तेन दीव्यति खनति जयति जितम्

4-4-2 तेन दीव्यति खनति जयति जितम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् ष्ठक्

Sampurna sutra

Up

'तेन दीव्यति, खनति, जयति, जितम्' (इति) समर्थानाम् प्रथमात् परः ठक् ।

Neelesh Sanskrit Brief

Up

तृतीयासमर्थात् 'दीव्यति', 'खनति', 'जयति' तथा 'जितम्' एतेषु अर्थेषु ठक्-प्रत्ययः भवति ।

Neelesh English Brief

Up

The ठक् प्रत्यय is attached to a तृतीयासमर्थ instrument to indicate (1) a person who gambles, (2) A person who digs, (3) A person who wins, (4) An entity that is won.

Kashika

Up

तेनेति तृतीयासमर्थाद् दीव्यति खनति जयति जितमित्येतेष्वर्थेषु ठक् प्रत्ययो भवति। अक्षैर्दीव्यति आक्षिकः। शालाकिक ः। अभ्र्या खनति आभ्रिकः। कौद्दालिकः। अक्षैर्जयति आक्षिकः। अक्षैर्जितम् आक्षिकम्। शालाकिकम्। सर्वत्र करणे तृतीया समर्थविभक्तिः। देवदत्तेन जितमिति प्रत्ययो न भवति, अनभिधानात्। अङ्गुल्या खनतीति च। प्रत्ययार्थे संख्याकालयोरविवक्षा। क्रियाप्रधानत्वेऽपि चाख्यातस्य तद्धितः स्वभावात् साधनप्रधानः॥

Siddhanta Kaumudi

Up

अक्षैर्दीव्यति आक्षिकः । अभ्र्या खनति आभ्रिकः । अक्षैर्जयति आक्षिकः । अक्षैर्जितमाक्षिकम् ॥

Laghu Siddhanta Kaumudi

Up

अक्षैर्दीव्यति खनति जयति जितो वा आक्षिकः॥

Neelesh Sanskrit Detailed

Up

अस्मिन् सूत्रे चत्वारः शब्दाः दत्ताः सन्ति - दीव्यति ( इत्युक्ते द्युतक्रीडां करोति), खनति (इत्युक्ते छेदनम् / खननम् करोति), जयति (विजयं प्राप्नोति), तथा जितम् (विजयः प्राप्तः) । एतेषु सर्वेषु अर्थेषु तृतीयासमर्थात् 'ठक्' इति प्रत्ययः विधीयते ।एतेभ्यः आदीनि त्रीणि पदानि कर्तरि-प्रयोगे सन्ति, अतः ठक्-प्रत्ययान्तशब्दः अत्र कर्तुः निर्देशं करोति । 'जितम्' अयम् चतुर्थः शब्दः कर्मणि प्रयोगे अस्ति, अतः ठक्-प्रत्ययान्तशब्दः अत्र कर्मपदस्य निर्देशं करोति । उदाहरणानि एतानि - 1. अक्षैः दीव्यति सः आक्षिकः । यथा - आक्षिकः युधिष्ठिरः । 2. अभ्र्या खनति सः आभ्रिकः । यथा - आभ्रिकः घटकारः । 3. अक्षैः जयति सः आक्षिकः । यथा - आक्षिकः शकुनिः । 4. अक्षैः जीतम् तत् आक्षिकम् । यथा - आक्षिकम् राज्यम् । एतेषां सर्वेषां प्रक्रिया समाना एव अस्ति । यथा - अक्ष + ठक् → अक्ष + इक [ठक् प्रत्ययस्य <<ठस्येकः>> 7.3.50 इत्यनेन इक्-आदेशः] → आक्ष + इक [<<किति च>> 7.2.118 इति आदिवृद्धिः] → अक्ष् + इक [<<यस्येति च>> 6.4.148 इति अकारलोपः] → आक्षिक ज्ञातव्यम् - 1. अस्मिन् सूत्रे प्रयुक्तः 'तेन' इति तृतीयासमर्थः शब्दः करणस्य (= साधनस्य) निर्देशं करोति । अतः 'देवदत्तेन जितम्' आदिषु वाक्येषु वर्तमानसूत्रस्य प्रयोगः न क्रियते । 2. यद्यपि अस्मिन् सूत्रे 'दीव्यति, खनति, जयति' इत्यत्र लट्लकारस्य प्रथमपुरुषैकवचनस्य प्रयोगः कृतः अस्ति, तथाप्यत्र सङ्ख्यायाः उत कालस्य विवक्षा नास्ति । इत्युक्ते, 'अक्षैः दीव्यन्ति', 'अभ्रिभ्यामखनत्' 'अक्षेण जेष्यसि' एतादृशेषु वाक्येषु अपि वर्तमानसूत्रस्य प्रयोगं कर्तुं शक्यते ।

Balamanorama

Up

<<तेन दीव्यति खनति जयति जितम्>> - तेन दीव्यति । तेन दीव्यति, तेन खनति, तेन जयति, तेन जितमिति विग्रहेषु तृतीयान्ताट्ठगित्यर्थः । पारदारिक इति परदारान्गच्छतीत्यर्थः । अभ्रिः=कुद्दालः ।देवदत्तेन जित॑मित्यत्र तु न ठक्, करणतृतीयान्तादेव तद्विधेः ।

Padamanjari

Up

सर्वत्र करणे तृतीयेति । दीव्यत्यादावभिहितत्वात्कर्तरि तृतीया नोपपद्यत इति तत्साहचर्याज्जितमित्यनेनापि योगे करण एव तृतीयेति सर्वशब्दार्थः । तेन देवदतेन न जितमित्यत्र न भवति । हेतुतृतीया तु नाशङ्किता; अनभिधानात् । न हि हेतुतृतीयान्तावुत्पद्यमानेन ठका विग्रहवाक्यार्थस्याभिधानमस्ति । प्रत्ययार्थ इति । निर्द्धारण एषा सप्तमी, सामान्यापेक्षमेकवचनम् । इह दीव्यतीत्यादौ तिपो बहवोऽर्थाः - एकत्वसङ्ख्या, वर्तमानकाले, युष्मदस्मद्व्यतिरेक इति, तेषु मध्य इत्यर्थः । तदेव दर्शितम् । सङ्ख्याकालयोरविवक्षेति । नान्तरीयकत्वात् । अवश्यं हि यया कयाचित्सङ्ख्य्या येन केनचित्कालेन निर्देश इति तयोरुपादानम्, न तु तयोर्विवक्षा । तत आक्षिकौ आक्षिका इति द्विबह्वोरपि भवति, अक्षैरदीव्यदित्यादौ कालान्तरे चाक्षिक इति भवति, न्यायस्य तुल्यत्वात् पुरुषस्याप्यविवक्षा, तेनाक्षिकस्त्वम्, आक्षैकोऽहमित्यत्रापि भवति । यथैव तर्हि सङ्ख्याकालपुरुषाणामविवक्षा तथा कर्तुरपि प्राप्नोति, एकप्रत्ययवाच्यत्वात् ? नैष दोषः; कर्तुरविवक्षायामाख्यातोपादानमकिञ्चित्करं स्यात् । विपर्ययस्तु न भवति - कर्तुरविवक्षा कालादीनां विवक्षेति; कर्तुः प्रधानत्वात् । सङ्ख्यादिविशिष्टो हि कर्ताऽऽख्यातानां प्रधानभूतोऽर्थः, तेन स तावद्विवक्ष्यते, इतरेषां नान्तरीयकत्वादविवक्षा । किञ्च, साधनस्याप्यविवक्षायां जितमित्यस्योपादानमनर्थं स्यात् । इहाख्यातेषु क्रिया प्रधानभूता, गुणभूतः कर्ता, अत एव किं करोति देवदत इति क्रियाप्रश्ने पचतीत्याख्यातेनोतरं दीयते, न तु कृदन्तेन पाचक इतिः तस्य सत्वप्रधानत्वात् । किञ्च, यदि कृदन्तेष्विवाख्यातेष्वपि कर्ता प्रधानभूतः स्याद्, यथा पाचकस्यापत्यमित्यपत्यादिभिर्योगो भवति, तथाऽऽख्यातवाच्यस्यापि स्यात् पचत्ययमिति, क्रियावेशः स्याद्, यथा - पाचकस्तिष्ठतीति । तस्मात्क्रियाप्रधानमाख्यातम् । ततश्च तद्रथे विधीयमानः प्रत्ययोऽपि क्रियाप्रधानः स्यादिति तदन्तस्यापत्यादिभिर्योगः क्रियावेशश्च न स्यात् - आक्षिकस्यापत्यमाक्षिकं पश्येति । तत्राह - क्रियाप्रधानत्वेऽपि चाख्यातस्येति । आख्यायतेऽनेन क्रिया प्रधानभूतेत्याख्यातस्तिङ्न्तः,'कृत्यल्युटो बहुलम्' इति करणे क्तः, स्वनिकायप्रसिद्धिरेषा । स्वभावादिति । यथा'तेनैकदिक्' ,'तसिश्च' इत्येतस्मिन्नर्थे विधीयमानयोरण्तयोस्सत्वभूतार्थाभिधायित्वम्, विपर्ययश्च - सौदामनी विद्यौत्सुदामतो विद्यौदिति, तथात्रापि । न हि स्वभावः पर्यनुयोगमर्हति ॥