अरुर्द्विषदजन्तस्य मुम्

6-3-67 अरुर्द्विषदजन्तस्य मुम् उत्तरपदे खिति अनव्ययस्य

Kashika

Up

index: 6.3.67 sutra: अरुर्द्विषदजन्तस्य मुम्


अरुस् द्विषतित्येतयोरजनतानां च खिदन्त उत्तरपदे मुमागमो भवति अनव्ययस्य। अरुन्तुदः। द्विषन्तपः। अजन्तानाम् कालिम्मन्या। अरुर्द्विषदजन्तस्य इति किम्? विद्वन्मन्यः। अनव्ययस्य इत्येव, दोषामन्यमहः। दिवामन्या रात्रिः। अन्तग्रहणं किम्? कृताजन्तकार्यप्रतिपत्त्यर्थम्। अतो ह्रस्वे कृते मुम् भवति।

Siddhanta Kaumudi

Up

index: 6.3.67 sutra: अरुर्द्विषदजन्तस्य मुम्


अरुषोद्विषतोऽजन्तस्य च मुमागमः स्यात् खिदन्ते उत्तरपदे न त्वव्ययस्य । शित्त्वाच्छबादि । जनमेजयतीति जनमेजयः ।<!वातशुनीतिलशर्धेष्वजधेट्तुदजहातिभ्यः खश उपसंख्यानम् !> (वार्तिकम्) ॥ वातमजा मृगाः ॥

Laghu Siddhanta Kaumudi

Up

index: 6.3.67 sutra: अरुर्द्विषदजन्तस्य मुम्


अरुषो द्विषतोऽजन्तस्य च मुमागमः स्यात्खिदन्ते परे न त्वव्ययस्य। शित्त्वाच्छबादिः। जनमेजयतीति जनमेजयः॥

Balamanorama

Up

index: 6.3.67 sutra: अरुर्द्विषदजन्तस्य मुम्


अरुर्द्विषदजन्तस्य मुम् - अरुर्द्विषत् । अरुस्, द्वि,त्, अजन्त एषां समाहारद्वन्द्वात् षष्ठी । 'अलुगुत्तरपदे' इत्यधिकारादुत्तरपदे इति लभ्यते । 'खित्यनव्ययस्य' इत्यतः खितीत्यनुवृत्तम् । कितः प्रत्ययत्वात्तदन्तविधिः । तदाह — खिदन्ते उत्तरपदे इति । जनमेजय इति । जनान् एजयतीति विग्रहः । खशः शित्त्वात्सार्वधातुकत्वं ।शप्, गुणायादेशौ, पररूपम्,सुपो लुकि, मुम् । वातशुनीति । वार्तिकमिदम् । वात, शुनी, तिल, शर्ध एषां द्वन्द्वात्सप्तमी । अज, धेट्, तुद्, जहाति एषां द्वन्द्वात्पञ्चमी । यथासङ्ख्यमन्वयः । वातमजा इति । वातमजन्तीति विग्रहः । सुपो लुकि मुम् । अथ शुनीं धयतीति विग्रहे शुनीशब्दे उपपदे धेटः खशि शपि अयादेशे पररूपे शुनी धय इति स्थिते आह —

Padamanjari

Up

index: 6.3.67 sutra: अरुर्द्विषदजन्तस्य मुम्


अरुन्तुद इति । विध्वरुषोस्तुदः इति खश्, तुदादित्वाच्छः, सकारात्पूर्वं मुमि कृते सकारस्य संयोगान्तलोपः । द्विषन्तप इति । द्विषत्परयोस्तापे इति खच्, खचि ह्रस्वः, मुमादि पूर्ववत् । विद्वन्मन्य इति । वसुस्रंसुध्वंसु इति दत्वम्, यरोऽनुनासिकेऽनुनासिको वा । अन्तग्रहणमनर्थकम्, वर्णग्रहणे सर्वत्र तदन्तविधेर्भावादित्यत आह अन्तग्रहणमित्यादि । समीपवचनोऽन्तशब्दः, अच्चासावन्तश्चेति अजन्तः, निपातनाद्विशेषणस्य परनिपातः । कः पुनरसौ पूर्वसूत्रे विहितो ह्रस्वः, तेन पूर्वपदस्य तदन्तविधिः एतदुक्तं भवति - योऽयमस्य सूत्रस्य समीपभूतो यः पूर्वसूत्रे विहितो ह्रस्वस्तदन्तस्य मुम् इति, यतो ह्रस्वे कृते मुम् भवतीति । एतेनैदपि निरस्तम् - मुम एव ह्रस्वेन बाधप्रसङ्ग इति । कथं तन्निमितकत्वान्मुमः ह्रस्वनिमितको ह्यएष मुम् भवति । यद्येवम्, स्तन्धयादौ यत्र ह्रस्वो न क्रियते तत्र मुम् न प्राप्नोति किं पुनः कारणमत्र ह्रस्वो न क्रियते प्रयोजनाभावात् । अस्ति प्रयोजनम्, किम् मुम् यथा स्यादिति । इदानीमेव ह्युक्तम् - ह्रस्वनिमितको मुमिति ॥