6-1-103 तस्मात् शसः नः पुंसि संहितायाम् अचि एकः पूर्वपरयोः अकः दीर्घः पूर्वसवर्णः
प्रथमयोः पूर्वसवर्णः तस्मात् पुँसि शसः नः
पुंलिङ्गशब्दात् शस्-प्रत्यये परे <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इति सूत्रेण पूर्वसवर्णदीर्घे कृते तस्मात् अनन्तरम् विद्यमानस्य शस्-प्रत्ययस्य सकारस्य नकारादेशः भवति ।
When the rule 'प्रथमयोः पूर्वसवर्णः' is used to create a पूर्वसवर्णदीर्घ for a पुंलिङ्ग word in presence of the शस्-प्रत्यय, then the सकार of the शस्-प्रत्यय is converted to नकार.
तस्मात् पूर्वसवर्णदीर्घादुत्तरस्य शसोऽवयवस्य सकारस्य पुंसि नकारादेशो भवति। वृक्षान्। अग्नीन्। वायून्। कर्तन्। हर्तन्। षण्ढकान्। पण्डकान्। स्थूरान्। अररकान् पश्य। सर्व एते पुँल्लिङ्गविशिष्टं स्वार्थं प्रतिपादयन्ति। इह तु चञ्चेव चञ्चा, <<लुम्मनुष्ये>> ५.३.९८ इति कनो लुपि कृते <<लुपि युक्त वद् व्यक्ति वचने>>१.२.५१ इति पुंसोऽपि स्त्रीलिङ्गता, तेन नत्वं न भवति — चञ्चाःपश्य, वध्रिकाः पश्येति। तस्मादिति किम् ? एतांश्चरतो गाः पश्य। शस इति किम् ? वृक्षाः। प्लक्षाः। पुंसीति किम् ? धेनूः। बह्वीः। कुमारीः॥
पूर्वसवर्णदीर्घात्परो यः शसः सकारस्तस्य नः स्यात्पुंसि ॥
पूर्वसवर्णदीर्घात्परो यः शसः सस्तस्य नः स्यात्पुंसि॥
अक्-वर्णान्त-पुंलिङ्गशब्दात् शस्-प्रत्यये परे <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इति सूत्रेण पूर्वपरयोः पूर्वसवर्णदीर्घैकादेशे कृते, तस्मात् (पूर्वसवर्णदीर्घात्) परस्य शस्-प्रत्ययस्य सकारस्य प्रकृतसूत्रेण नकारादेशः विधीयते । यथा, राम-शब्दस्य शस्-प्रत्यये परे 'रामान्' इति रूपम् एतादृशम् सिद्ध्यति —
<<तस्माच्छसो नः पुंसि>> - तस्माच्छसोनः ।प्रथमयोः पूर्वसवर्ण॑ इति पूर्वसूत्रकृतः संनिहितः पूर्वसवर्णदीर्घस्तस्मादित्यनेन परामृश्यते । दिक्शब्दयोगे पञ्चम्येषा । तेनपरस्ये॑त्यध्याहार्यम् । 'शस' इत्यवयवषष्ठी । स चावयवः परत्वेन विशेष्यते । स चावयवोऽर्थात् सकार एव, अन्यस्याऽसंभवात् । तदाह — [कृत]पूर्वेत्यादिना । कृतपूर्वेति किम् । दीर्घात्परस्य शसवयवस्येत्युक्तौ,एतान् गाः पश्ये॑त्यत्र गोशब्दात् शसःसस्यापि नत्वप्रसङ्गः । अतः [कृत] पूर्वसवर्णदीर्घादिति । 'गा' इत्यत्र च औतोम्शसोरित्याकार एकादेशः, न तु पूर्व सवर्णदीर्घ इति ततः परस्य न नत्वम् । शसः किम् । रामाः प्रकृते च नत्वे रामानिति रूपम् ।
तस्मादित्यनेनान्तरः पूर्वसवर्णदीर्घो निर्द्दिश्यत इत्याह-तस्मात्पूर्वसवर्णदीर्घादिति। उतरस्य शशोऽवयवस्येति। उतरस्येत्येतच्छसवयवस्य विशेषणम्, तस्मादुतरो यः शसोऽवयवस्तस्येति, न तु शशः; असम्भवात्। न हि पूर्वसवर्णदीर्घात् परः क्वचिच्छस् सम्भवति। अन्तादिवद्भावोऽपि न भवति; उभयत आश्रयणात्। अत एवानुपातमप्यवयवस्येति लभ्यते।'बहुषु बहुवचनम्' इत्यत्र'त्रिकं प्रातिपदिकार्थः' इत्युक्तम्, तेन'पुसि' इत्येतत्प्रकृतिविशेषणम् -पुंशब्दात् परस्य शसोऽवयवस्येति। यद्येवम्, वृक्षानित्यादिकं पदं नकारान्तमुदाहरणमुपपद्यते। षणुकषण्ढकशब्दाविह लोकप्रसिद्ध्या नपुंसके वर्तमानावपि पुंस्तावनुगतमेवार्थमाहतुः, यथा कुमार्यादिषु वर्तमानोऽर्थशब्दः, सामान्यविशेषा एव स्त्रीत्वादयो न पुनस्तनादयः। स्त्रीसूत्रे चैतदुपपादितम्। स्थूरकानित्यादि तूदाहरणद्वयमयुक्तम्, कथम्? स्थूरकाया अपत्यानि, अररकाया अपत्यानि'गर्गादिभ्यो यञ्' , बहुषु लुक्, स्त्रीप्रत्ययस्यापि'लुक् तद्धितलुकि' इति लुक्, स्थूरक, अररक-इत्येतौ स्त्रीशब्दौ, ताभ्यां परोऽत्र शस् भवति; न तु पुंशब्दाब्यामित्यत आह -सर्व एत इति। न केवलं वृक्षादयः, अपि त्वेतावपीति सर्वशब्दस्यार्थः, लुप्तेऽपि प्रत्यये प्रकृतिरेव तदर्थे वर्तते, प्रत्ययार्थश्चात्रायमन्यरूपः। पुंस्त्वविशिष्ट इति। स्त्रीवाचकत्वेन प्रसिद्धावप्येतावस्मिन् प्रयोगे पुंशब्दाविति भावः। यद्येवम्, चञ्चेव चञ्चाः पुमांस इति ठिवे प्रतिकृतौऽ इति कनः'लुम्मनुष्ये' इति लुपि कृते प्रकृतिरेव चञ्चाशब्दः पुंस्त्वविशिष्ट्ंअ प्रत्यार्थमस्मिन् प्रयोग आहेति नत्वप्रसङ्गः? इत्यत आह-इह त्वित्यादि। प्रत्ययार्थोऽपि नैवात्र पुंस्त्वविशिष्टः, किं तर्हि? अतिदेशात् स्त्रीत्वविशिष्ट इत्यर्थः। तस्मादिति किमिति। प्रकृतस्य दीर्घग्रहणस्य पञ्चम्या विपरिणामात्सिद्धमिति प्रश्नः। एतान् गाः पश्येति। ठौतोऽम्शसोःऽ इत्यात्वमेकादेशः, ठेकः पूर्वपरयोःऽ इति महाप्रकरणम्, ततश्च तद्विषयमेव नत्वं स्यादिति मन्यते। नन्वेवं'षत्वतुकोरसिद्धः' इति च तत्रैव कर्तव्यम् -शशो नः पुंसीति, इह तु प्रकरणादनन्तरमेवोपजीविष्यते? तदेव तर्हि तस्माद्ग्रहणेन विस्पष्ट।ल्ते ॥