ विशेषणार्थम् ।

Padamanjari

Up

हे करिन्नित्याद्यप्युदाहरणम् ॥