टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः

4-1-15 टित् आण् अञ् द्वयसच् दघ्नच् मात्रच् तयप् ठक् ठञ् कञ् क्वरपः प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् ङीप् अनुपसर्जनात्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

टित्-शब्दाः, ढकारादिप्रत्ययान्तशब्दाः, तथा च 'अण्, अञ्, द्वयसच्, दघ्नच्, मात्रच्, तयप्, ठक्, ठञ्, कञ्, क्वरप्' — एतेषु कश्चन प्रत्ययः यस्य शब्दस्य अन्ते विद्यन्ते, तस्मात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति ।

Kashika

Up

अत इति सर्वत्रानुवर्तते। तत् सति संभवे विशेषणं भवति। टिदादिभ्यः प्रातिपदिकेभ्यः स्त्रियां ङीप् प्रत्ययो भवति। टापोऽपवादः। टितस्तावत् — कुरुचरी। मद्रचरी। इह कस्माद् न भवति — पचमाना यजमाना? द्व्यनुबन्धकत्वाल् लटः। ल्युडादिषु कथम्? टित्करणसामर्थ्यात्। इतरत्र तु टेरेत्वं फलम्। पठिता विद्येति? आगमटित्त्वमनिमित्तम्, ट्युट्युलौ तुट् च ४.३.२३ इति लिङ्गात्। ढ — सौपर्णेयी। वैनतेयी। निरनुबन्धको ढशब्दः स्त्रियां नास्तीति निरनुबन्धकपरिभाषा (परि०८१) न प्रवर्तते। अण् — कुम्भकारी। नगरकारी। औपगवी। <<णेऽपि क्वचिदण्कृतं कार्यं भवति>> (परि० ८७)। चौरी, तापसी। दाण्डा, मौष्टेत्यत्र न भवति। अञ् — औत्सी। औदपानी। <<शार्ङ्गरवाद्यञः०>> ४.१.७३ इति पुनरञो ग्रहणं जातिलक्षणं ङीषं बाधितुम्। द्वयसच् — ऊरुद्वयसी। जानुद्वयसी। दघ्नच् — ऊरुदघ्नी। जानुदघ्नी। मात्रच् — ऊरुमात्री। जानुमात्री। तयप् — पञ्चतयी। दशतयी। ठक् — आक्षिकी। शालाकिकी। ठञ् — लावणिकी। ठक्ठञोर्भेदेन ग्रहणं ठनादिनिवृत्त्यर्थम्। कञ् — यादृशी। तादृशी। क्वरप् — इत्वरी। नश्वरी। ख्युन् — आढ्यंकरणी। सुभगंकरणी॥ नञ्स्नञीकक्तरुणतलुनानामुपसंख्यानम्॥ स्त्रैणी। पौंस्नी। शाक्तीकी। याष्टीकी। तरुणी। तलुनी॥

Siddhanta Kaumudi

Up

अनुपसर्जनं यट्टिदादि तदन्तं यददन्तं प्रातिपदिकं ततः स्त्रियां ङीप् स्यात् । कुरुचरी । उपसर्जनात्वान्नेह बहुकुरूचरा । नदट्, नदी । वक्ष्यमाणेत्यत्र टित्त्वादुगित्त्वाच्च ङीप् प्राप्तः । यासुटो ङित्त्वेन [(परिभाषा - ) लाश्रयमनुबन्धकार्यं नादेशानाम्] इति ज्ञापनान्न भवति । श्नः शानचः शित्त्वेन क्वचिदनुबन्धकार्येऽप्यनल्विधाविति निषेधज्ञापनाद्वा । सौपर्णेयी । ऐन्द्री । औत्सी । ऊरुद्वयसी । ऊरुदघ्नी । ऊरुमात्री । पञ्चतयी । आक्षिकी । लावणिकी । यादृशी । इत्वरी ॥ [(परिभाषा - ) ताच्छीलिके णेऽपि] ॥ चौरी ।<!नञ्स्नञीकक्ख्युंस्तरुणतलुनानामुपसंङ्ख्यानम् !> (वार्तिकम्) ॥ स्त्रैणी । पौंस्नी । शाक्तीकी । आढ्यङ्करणी । तरुणी । तलुनी ॥

Laghu Siddhanta Kaumudi

Up

अनुपसर्जनं यट्टिदादि तदन्तं यददन्तं प्रातिपदिकं ततः स्त्रियां ङीप्स्यात् । कुरुचरी । नदट् नदी । देवट् देवी । सौपर्णेयी । ऐन्द्री । औत्सी , ऊरुद्वयसी । ऊरुदघ्नी । ऊरुमात्री । पञ्चमयी । आक्षिकी । लावणिकी । यादृशी । इत्वरी । <<नञ्स्नञीकक्ख्युंस्तरुणतलुनानामुपसंख्यानम्>> (वार्त्तिकम्) । स्त्रैणी । पौंस्री । आक्तीकी । याष्टीकी । आढ्यङ्करणी । तरुणी । तलुनी ॥

Neelesh Sanskrit Detailed

Up

<<स्त्रियाम्>> 4.1.3 इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः ङीप् प्रत्ययः प्रकृतसूत्रेण पाठ्यते । टित्-शब्दाः, ढकारादिप्रत्ययान्तशब्दाः, तथा च अण्, अञ्, द्वयसच्, दघ्नच्, मात्रच्, तयप्, ठक्, ठञ्, कञ्, क्वरप् — एतेषु कश्चन प्रत्ययः यस्य शब्दस्य अन्ते विद्यन्ते, तस्मात् स्त्रीत्वं द्योतयितुम् <<अजाद्यतष्टाप्>> 4.1.4 इत्यनेन टाप्-प्रत्यये प्राप्ते; तद्बाधित्वा ङीप्-प्रत्ययः भवति — इति अस्य सूत्रस्य आशयः । 1. ह्रस्व-अकारान्ताः टित्-शब्दाः ल्युट्, ण्युट्, एतादृशैः टित्-प्रत्ययैः निर्मितेभ्यः ह्रस्व-अकारान्तशब्देभ्यः स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति । अपि च, <<नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः>> 3.1.134 इत्यस्मिन् सूत्रे पाठिते पचादिगणे विद्यमानेभ्यः देवट्, नदट् आदिभ्यः टित्-प्रातिपदिकेभ्यः अपि स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति । यथा — (i) <<करणाधिकरणयोश्च>> 3.3.117 इत्यनेन करणे अर्थे लिख्-धातोः ल्युट्-प्रत्ययेन लेखन इति शब्दे सिद्धे, तत्र स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति । प्रक्रिया इयम् — लिख्यते अनया = लिखँ (अक्षरविन्यासे, <{6.92}>) → लिख् + ल्युट् + ङीप् [<<करणाधिकरणयोश्च>> 3.3.117 इति ल्युट् । स्त्रीत्वं द्योतयितुम् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इति ङीप्] → लिख् + अन + ई [टकारस्य <<चुटू>> 1.3.7 इति इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः । <<युवोरनाकौ>> 7.1.1 इति यु-प्रत्ययस्य अन-आदेशः] → लेख् + अन + ई [<<पुगन्तलघूपधस्य च>> 7.3.86 इति उपधागुणः] → लेख् + अन् + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः] → लेखनी लिख्यते अनया सा लेखनी (ii) <<चरेष्टः>> 3.2.16 इति सूत्रेण चर्-धातोः सुबन्ते उपपदे ट-प्रत्ययः भवति । प्रत्ययस्य टित्त्वात् तत्र स्त्रीत्वं द्योतयितुम् टाप्-प्रत्ययः विधीयते । यथा — कुरुषु चरति सा = चरँ (गतौ भक्षणे च, <{1.640}>) → कुरुषु + चर् + ट + ङीप् [<<चरेष्टः>> 3.2.16 इति सप्तम्यन्ते उपपदे ट-प्रत्ययः । ततः स्त्रीत्वं द्योतयितुम् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इति ङीप्] → कुरु + चर् + अ + ई [टकारस्य <<चुटू>> 1.3.7 इति इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः । <<उपपदमतिङ्>> 2.2.19 इति उपपदसमासः, <<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुब्लुक्] → कुरु + चर् + ० + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः] → कुरुचरी कुरुषु चरति सा कुरुचरी (iii) <<सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च>> 4.3.23 इति सूत्रेण अद्य इत्यस्मात् कालवाचिनःअव्ययात् ट्यु इति प्रत्यये कृते अद्यतन इति शब्दः सिद्ध्यति । अत्रापि प्रत्ययस्य टित्त्वात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः एव विधीयते । प्रक्रिया इयम् — अद्य भवा = अद्य + तुट् + ट्यु + ङीप् [<<सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च>> 4.3.23 इति सूत्रेण ट्यु-प्रत्ययः, तस्य तुट्-आगमः । तः स्त्रीत्वं द्योतयितुम् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इति ङीप्] → अद्य + त् + अन [प्रत्ययटकारस्य <<चुटू>> 1.3.7 इति इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः । यु-इत्यस्य <<युवोरनाकौ>> 7.1.1 इति अन-आदेशः] → अद्यतन् + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः] → अद्यतनी अद्य भवा सा अद्यतनी (iv) <<तस्य पूरणे डट्>> 5.2.48 इत्यनेन सङ्ख्यावाचिभ्यः शब्देभ्यः पूरणार्थे डट्-प्रत्ययः भवति । अयम् टित्-प्रत्ययः, अतः अस्मात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते — एकादशानां पूरणी → एकादशानाम् + डट् + ङीप् [<<तस्य पूरणे डट्>> 5.2.48 इति डट् । ततः <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इति ङीप्] →‌ एकादशन् + अ + ई [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति तद्धितान्तस्य प्रातिपदिकसंज्ञा, ततः <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुब्लुक्] → एकादश् + अ + ई [<<टेः>> 6.4.143 इति टिलोपः] → एकादश् + ० + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः] → एकादशी (v) <<नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः>> 3.1.134 इत्यस्मिन् सूत्रे विद्यमाने पचादिगणे चरट्, मोदट्, देवट् इत्यादीनि अनेकानि प्रातिपदिकानि इत्संज्ञकटकारेण सह पाठितानि सन्ति । एतेषु प्रातिपदिकेषु विद्यमानस्य इत्संज्ञक-टकारस्य प्रयोजनम् अपि प्रकृतसूत्रेण ङीप्-प्रत्ययविधानम् इत्येव ज्ञेयम् । यथा — दीव्यति सा = दिवुँ (क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु, <{4.1}>) → दिव् + अच् [<<नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः>> 3.1.134 इत्यनेन पचादिगणत्वात् अच्-प्रत्ययः ] → देवट् + ई [दिव्-धातोः अच्-प्रत्ययान्तम् देवट् इति रूपम् पचादिगणे निर्दिष्टम् अस्ति, तदेव स्वीक्रियते ।तत्र टित्-निर्देशसामर्थ्यात् स्त्रीत्वे <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इति ङीप्-प्रत्ययः] → देव् + ० + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः] →‌ देवी एवमेव मोदते सा = मोदट् + ङीप् → मोदी, चरति सा = चरट् + ङीप् → चरी आदीनि प्रातिपदिकानि सिद्ध्यन्ति । (vi) धातुपाठे धेट् (पाने, <{1.1050}>) इति धातुः इत्संज्ञक-टकारेण सह पाठितः अस्ति । अत्रापि इत्संज्ञकटकारस्य प्रयोजनम् प्रकृतसूत्रेण ङीप्-प्रत्ययविधानम् इत्येव वर्तते । <<नासिकास्तनयोर्ध्माधेटोः>> 3.2.29 इति सूत्रेण धेट्-धातोः खश्-प्रत्यये कृते स्त्रीत्वं द्योतयितुम् तस्मात् प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते — स्तनम् धयति सा → धेट् (पाने, <{1.1050}>) → स्तनम् + धे + खश् + ङीप् [<<नासिकास्तनयोर्ध्माधेटोः>> 3.2.29 इति खश्-प्रत्ययः । ततः स्त्रीत्वे धेट्-धातोः टित्त्वसामर्थ्यात् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इत्यनेन ङीप् एव भवति ] → स्तन + धे + अ + ई [<<उपपदमतिङ्>> 2.2.19 इति उपपदसमासः । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति उपपदस्य सुप्-प्रत्ययस्य लुक्] → स्तन + धे + शप् + अ + ई [सार्वधातुकप्रत्यये परे <<कर्तरि शप्>> 3.1.68 इति शप्] → स्तन + मुम् + धे + अ + अ + ई [<<अरुर्द्विषदजन्तस्य मुम्>> 6.3.67 इति मुमागमः] → स्तनम् + धय् + अ + अ + ई [<<एचोऽयवायावः>> 6.1.78 इति अयादेशः ] → स्तनम् + धय् + अ + ई [<<अतो गुणे>> 6.1.97 इति द्वयोः अकारयोः पररूपैकादेशः] → स्तनम् + धय् + ० + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः] → स्तनंधयी [<<मोऽनुस्वारः>> 8.3.23 इति मकारस्य अनुस्वारः] → स्तनंधयी, स्तनन्धयी [<<वा पदान्तस्य>> 8.4.59 इति अनुस्वारस्य विकल्पेन परसवर्णः] 1. लट्, लोट् इत्यादयः लकारप्रत्ययाः यद्यपि टितः सन्ति तथापि तेषां प्रयोगेण प्रातिपदिकानि नैव सिद्ध्यन्ति; अतः तेषां विषये इदं सूत्रं नैव प्रवर्तते । 2. लट्-लकारस्य टित्त्वम् लकारस्य स्थाने जायमानयोः शतृ, शानच् इति प्रत्यययोः विषये स्थानिवद्भावेन नैव अतिदिश्यते, यतः तत्र << लाश्रयमनुबन्धकार्यं नादेशानाम्>> इति परिभाषया तस्य निषेधः कृतः अस्ति । अतः शतृ/शानच्-प्रत्ययौ टितौ नैव स्वीकर्तव्यौ । अनेनैव कारणेन लिट्-लकारस्य टित्त्वम् क्वसु, कानच् इत्येतयोः विषये, तथा च लृट्-लकारस्य टित्त्वम् शतृ, शानच् इत्येतयोः विषये नैव अतिदिश्यते । 3. आगमेषु विद्यमानः इत्संज्ञकः टकारः <<आद्यन्तौ टकितौ>> 1.1.46 इत्यनेन आद्यवयावर्थः अस्ति, न हि प्रकृतसूत्रेण ङीप्-संज्ञाविधानार्थः । अस्य ज्ञापकरूपेण <<सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च>> 4.3.23 इत्येव सूत्रं दीयते । अस्मिन् सूत्रे यद्यपि तुट् इति आगमे टकारः इत्संज्ञकरूपेण विद्यते, तथापि ट्युल्-प्रत्यये पुनः इत्संज्ञकः टित्कार्यार्थम् (इत्युक्ते, प्रकृतसूत्रेण ङीप्-प्रत्ययस्य विधानार्थम्) टकारः स्थापितः अस्ति । अनेन इदं स्पष्टी भवति यत् आगमेषु विद्यमानः टकारः केवलम् आद्यवयवविधानार्थः अस्ति, न हि स्त्रीप्रत्ययविधानार्थः । 2. ढकारादिप्रत्ययः प्रकृतसूत्रे विद्यमानः इति शब्दः ढकारादिप्रत्ययानाम् (इत्युक्ते, ढक्, ढञ् इत्यादीनां) निर्देशं करोति । कानिचन उदाहरणानि एतानि — (i) विनतायाः अपत्यं स्त्री इत्यत्र विनता-शब्दात् अपत्यार्थे <<स्त्रीभ्यो ढक्>> 4.1.120 इत्यनेन ढक्-प्रत्यये कृते ततः स्त्रीत्वं द्योतयितुम् प्रत्ययस्य ढित्त्वात् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति — विनतायाः + ढक् + ङीप् [<<स्त्रीभ्यो ढक्>> 4.1.120 इति ढक्, <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इति ङीप्] → विनता + ढ + ई [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुब्लुक्] → विनता + एय + ई [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इत्यनेन ढकारस्य एय्-आदेशः] → वैनता + एय + ई [<<किति च>> 7.2.118 इति आदिवृद्धिः] → वैनत् + एय + ई [<<यस्येति च>> 6.4.148 इति आकारलोपः] → वैयतेय् + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः] → वैनतेयी (ii) वस्ति (A type of garment worn below the waistline) इत्यस्मात् शब्दात् इवार्थे (to indicate similarity) <<वस्तेर्ढञ्>> 5.3.101 इति सूत्रेण ढञ्-प्रत्ययः भवति । अस्मिन् प्रत्यये परे स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते — वस्तिः इव इयं शाटिका → वस्ति + ढञ् + ङीप् [<<स्त्रीभ्यो ढक्>> 4.1.120 इति ढक्, <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इति ङीप्] → वस्ति + एय + ई [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इत्यनेन ढकारस्य एय्-आदेशः] → वास्ति + एय + ई [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → वास्त् + एय + ई [<<यस्येति च>> 6.4.148 इति इकारलोपः] → वास्तेय् + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः] →‌ वास्तेयी (iii) ग्रीवायां भवा इत्यस्मिन् अर्थे मालायाः (अलङ्कारस्य) निर्देशं कर्तुम् ग्रीवा शब्दात् <<कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु>> 4.2.96 इत्यनेन ढकञ्-प्रत्यये कृते ततः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति — ग्रीवायां भवा = ग्रीवायां + ढकञ् + ङीप् [<<तत्र भवः>> 4.3.53 इति शैषिके अर्थे <<कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु>> 4.2.96 इत्यनेन ढकञ्, ततः <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इत्यनेन ङीप्] → ग्रीवा + ढक + ङीप् [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुब्लुक्] → ग्रीवा + एयक + ई [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति ढकारस्य एयादेशः] → ग्रैवा + एयक + ई [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → ग्रैव् + एयक + ई [<<यस्येति च>> 6.4.148 इति आकारलोपः] → ग्रैवेयक् + ई [<<यस्येति च>> 6.4.148 इति आकारलोपः] → ग्रैवेयकी 1. प्रत्ययानाम् आदौ विद्यमानस्य ढकारस्य प्रयोजनाभावात् न हि कुत्रचित् इत्संज्ञा भवति; अपि तु तस्य <<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इत्यनेन एय्-आदेशः भवति । 2. वस्तुतः अष्टाध्याय्यां इत्याख्यः कश्चन प्रत्ययः <<शिलायाः ढः>> 5.3.102 इत्यनेन दीयते । परन्तु अस्य प्रत्ययस्य विषये प्रकृतसूत्रं नैव प्रयुज्यते, यतः <<शिलायाः ढः>> 5.3.102 इत्यनेन शिलेय इत्येव शब्दः सिद्ध्यति, सः च केवलं नपुंसकलिङ्गे एव प्रयुज्यते । अतः, प्रकृतसूत्रे विद्यमानः 'ढ' इति शब्दः ढकारादिप्रत्ययानाम् निर्देशवाचकरूपेण एव स्वीक्रियते । 3. अण्-प्रत्ययः तद्धितसंज्ञकः कृत्संज्ञकः वा अण्-प्रत्ययः यस्य अन्ते अस्ति तस्मात् शब्दात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति । यथा — (i) इन्द्रः अस्याः देवता इत्यस्मिन् अर्थे इन्द्र-शब्दात् <<सास्य देवता>> 4.2.24 इत्यनेन अण्-प्रत्यये कृते स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति — इन्द्रः अस्य देवता = इन्द्रः + अण् + ङीप् [<<सास्य देवता>> 4.2.24 इत्यस्मिन् अर्थे <<प्राग्दीव्यतोऽण्>> 4.1.83 इत्यनेन अण् । ततः स्त्रीत्वं द्योतयितुम् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इति ङीप्] → इन्द्र + अ + ई [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुब्लुक्] → ऐन्द्र + अ + ई [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → ऐन्द्र् + अ + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः] → ऐन्द्र् + ० + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः] → ऐन्द्री (ii) कुम्भम् करोति सा इत्यस्मिन् अर्थे कुम्भम् इति उपपदस्य उपस्थितौ कृ-धातोः <<कर्मण्यण्>> 3.2.1 इत्यनेन अण्-प्रत्ययः विधीयते, ततः स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति — कुम्भम् करोति सा डुकृञ् (करणे, <{8.10}>) → कुम्भम् + कृ + अण् + ई [<<कर्मण्यण्>> 3.2.1 इत्यण् । ततः स्त्रीत्वे <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इति ङीप्] → कुम्भ + कृ + अ + ई [<<उपपदमतिङ्>> 2.2.19 इति उपपदसमासः । <<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुब्लुक्] → कुम्भ + कार् + अ + ई [<<अचो ञ्णिति>> 7.2.115 इति ऋकारस्य वृद्धिः आकारः । <<उरण् रपरः>> 1.1.51 इति सः रपरः] → कुम्भ + कार् + ० + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः] → कुम्भकारी अस्मिन् सन्दर्भे परिभाषेन्दुशेखरे <<ताच्छीलिके णेऽण्कृतानि भवन्ति>> इति काचित् परिभाषा विद्यते । अण्-प्रत्ययविशिष्टं कार्यं कुत्रचित् ताच्छीलिके अर्थे प्रयुक्तस्य ण-प्रत्ययस्य विषये अपि भवति — इति अस्याः परिभाषायाः आशयः । यथा, चुरा शीलम् अस्याः इत्यत्र चुरा-शब्दात् <<छत्रादिभ्यो णः>> 4.4.62 इत्यनेन ताच्छीलिके अर्थे ण-प्रत्यये कृते; यद्यपि ण-प्रत्ययस्य प्रकृतसूत्रे ग्रहणं न क्रियते तथापि <<ताच्छीलिके णेऽण्कृतानि भवन्ति>> इत्यनया परिभाषया अत्रापि स्त्रीत्वे विवक्षिते अण्-प्रत्ययसदृशः ङीप्-प्रत्ययः एव विधीयते, येन चौरी इति रूपं सिद्ध्यति । एवमेव, छत्रम् शीलम् अस्याः सा = छत्र + ण + ङीप् → छात्री, तपः शीलम् अस्याः सा = तपस् + अण् + ङीप् → तापसी इत्यादयः शब्दाः अपि सिद्ध्यन्ति ।
1. <<ताच्छीलिके णेऽण्कृतानि भवन्ति>> इत्यनया परिभाषया केवलम् ताच्छीलिकेषु अर्थेषु विहितः ण-प्रत्ययः एव अण्-प्रत्ययसदृशं कार्यं करोति । अतः <<तदस्यां प्रहरणमिति क्रीडायाम् णः>> 4.2.57 इत्यादिभिः सूत्रैः विहितस्य ण-प्रत्ययस्य विषये इयं परिभाषा न प्रवर्तते यतः तत्र ण-प्रत्ययस्य विधानं ताच्छीलिके अर्थे नैव कृतम् अस्ति । 2. छात्र-शब्दस्य स्त्रीत्वे छात्री इति ङीप्-प्रत्ययान्तशब्दः नैव साधु अपि तु छात्रा इति टाबन्तः शब्दः एव साधु इति अपि केचन वैयाकरणाः मन्यन्ते । <<ताच्छीलिके णेऽण्कृतानि भवन्ति>> इति परिभाषा अनित्या अस्ति, अतः सा सर्वत्र नैव उपयुज्यते — इति तेषाम् आशयः अस्ति ।
4. अञ्-प्रत्ययः तद्धितसंज्ञकः अञ्-प्रत्ययः यस्य शब्दस्य अन्ते विद्यते, तस्मात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति । यथा — (i) पृथिव्याः इयम् इत्यस्मिन् अर्थे पृथिवी-शब्दात् <<उत्सादिभ्योऽञ्>> 4.1.86 इत्यनेन अञ्-प्रत्यये कृते ततः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते — पृथिव्याः + अञ् + ङीप् [<<उत्सादिभ्योऽञ्>> 4.1.86 इति अञ्, ततः <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इति ङीप्] → पृथिवी + अ + ई [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुब्लुक्] → पार्थिवी + अ + ई [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः, <<उरण् रपरः>> 1.1.51 इति सः रपरः] → पार्थिव् + अ + ई [<<यस्येति च>> 6.4.148 इति ईकारलोपः] → पार्थिव् + ०‌ + ई [<<यस्येति च>> 6.4.148 इति ईकारलोपः] → पार्थिवी (ii) व्यावक्रुश्यति इत्यस्मिन् अर्थे कर्मव्यतिहारे गम्यमाने वि + आ + अव + क्रुश्-धातोः <<कर्मव्यतिहारे णच् स्त्रियाम्>> 3.3.43 इत्यनेन कृत्संज्ञके णच्-प्रत्यये कृते ततः <<णचः स्त्रियामञ्>> 5.4.14 इत्यनेन तद्धितसंज्ञकः अण्-प्रत्ययः भवति । अग्रे स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते — व्यावक्रुश्यति इति क्रुश (आह्वाने, रोदने च, <{1.992}>) → वि + आ + अव + क्रुश् + णच् + अञ् + ङीप् [ <<कर्मव्यतिहारे णच् स्त्रियाम्>> 3.3.43 इति णच्, ततः नित्यम् <<णचः स्त्रियामञ्>> 5.4.14 इति अञ्; ततः स्त्रीत्वं द्योतयितुम् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इति ङीप्] → वि + आ + अव + क्रोश् + अ + अ + ई [<<पुगन्तलघूपधस्य च>> 7.3.86 इति उपधागुणः] → वि + आ + अव + क्रोश् + ० + अ + ई [<<यस्येति च>> 6.4.148 इति णच्-प्रत्ययस्य अकारस्य लोपः] → वि + आ + अव + क्रोश् + ० + ० + ई [<<यस्येति च>> 6.4.148 इति अञ्-प्रत्ययस्य अकारस्य लोपः] → व्यावक्रोशी [यणादेशः, सवर्णदीर्घादेशः] 5. द्वयसच्-दघ्नच्-मात्रच्-प्रत्ययाः तद्धितसंज्ञकाः द्वयसच्-दघ्नच्-मात्रच्-प्रत्ययाः <<प्रमाणे द्वयसज्दघ्नञ्मात्रचः>> 5.2.37 इति सूत्रेण पाठ्यन्ते । एते प्रत्ययाः येषाम् अन्ते सन्ति तेभ्यः शब्देभ्यः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति । यथा, ऊरुः प्रमाणम् अस्याः नद्याः इत्यस्मिन् अर्थे ऊरु शब्दात् <<प्रमाणे द्वयसज्दघ्नञ्मात्रचः>> 5.2.37 इत्यनेन एते त्रयः अपि प्रत्ययाः, ततश्च ङीप्-प्रत्ययः विधीयते — ऊरुः प्रमाणम् अस्याः नद्याः = ऊरुः + द्वयसच् / दघ्नच् / मात्रच् + ङीप् [<<प्रमाणे द्वयसज्दघ्नञ्मात्रचः>> 5.2.37 इत्यनेन द्वयसच् / दघ्नच् / मात्रच् एते त्रयः प्रत्ययाः (पृथग् रीत्या) विधीयन्ते । अग्रे स्त्रीत्वं द्योतयितुम् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इति ङीप्-प्रत्ययः भवति ] → ऊरु + द्वयस / दघ्न / मात्र + ई [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुब्लुक् ] → ऊरु + द्वयस् / दघ्न् / मात्र् + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः] → ऊरुद्वयसी / ऊरुदघ्नी / ऊरुमात्री उरुः प्रमाणम् अस्याः इति ऊरुद्वयसी, ऊरुदघ्नी, ऊरुमात्री वा नदी । 6. तयप्-प्रत्ययः सङ्ख्यावाचिशब्देभ्यः <<संख्याया अवयवे तयप्>> 5.3.42 इत्यनेन तद्धितसंज्ञकः तयप्-प्रत्ययः विधीयते । अयं प्रत्ययः यस्य अन्ते अस्ति तस्मात् शब्दात् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति । यथा, द्वौ अवयवौ अस्याः इत्यस्मिन् अर्थे द्वि शब्दात् <<संख्याया अवयवे तयप्>> 5.3.42 इत्यनेन तयप्-प्रत्यये कृते ततः प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते — द्वौ अवयवौ अस्याः = द्वौ + तयप् + ङीप् [<<संख्याया अवयवे तयप्>> 5.3.42 इत्यनेन तयप्-प्रत्ययः, ततः <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इति ङीप्-प्रत्ययः] → द्वि + तय + ई [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुब्लुक्] → द्वि + तय् + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः] → द्वितयी अननैव प्रकारेण त्रयः अवयवाः अस्याः = त्रि + तयप् + ङीप् → त्रितयी, चत्वारः अवयवाः अस्याः = चतुर् + तयप् + ङीप् → चतुष्टयी इत्येताः शब्दाः अपि सिद्ध्यन्ति । 7. ठक्-प्रत्ययः तद्धितसंज्ञकः ठक्-प्रत्ययः यस्य शब्दस्य अन्ते विद्यते, तस्मात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति । यथा — (i) अक्षेण दीव्यति सा इत्यस्मिन् अर्थे <<तेन दीव्यति खनति जयति जितम्>> 4.4.2 इत्यनेन सूत्रेण अक्ष-शब्दात् ठक्-प्रत्यये कृते तत्र स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते — अक्षैः दीव्यति सा = अक्षैः + ठक् + ङीप् [<<तेन दीव्यति खनति जयति जितम्>> 4.4.2 इति ठक्, ततः स्त्रीत्वं द्योतयितुम् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इति ङीप्] → अक्ष + ठ + ई [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुब्लुक्] → अक्ष + इक + ई [<<ठस्येकः>> 7.3.50 इति ठकारस्य इक्-आदेशः । ] → आक्ष + इक + ई [<<किति च>> 7.2.118 इति आदिवृद्धिः] → आक्ष् + इक + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः] → आक्ष् + इक् + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः] → आक्षिकी (ii) अङ्गुलि-शब्दात् <<अङ्गुल्यादिभ्यष्ठक्>> 5.3.108 इत्यनेन इवार्थे ठक्-प्रत्यये कृते ततः स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति — अङ्गुलिः इव इयम् → अङ्गुलि + ठक् + ङीप् [ <<अङ्गुल्यादिभ्यष्ठक्>> 5.3.108 इति ठक्, ततः <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इति ङीप्] → अङ्गुलि + इक + ई [ठक्-प्रत्ययस्य ककारस्य इत्संज्ञा, लोपः । <<ठस्येकः>> 7.3.50 इति ठकारस्य इक-आदेशः] → अङ्गुल् + इक + ई [<<यस्येति च>> 6.4.148 इति इकारलोपः] → अङ्गुल् + इक् + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः] → अङ्गुलिकी 8. ठञ्-प्रत्ययः तद्धितसंज्ञकः ठञ्-प्रत्ययः यस्य शब्दस्य अन्ते विद्यते, तस्मात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति । यथा — (i) लवणम् अस्याः पण्यम् अस्मिन् अर्थे लवणशब्दात् <<लवणाट्ठञ्>> 4.4.52 इत्यनेन ठञ्-प्रत्ययः भवति; ततः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति । लवणम् अस्य पण्यम् = लवणम् + ठञ् + ङीप् [<<तदस्य पण्यम्>> 4.4.51 इत्यस्मिन् अर्थे <<लवणाट्ठञ्>> 4.4.52 इत्यनेन ठञ्-प्रत्ययः । स्त्रीत्वं द्योतयितुम् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इति ङीप्] → लवण + ठ + ई <<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुब्लुक्] → लवण + इक + ई [<<ठस्येकः>> 7.3.50 इति ठकारस्य इक्-आदेशः । ] → लावण + इक + ई [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → लावण् + इक + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः] → लावण् + इक् + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः] → लावणिकी (ii) लोके विदिता इत्यस्मिन् अर्थे लोक शब्दात् <<लोकसर्वलोकाट्ठञ्>> 5.1.44 इत्यनेन ठञ्-प्रत्ययः भवति, ततः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति । लोके विदिता = लोके + ठञ् + ङीप् [<<तत्र विदित इति च>> 5.1.43 इत्यस्मिन् अर्थे <<लोकसर्वलोकाट्ठञ्>> 5.1.44 इत्यनेन ठञ्-प्रत्ययः । स्त्रीत्वं द्योतयितुम् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इति ङीप्] → लोक + ठ + ई <<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुब्लुक्] → लोक + इक + ई [<<ठस्येकः>> 7.3.50 इति ठकारस्य इक्-आदेशः । ] → लौक + इक + ई [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → लौक् + इक + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः] → लौक् + इक् + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः] → लौकिकी 9. कञ्-प्रत्ययः <<त्यदादिषु दृशोऽनालोचने कञ् च>> 3.2.60 इत्यनेन दृश्-धातोः कञ्-प्रत्यये कृते अग्रे स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति । यथा — सः इव दृश्यते या = तद् + दृश् + कञ् + ङीप् [<<त्यदादिषु दृशोऽनालोचने कञ् च>> 3.2.60 इति कञ्-प्रत्ययः । ततः स्त्रीत्वं द्योतयितुम् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इति ङीप्] → तआ + दृश् + अ + ई [<<आ सर्वनाम्नः>> 6.3.91 इति आकारः] → तादृश् + अ + ई [<<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घः] → तादृश् ० + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः] → तादृशी एवमेव, एषः इव दृश्यते या = एतादृशी, कः इव दृश्यते या = कीदृशी इति शब्दाः सिद्ध्यन्ति । 10. क्वरप्-प्रत्ययः <<इण्नश्जिसर्त्तिभ्यः क्वरप्>> 3.2.163 तथा <<गत्वरश्छ>> 3.2.164 इति द्वयोः सूत्रयोः कृत्-संज्ञकः क्वरप्-प्रत्ययः विधीयते । अयं प्रत्ययः यस्य अन्ते अस्ति, तस्मात् स्त्रीत्वे विवक्षिते ङीप्-प्रत्ययः भवति । यथा — (i). नश्यति इति शीलम् अस्य अस्मिन् अर्थे नश्-धातोः क्वरप्-प्रत्यये कृते ततः स्त्रीत्वे विवक्षिते प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति । नश्यति इति शीलम् अस्य = णशँ (अदर्शने, <{4.91}>) → नश् + क्वरप् + ङीप् [<<इण्नश्जिसर्त्तिभ्यः क्वरप्>> 3.2.163 इति क्वरप् । ततः <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इति ङीप्] → नश् + वर + ई [इत्संज्ञालोपः] → नश् + वर् + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः] → नश्वरी (ii). जयति इति शीलम् अस्य अस्मिन् अर्थे जि-धातोः क्वरप्-प्रत्यये कृते ततः स्त्रीत्वे विवक्षिते प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति । जयति इति शीलम् अस्य = जि (अभिभवे, <{1.1096}>) → जि + क्वरप् + ङीप् [<<इण्नश्जिसर्त्तिभ्यः क्वरप्>> 3.2.163 इति क्वरप् । ततः <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इति ङीप्] → जि + वर + ई [इत्संज्ञालोपः] → जि तुक् + वर + ई [<<ह्रस्वस्य पिति कृति तुक्>> 6.1.71 इति तुगागमः] → जित्वर् + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः] → जित्वरी वार्त्तिकम् - नञ्स्नञीकक्ख्युंस्तरुणतलुनानामुपसङ्ख्यानम् प्रकृतसूत्रेण पाठितः ङीप्-प्रत्ययः अन्येषाम् केषाञ्चन प्रत्ययानां विषये अपि नञ्-स्नञ्-ईकक्-ख्युन्-तरुण-तलुनानाम् उपसङ्ख्यानम् अनेन वार्त्तिकेन पाठितः अस्ति । क्रमेण उदाहरणानि एतानि — 1. नञ्, स्नञ् प्रत्ययौ — <<स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्>> 4.1.87 इति सूत्रेण भिन्नेषु अर्थेषु स्त्री-शब्दात् नञ्-प्रत्यते कृते स्त्रैण</कट तथा च पुम्स्-शब्दात् स्नञ्-प्रत्यये कृते पौंस्न इति शब्दः सिद्ध्यति । एतयोः द्वयोः अपि शब्दयोः स्त्रीत्वं द्योतयिुम् अनेन वार्त्तिकेन ङीप्-प्रत्ययः विधीयते — स्त्रियः इयम् = स्त्रियः + नञ् + ङीप् [<<स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्>> 4.1.87 इति नञ्, ततः स्त्रीत्वं द्योतयितुम् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इति ङीप्] → स्त्री + न + ई [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुब्लुक्] → स्त्रै + न + ई [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → स्त्रै + न् + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः] → स्त्रैणी [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> 8.4.2 इति णत्वम्]
पुम्सः इयम् = पुम्सः + स्नञ् + ङीप् [<<स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्>> 4.1.87 इति स्नञ्, ततः स्त्रीत्वं द्योतयितुम् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इति ङीप्] → पुम्स् + स्न + ई [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुब्लुक्] → पौम्स् + स्न + ई [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → पौम्स् + स्न् + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः] →‌पौम् + स्न् + ई [<<संयोगान्तस्य लोपः>> 8.2.23 इति सकारलोपः] → पौंस्नी [<<मोऽनुस्वारः>> 8.3.23 इति पदान्तमकारस्य अनुस्वारः]
2. ईकक्-प्रत्ययः — <<शक्तियष्ट्योरीकक्>> 4.4.59 इति सूत्रेण शक्ति-शब्दात् तथा च यष्टि-शब्दात् <<तदस्य प्रहरणम्>> 4.4.51 इत्यनेन ईकक्-प्रत्ययः विधीयते । अनेन सिद्धाभ्यां शब्दाभ्यां स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति — शक्तिः प्रहरणम् अस्याः = शक्तिः + ईकक् + ङीप् [ <<शक्तियष्ट्योरीकक्>> 4.4.59 इति ईकक् । ततः <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इति ङीप्] → शक्ति + ईक + ई [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुब्लुक्] → शाक्ति + ईक + ई [<<किति च>> 7.2.118 इति आदिवृद्धिः] → शाक्त् + ईक + ई [<<यस्येति च>> 6.4.148 इति इकारलोपः] → शाक्त् + ईक् + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः] → शाक्तीकी एवमेव, यष्टिः प्रहरणम् अस्याः = याष्टीकी इत्यपि सिद्ध्यति । 3. ख्युन्-प्रत्ययः — <<आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन्>> 3.2.56 इति सूत्रेण आढ्यादिषु कर्मोपपदेषु कृ-धातोः करणे कारके ख्युन्-प्रत्ययः भवति । एतादृशे ख्युन्-प्रत्यये कृते ततः अग्रे स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते — अनाढ्यम् आढ्यम् करोति अनया → आढ्यम् + कृ + ख्युन् + ङीप् [<<आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन्>> 3.2.56 इति ख्युन्-प्रत्ययः । ततः <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इति ङीप्] → आढ्य + कृ + अन + ई [<<उपपदमतिङ्>> 2.2.19 इति उपपदसमासः । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुब्लुक् । ततः <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इति ङीप्] → आढ्य + मुम् + कृ + अन +ई [<<अरुर्द्विषदजन्तस्य मुम्>> 6.3.67 इति मुमागमः] → आढ्यम् + कर् + अन + ई [<<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति गुणः । <<उरण् रपरः>> 1.1.51 इति सः रपरः] → आढ्यम् + कर् + अन् + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः] → आढ्यं + कर् + अन् + ई [<<मोऽनुस्वारः>> 8.3.23 इति अनुस्वारः] → आढ्यंकरणी [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> 8.4.2 इति णत्वम् ] → आढ्यङ्करणी, आढ्यङ्करणी [<<वा पदान्तस्य>> 8.4.59 इति विकल्पेन परसवर्णः] एवमेव, असुभगं सुभगं करोति अनया = सुभगङ्करणी, अस्थूलं स्थूलं करोति अनया = स्थूलङ्करणी आदयः शब्दाः सिद्ध्यन्ति । 6. 'तरुण', 'तलुन' इति शब्दौ —‌ तरुण तथा च तलुन इति द्वौ अपि समानार्थकौ शब्दौ । एतयोः शब्दयोः शरीरस्य अवस्थायाः (stage of aging) निर्देशः भवति, अतः एताभ्यां शब्दाभ्याम् स्त्रीत्वं द्योतयितुम् <<वयसि प्रथमे>> 4.1.20 इत्यनेन ङीप्-प्रत्यये प्राप्ते; <<षिद्गौरादिभ्यश्च>> 4.1.41 इत्यत्र पाठिते गौरादिगणे एतयोः निर्देशात् एताभ्याम् ङीप्-प्रत्ययं बाधित्वा ङीष्-प्रत्ययः विधीयते । अस्यां स्थितौ, एताभ्याम् शब्दाभ्याम् ङीप्-प्रत्ययान्तं रूपम् अपि इष्यते, अतः वार्त्तिककारेण तयोः निर्देशः अत्र पुनः कृतः अस्ति — तरुण / तलुन + ङीप् → तरुण् / तलुन् + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः] → तरुणी / तलुनी पक्षे <<षिद्गौरादिभ्यश्च>> 4.1.41 इत्यनेन ङीष्-प्रत्यये कृते तरुणी तथा च तलुनी इति ङीष्-प्रत्ययाान्तशब्दौ अपि सिद्ध्यतः ।

ङीप्-ङीष्-प्रत्यययोः प्रयोगेण समाने एव रूपे भवतः; परन्तु तत्र स्वरे कश्चन विशेषः वर्तते । ङीप्-प्रत्यये विद्यमानः स्वरः <<अनुदात्तौ सुप्पितौ>> 3.1.4 इत्यनेन अनुदात्तः अस्ति । ङीष्-प्रत्यये विद्यमानः स्वरः तु <<आद्युदात्तश्च>> 3.1.3 इत्यनेन उदात्तसंज्ञां प्राप्नोति । अनुपसर्जनात् एव ङीप्-प्रत्ययः प्रकृतसूत्रम् <<अनुपसर्जनात्>> 4.1.14 इत्यस्मिन् अधिकारे वर्तते । अतः, अनेन सूत्रेण उक्तः ङीप्-प्रत्ययः समासे उत्तरपदम् उपसर्जनसंज्ञकम् अस्ति चेत् न हि प्रवर्तते । यथा, कुम्भकार-शब्दात् प्रकृतसूत्रेण अण्-प्रत्यये कृते यद्यपि कुम्भकारी इति शब्दः सिद्ध्यति, तथापि बहवः कुम्भकाराः यस्यां (शालायाम्) इत्यस्मिन् अर्थे सिद्धात् बहुकुम्भकार इत्यस्मात् शब्दात् प्रकृतसूत्रेण ङीप्-प्रत्ययः न भवति यतः अत्र अण्-प्रत्ययान्तः कुम्भकारशब्दः अप्रधानः (उपसर्जनः) अस्ति । अतः बहुकुम्भकार इत्यत्र <<अजाद्यतष्टाप्>> 4.1.4 इत्यनेन टाप्-प्रत्यये कृते बहुकुम्भकारा इत्येव सिद्ध्यति । प्रकृतसूत्रे <qt>अतः</qt> इत्यस्य अनुवृत्तिः प्रकृतसूत्रे काशिकाकारेण, कौमुदीकारेण च अपि <<अजाद्यतष्टाप्>> 4.1.4 इत्यस्मात् सूत्रात् अतः इति पदस्य अनुवृत्तिः स्वीकृता अस्ति । इयम् अनुवृत्तिः वस्तुतः उत्तरार्थम् आवश्यकी, न हि प्रकृतसूत्रार्थम् । अतएव अत्र काशिकाकारः केवलम् — अतः इति सर्वत्र अनुवर्तते । तत् सति सम्भवे विशेषणं भवति । — इत्येव ब्रूते । स्त्रीप्रत्ययप्रकरणे यत्र यत्र शक्यं तत्र तत्र अतः इति शब्दस्य अनुवृत्तिः भवति — इति अस्य आशयः । वस्तुतस्तु प्रकृतसूत्रे निर्दिष्टैः सर्वैः अपि प्रत्ययैः ह्रस्व-अकारान्तशब्दस्यैव सिद्धिः भवति, अतः अस्याः अनुवृत्तेः अस्मिन् सूत्रे न किमपि विशेषं प्रयोजनम् । परन्तु अनया अनुवृत्त्या अत्र कश्चन दोषः अपि नैव उद्भवति, अतः अग्रिमसूत्रेषु मण्डूकप्लुतेः प्रयोगस्य अपेक्षया सर्वेः व्याख्यातृभिः अस्य शब्दस्य सर्वेषु अपि सूत्रेषु अनुवृत्तिरूपेणैव ग्रहणं कृतम् अस्ति ।

Balamanorama

Up

<<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (टिद्॰क्वरप्ख्युनाम्)>> - टिड्ढाणञ् । टित्, ढ, अण्, अञ्, द्वयसच्, दघ्नच्, मात्रच्, तयप्, ठक्, ठञ्, कञ्, क्वरप्,-एषां द्वादशानां समाहारद्वन्द्वात्पञ्चम्येकवचनम् । ढादय एकादश प्रत्ययाः । प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् । टित्तु प्रत्ययोऽप्रत्ययश्च । टिदादिभिश्च प्रातिपदिकादित्यधिकृतं विशेष्यते, विशेषणत्वात्तदन्तविधिः । ततश्च टिदन्ताड्ढाणादिप्रत्ययान्तान्ताच्च प्रातिपदिकादिति लभ्यते । 'अजाद्यतष्टाप्' इत्यस्मादत इत्यनुवृत्तं, तेनापि प्रातिपदिकं विशेष्यते । तदन्तविधिः ।अनुपसर्जना॑रित्येतच्छतेषु टिदादिष्वेवान्वेति, नतु तदन्तेषु । स्त्रियामित्यधिकृतं । तदाह — अनुपसर्जनं यट्टिदादीत्यादिना । तदन्तमिति । टिदन्तं, ढादिप्रत्ययान्तं चेत्यर्थः । टित्रिविधिः । प्रत्ययः, प्रातिपदिकं, धातुश्च । तत्राद्यमुदाहरति — कुरुचरीति । कुरुषु चरतीत्यधिकरणे उपपदे 'चरेष्टः' इति कर्तरि टः । टकार इत् । उपपदसमासः । नच प्रत्ययस्यैवाऽत्र टित्त्वात्प्रत्ययग्रहणुपरिभाषया चरेत्येव टिदन्तं, नतु कुरुचरशब्दः, तदादिनियमादिति वाच्यं, नदट् देवडित्यादेरप्रत्ययस्यापि टितः सत्त्वेन तत्र प्रत्ययग्रहणपरिभाषाया अप्रवृत्तौ 'येन विधिः' इति टिदन्तत्वस्य कुरुचरशब्दे सत्त्वात् । अथ द्वितीयं टितमुदाहरति-नदडिति । पचादिगणे पठितं प्रातिपदिकमेतत् । तृतीयं तु कृदन्ते स्तनन्धयीत्युदाहरिष्यते । अनुपसप्जनत्वविशेषणस्य प्रयोजनमाह — बहुकुरुचरेति । बहवः कुरुचरा यस्यामिति विग्रहः । बहुव्रीहिरयमन्यपदार्थप्रधानः । ततश्च टितष्टप्रत्ययस्य उपसर्जनत्वान्न ङीप् । अनुपसर्जनत्वस्य प्रातिपदिकविशेषणत्वे तु ङीबत्र दुर्वारः । अतएव च आपिशालिना प्रोक्तमधीते आपिशला ब्राआहृणीत्यत्रापि न ङीप् । तत्र हि आपिशलिना प्रोक्तमित्यर्थेतेन प्रोक्त॑मित्यणि आपिशलशब्दः । आपिशलमधीते इत्यर्थे 'तदधीते तद्वेदे' त्यणिप्रोक्ताल्लुगि॑ति लुप्ते स्त्रियामदन्तत्वाट्टापि आपिशलेति रूपम् । अनुपसर्जनादित्यस्य प्रातिपदिकविशेषणत्वे प्रोक्ताणन्तस्यानुपसर्जनत्वात्स्त्रियां वर्तमानत्वाच्च अणन्तत्वनिबन्धनो ङीब्दुर्वारः स्यात् । तस्य च श्रुतटिदाद्यन्वये तु प्रोक्ताऽण उपसर्जनत्वान्न दोषः । अध्येत्रण्तु लुप्तः, अणोयोऽकार इति व्याख्यानेन वर्णाश्रयतया प्रत्ययलक्षणाऽभावात् । नच स्त्रिया॑मित्यस्य श्रुतटिदादिविशेषणत्वात्प्रोक्ताऽणश्चस्त्रियामवर्तनादेव न ङीपः प्रसक्तिरिति वाच्यं, ज्ञापिते तदन्तविधौ प्राधान्यात्स्त्रिया॑मित्यस्य ङीप्प्रकृतिविशेषणताया एव उचितत्वात्, अन्यथा अनुपसर्जनाधिकारवैयथ्र्याच्च । अतएव धीवानमतिक्रान्ता अतिधीवरीत्यादि सिद्धमित्यलम् । स्यादेतत्-॒वच परिभाषणे॑ । अस्मात्कर्मणि, लृट्, 'लृटः सद्वा' इति तस्य शानजादेशः, 'स्यतासी लृलुटोः' इति स्यः कुत्वषत्वे, आने मुक्, णत्वम्, टाप्, वक्ष्यमाणेति रूपम् । अत्र लृडादेशस्य स्थानिवत्त्वेन टित्त्वादुगित्वाच्चटिड्ढाणञि॑तिउगितश्चे॑ति च ङीप् प्राप्नोति । नच स्थानिनो लृटष्टकारस्य ऋकारस्य च इत्त्वाश्रयणान्ङीब्विधेरल्विधित्वादनल्विधाविति निषेधः शङ्क्यः,घुमास्थागापाजहातिसां हली॑ति क्ङिति विहितस्य ईत्त्वस्यन ल्यपी॑ति निषेधेन लिङ्गेन अनुबन्धकार्ये अनल्विधाविति निषेधाऽभावज्ञापनात् । अनुबन्धकार्येऽप्यनल्विधाविति निषेधप्रवृत्तौ हि क्त्वादेशस्य ल्यपः कित्त्वाऽप्रसक्तेस्तस्मिन्परत ईत्वस्याऽप्रसक्त्या तन्निषेधवैयर्थ्यां स्पष्टमेव । अतो वक्ष्यमाणेत्यत्र स्थानिवत्त्वेन शानचष्टित्त्वादुगित्वाच्च ङीब्दुर्वार इत्याशङ्क्य परिहरति — वक्ष्यमाणेत्यादिना । वक्ष्यमाणेत्यत्र टित्त्वादुगित्वाच्च ङीप् प्राप्तो न भवतीत्यन्वयः । कुतो नेत्यत आह — यासुट इत्यादि, ज्ञापनादित्यन्तम् ।यासुट् परस्मैपदेषूदात्तो ङिच्चे॑ति लिङादेशानां-तिप्तस्झीत्यादिपरस्मैपदानां यासुडागमस्य ङित्त्वं विहितम् । 'यदागमाः' इति न्यायेन यासुडागमो लिङादेशावयवः । ततश्च स्थानिवत्त्वेनैव ङित्त्वसिद्धेर्यासुटस्तद्विधिवैयथ्र्यं स्यादतोलाश्रयमनुबन्धकार्यमादेशाना ने॑ति विज्ञायते । ततश्च वक्ष्यमाणेत्यत्र लृडादेशस्य शानचष्टिदुगित्कार्ये ङीपि कर्तव्ये स्तानित्त्वाऽभावान्न ङीबित्यर्थः । ननुलाश्रयमनुबन्धकार्यमादेशानां ने॑ति ज्ञापनेऽपि ब्राऊतादित्यत्र 'ब्राउव ईट्' इति पितो विधीयमान ईडागमो दुर्वारः । तस्य तिबाश्रयत्वे ।ञपि लाश्रयत्वाऽभावेन तस्मिन्कर्तव्ये तातङः स्थानिवत्त्वेन पित्त्वस्य निर्बाधत्वादित्यस्वरसादाह — श्नः शानचेति । श्ना इत्यस्मात्षष्ठएकवचने आल्लोपे 'श्न' इति रूपम्, 'आतो धातोः' इत्यत्र 'आत' इति योगविभागमाश्रित्य अधातोरपि क्वचिदाल्लोपाभ्युपगमात् । 'हलः श्नः शानज्झौ' इति स्नाप्रत्ययस्य शानजादेशो विधीयते । तत्र स्थानिवत्त्वेनैव सिद्धत्वाच्छानचः शित्त्वं व्यर्थम् । नचानल्विधाविति निषेधः शङ्क्यः,न ल्यपी॑ति लिङ्गेनाऽनुबन्धकार्येऽनल्विधाविति निषेधाऽभावस्यानुपदमेवोक्तत्वात् । एवं च क्वचिदनुबन्धकार्येऽपि अनल्विधाविति निषेधप्रवृत्तिर्विज्ञायते । तथाच वक्ष्यमाणेत्यत्र टिदुगित्कार्ये ङीपिअनल्विधा॑विति निषेधप्रवृत्त्या स्थानिवत्त्वाऽभावेन टित्त्वोगित्त्वयोरबावान्न ङीबित्यर्थः । वस्तुतस्तुलाश्रयमनुबन्धकार्यं नादेशाना॑मित्यत्र यासुटो ङित्त्वं न ज्ञापकं, तस्य तिप्सिब्मिवर्थत्वात् । नहि लिङादेशत्वेऽपि तिप्सिब्मिपां ङित्त्वं स्थानिवत्त्वलभ्यम् , 'हलः श्नः शानज्झौ' इति सूत्रे भाष्येङिच्च पिन्न, पिच्च ङिन्ने॑ति प्रपञ्चितत्वात् । तथा श्नश्शानचः शित्त्वमपि न लिङ्गं, तत्र शित्त्वस्य भाष्ये प्रत्याख्यातत्वात् । प्रत्युत शित्त्वस्य ज्ञापकत्वेसेह्र्रपिच्चे॑ति हेरपित्त्वस्य तातङो ङित्त्वस्य च वैयथ्र्यमिति भाष्ये दूषणाभिधानाच्च । तस्माद्वक्ष्यमाणेत्यत्र ङीबेव युक्तः, टाप् त्वसाधुरेव । अजादित्वाट्टाबिति वा कथञ्चित्समाधेयमित्यास्तां तावत् ।सौपर्णेयीति । सुपण्र्या अपत्यं स्त्रीत्यर्थेस्त्रीभ्यो ढ॑गिति ढकिआयने॑यित्येयादेशः ।यस्येति चे॑तीकारलोपः,किति चे॑त्यादिवृद्धिः । सौपर्णेयशब्दान्ङीप्,यस्येति चे॑त्कारलोपः, सौपर्णेयीति रूपम् । न चनिरनुबन्धकग्रहणे न सानुबन्धकस्ये॑ति परिभाषाया 'शिलाया ढः' ढश्छन्दसि॑ इत्यनयोरेव ग्रहणमिति वाच्यं, तयोः स्त्रियामप्रवृत्तेरगत्या सानुबन्धकस्य ढस्य ग्रृहणादिति भाष्ये स्पष्टम् । ऐन्द्रीति । इन्द्रो देवता अस्या आमिक्षाया इति विग्रहः, 'सास्य देवता' इत्यमि,यस्येति चे॑त्यकारलोपः, आदिवृद्धिः । ऐन्द्रशपब्दान्ङीप्,यस्येति चे॑त्यकारलोपः । इन्द्रस्येयमिति वा विग्रहः,तस्येद॑मित्यण् । औत्सीति ।उत्सः प्रस्नवणं वारि॑ इत्यमरः । ऋषिविशेषो वा उत्सः । उत्सस्येयमिति विग्रहः ।उत्सादिभ्योऽञ् ।यस्येति ट॑ । ङीप् । उत्सस्यापत्यं स्त्री औत्सीति तु नोदाहरणम्, जातेरित्यनुवृत्तौशाङ्र्गरवाद्यञो ङी॑नित्येव सिद्धेः,गोत्रं च चरणैः सहे॑त्यपत्यप्रत्ययान्तस्य जातित्वादित्यलम् । ऊरुद्वयसी ऊरुदघ्नी ऊरुमात्रीति । ऊरू प्रमाणमस्या इति विग्रहः ।प्रमाणे द्वयसच्दघ्नञ्मात्रचः॑ । ङीप् । पञ्चतयीति । पञ्च अवयवा यस्या इति विग्रहः ।सङ्ख्याया अवयवे तयप् । ङीप् । आक्षिकीति । अक्षैर्दीव्यतीति विग्रहः ।तेन दीव्यति खनति जयति जित॑मिति ठक्, आदिवृद्धिः, 'ठस्येकः'यस्येति चे॑त्यकारलोपः । आक्षिकशब्दान्ङीप्,यस्येति च॑ । लावणिकीति । लवणं पण्यमस्या इति विग्रहः । 'लवणाट्ठञ्' ठस्येकः॑, आदिवृद्धिः,यस्येति च॑, लावणिकशब्दान्ङीप्, 'यस्येति च' ठेत्येव सिद्धे ठक्ठञोः पृथग्ग्रहणं तु ठनो ञिठस्य च व्यावृत्त्यर्थम् । दण्डोऽस्त्यस्याः दण्डिका ।अत इनिंठनौ॑ । काश्यां भवा काशिका ।काश्यादिभ्यष्ठञ्ञिठौ॑ इति ञिठः । यादृशीति । 'त्यदादिषु दृशः' इति यच्छब्दे उपपदे कञ्, 'आ सर्वनाम्नः' इति यच्छब्दस्याकारः । ङीप्,यस्येति च॑ । इत्वरीति । 'इण् गतौ'इण्नशजिसर्तिभ्यः क्वरप् ॑ ।ह्रस्वस्य पिति कृति॑ इति तुक् । इत्वरशब्दान्ङीप् ।यस्येति च॑ ।स्थेशभासे॑ति वरचो व्यावृत्तये ककारानुबन्धग्रहणम् ।विन्यस्तमङ्गलमहौषधिरीश्वरायाः॑ इति भारविः । 'सैनमीआराप्रदह' इति वेदे । क्वरपि अन्यतरानुबन्धेनैव वरचो व्यावृत्तिसिद्धेरनुबन्धद्वयोपादानं स्पष्टार्थम् । ईआरी तु ईआरशब्दादीआरस्य स्त्रीति पुंयोग ङीष् । अथवाअस्नोतेराशुकर्मणि वरट् चे॑ति वरडन्ताट्ठित्त्वान्ङीप् । यद्वाआतो मनिन्क्वनिब्वनिपश्च॑ अन्येभ्योऽपि 'दृश्यते' इति क्वानिपि वनिपि चवनो र चे॑ति ङीब्राऔ ।ताच्छीलिके णेऽपीति । तच्छीले भवस्तच्छीलिकः । तच्छीलार्थक इति यावत् । तस्मिन् णप्रत्यये सति तदन्तादपि ङीब्भवतीत्यर्थः । ज्ञेपकसिद्धमेतत् । तथाहि — ॒शील॑मित्यनुवृत्तौ 'छत्रादिभ्यो णः' इति विहिते णप्रत्ययेऽण्कार्यं भवति, 'कार्मस्ताच्छील्ये' इति ज्ञापकात् । कर्म शीवमस्येति विग्रहे छत्रादित्वाण्णप्रत्यये 'नस्तद्धिते' इति टिलोपे, 'कार्म' इति भवति, नतु 'अन्' इति सूत्रेण अण्यन् प्रकृत्या स्यादित्यर्थकेन प्रकृतिभाव इति तदर्थः । अत्र अणि विहितस्य प्रकृतिभावस्य णप्रत्यये परतः प्रतिषेधात्ताच्छीलिके णुप्रत्ययेऽण्कार्यं विज्ञायते । अतस्ताच्छीलिकणप्रत्ययान्तादण्कार्यं ङीब् भवतीति भावः । चौरीति । चुरा शीलमस्या इति विग्रहः । छत्रादित्वाण्णः । आदिवृद्धिः ।यस्येति च॑ । चौरशब्दान्ङीपि,यस्येति च॑ ।नञ्सन्ञ् । नञ्, स्नञ्, ईकक्, ख्युन्, तरुण, तलुन — एतेषामपि ङीब्विधिवचनं कर्तव्यमित्यर्थः । नञादयश्चत्वारः । प्रत्ययाः, अतस्तदन्तविधिः । स्त्रौणी पौंस्नीति । 'स्त्रीपुंसाभ्याम्' इति नञ्स्नञौ । तत्र स्त्रीशब्दान्नञि, आदिवृद्धिः, णत्वम्, ङीप्,यस्येति च॑ । पुंस्शब्दात्स्नञि, आदिवृद्धिः, ङीप्,यस्येति च॑ । शाक्तीकीति । शक्तिः-आयुधविशेषः प्रहरणमस्या इति विग्रहः ।शकिंतयष्ठओरीकक् । आदिवृद्धिः, णत्वम्, ङीप्,यस्येति च॑ । आढङ्करणीति । अनाढ आढ्यः क्रियते अनयेति विग्रहः ।आढसुभगे॑त्यादिना ख्युन् । 'युवोः' इत्यनादेशः । 'अरुर्द्विषत्' इति मुम्, णत्वम्, ङीप्,यस्येति च॑ । तरुणी तलुनीति । यद्यप्यनयोः 'वयसि प्रथमे' इत्येव ङीप्सिद्धः, तथापि गौरादिषु पाठान्ङीषि प्राप्ते इदं वचनम् । गौरादिपाठान्ङीषि स्वरे विशेष इति भावः ।

Padamanjari

Up

इह कस्मादिति । लडादेशस्य स्थानिद्भावेन टित्वमस्तीति प्रश्नः । पवामाना, यजमानेति । ननु शानन्नादिषु लट इत्यस्य निवृतत्वाद् अनादेशपक्षः स्थापितः, पवमानेत्यादिषु शानजुदाहर्तव्यः । द्व्यनुबन्धकत्वाल्लट इति । लडादिष्वकारादयोऽप्यनुबन्धा इति भावः । एतेन लिड्लृटौ व्याख्यातौ - अनूचाना, यक्ष्यमाणेति । ल्युडादिषु कथमिति । द्व्यनुबन्धकत्वातेषामपि ग्रहणे न भाव्यमिति प्रश्नः । टित्करणसामर्थ्यादिति । न च लडादिष्वपि टित्करणसामर्थ्यमित्याह - इतरत्रेति । पठिता विद्येति । कथमित्यनुषङ्गः । इटष्टित्वमुभयार्थं स्यादिति प्रश्नः । आगमटित्वमनिमितमिति । आगमानां टित्वं ङीपो निमितं न भवतीत्यर्थः । कुत इत्यत आह - ट।लुट।लुलौ तुट् चेति लिङ्गादिति । यद्यागमटित्वं ङीपो निमितं स्याततः सायन्तनीत्यादौ तुट आगमस्य टित्वान्ङीप् सिद्ध इति ट।लुट।लुलोष्टित्करणमनर्थकं स्यादिति भावः । ननु च'पुराणप्रोक्तेषु' इति निर्देशेन यदा तुड् न भवति तदा ङीबर्थं तयोष्टित्वं स्यात् ? तन्न; पुराणशब्दाद्वह्वादिषु पाठान्ङीषा भवितव्यम्, अन्तोदातो हि पुराणीशब्दः - पुनः पुनर्जायमाना पुराणीति यथा । एवमपि न ज्ञापकम्,'बह्वादिभ्यश्च' इत्यत्र वेति वर्तते, ततश्च ङीषा मुक्ते ङीब् यथा स्यादिति ट।लुट।लुलोष्टित्वं स्यादिति चिन्त्यमेतत् । सौपर्णेयीति । सुपर्णशब्दात्पाककर्णादिङीषन्तात्स्त्रीभ्यो ढक् । ननु च सानुबन्धकत्वादस्य ग्रहणेन भवितव्यमत आह - निर नुबन्धक इति । यद्यपि'शिलायाढः' इति निरनुबन्धको ढशब्दोऽस्ति, स इह स्वभावान्नपुंसकलिङ्ग इति स्त्रियां नास्तीत्युक्तम् । योऽपि'सभाया यः' ,'ढश्च्छन्दसि' इति ढः, सोऽपि स्त्रियां न वर्तते, कथम् ? तत्र'तत्र साधुः' इति वर्तते, कथं च स्त्री नाम सभायां साध्वी स्याद्यज्ञसभायां हि विदुषामधिकारः ! ननु मा नाम भूद्यज्ञसभायां साध्वी, शालायां स्त्रीसभे च साध्वी भविष्यति, तत्र यज्ञसभायां साध्वी ब्राह्मणपरिषदित्यत्रापि प्रसङ्गः ? एवं तर्ह्येवंविधे विषये च्छन्दसि सभेयीशब्दस्य प्रयोगाभावोऽत्र हेतुः । णेऽपि क्वचिदण्कृतं कार्यं भवतीति । शीलम्'च्छत्रादिभ्यो णः' इति यो णस्तत्राण्कृतं कार्यं भवतीति । कथम् ? ज्ञापकात्, यदंयम्'कार्मस्ताच्छील्ये' इति टिलोपार्थं निपातनं करोति । यदि हि ताच्छीलिके णेऽण्कृतं कार्यं न स्यान्निपातनमनर्थकं न स्यात्, कर्मशब्दाच्छत्रादिलक्षणे णे कृते'नस्तद्धिते' इत्येव टिलोपस्य सिद्धत्वात् । न च ठन्ऽ इति प्रकृतिभावः, अणि हि स प्रकृतिभावः । चौरी, तापसीति । चुरातपः शब्दौ च्छत्रादिषु पठितव्यौ । क्वचिदित्यस्य व्यावर्त्यं दर्शयति - दाण्डा, मौष्टेति । द्रण्डमुष्टिशब्दाभ्यां'तदस्यां प्रहरणम्' इति णः । औत्सी, औदपानीति । उत्सोदपानशब्दाभ्यां भवार्थे ठुत्सादिभ्योऽञ्ऽ । अथ सार्ङ्गरवादिसूत्रे पुनरञ्ग्रहणं किमर्थम्, यावताऽनेनैव सिद्धम्, न रूपभेदो न स्वरभेदः ? तत्राह - शार्ङ्गरवाद्यञ इत्यादि । बिदस्यापत्यं बैदी, ठनुष्यानन्तर्ये बिदादिभ्योऽञ्ऽ गोत्रं च चरणैः सहऽ इति जातिः, तत्रौत्सीत्यादौ चरितार्थमिमं ङीपं बाधित्वा जातिलक्षणो ङीष् प्राप्नोति । यदि तर्हि तस्य निबन्धनमस्ति तदेवाञ्ग्रहणमस्तु, किमत्राञ्ग्रहणेन ? न वा जात्यधिकारात्,'जातेः' इति हि तत्र वर्तते, अनधिकारे हि पुंयोगादाख्यायां ङीप्प्रसङ्गः - बैदस्य स्त्री बैदी । उरुद्वयसीत्यादौ'प्रमाणे द्वयसच्दघ्नञ्मात्रचः' । पञ्चतयीति ।'सख्याया अवयवे तयप्' । द्वयसजादिषु अनुबन्धोच्चारणं प्रातिपदिकानां ग्रहणं मा भूत् - किमस्य द्वयसम्, किसमस्य मात्रमिति । तयशब्दोऽपि तयतेः पचाद्यजन्तः सम्भवति । ठनादिनिवृत्यर्थमिति । दण्डोऽस्या अस्ति ठत इनिठनौऽ इण्डिका,'काश्यादिभ्यष्ठ ञ्ञिठौ' काशिकेत्यादौ मा भूदित्येवमर्थम् । तादृशीति ।'त्यदादिषु दृशो' नालोचने कञ्चऽ, ठा सर्वनाम्नःऽ । कञो ञकारोच्चारणम् ठातोऽनुपसर्गे कःऽ गोदेत्यादौ मा भूत् । इत्वरीति । ठिण्नश्जिसर्तिभ्यः क्वरप्ऽ । आढ।ल्ङ्कारणीति । ठाढ।ल्सुभगऽ इत्यादिना ख्युन् । नञ्स्नञीकक्तरुणतलुनानामिति । भाष्ये तु'कञ्क्वरपः' इत्येतावत्सूत्रम्, ख्युनः पाठोऽनार्ष इति तस्याप्युपसंख्यानमेव कृतम् । स्त्रैणी, पाéस्नीति ।'स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्' । शक्तीकी, याष्टीकीति । प्रहरणाधिकारे'शक्तियष्ट।लेरीकक्' । तरुणी, तलुनीति । एतयोरवयोऽर्थं ग्रहणम् - तरुणी सुरति, वयसि तु'वयसि प्रथमे' इत्येव सिद्धम् ? न सिध्यति; गौरादिपाठान्ङीष प्राप्नोति । तस्माद्वयस्यवयसि च ङीब्ङीषोविकल्पः । क्वचिद् गौरादिपाठात्सिद्धमिति पठ।ल्ते, तद्रूपमात्रसिद्ध्यभिप्रायं द्रष्टव्यम्, स्वरार्थं तूपसंख्यानं कर्तव्यमेव ॥