चुटू

1-3-7 चुटू धातवः इत् आदिः प्रत्ययस्य

Sampurna sutra

Up

उपदेशे प्रत्ययस्य आदिः चुटू इत्

Neelesh Sanskrit Brief

Up

प्रत्ययस्य औपदेशिकस्वरूपस्य आदौ विद्यमानः चवर्गीयवर्णः टवर्गीयवर्णः च इत्संज्ञकः भवति ।

Neelesh English Brief

Up

The letters - च्, छ्, ज्, झ्, ञ्, ट्, ठ्, ड्, ढ्, ण् - at the beginning of the औपदेशिक form of a प्रत्यय are called इत् ।

Kashika

Up

चवर्गटवर्गौ प्रत्ययस्यादी इत्संज्ञौ भवतः। <<गोत्रे कुञ्जादिभ्यश्च्फञ्>> ४.१.९८ — कौञ्जायन्यः। छस्येयादेशं वक्ष्यति। जस् — ब्राह्मणाः। झस्यान्तादेशं वक्ष्यति। <<शण्डिकादिभ्यो ञ्यः>> ४.३.९२ — शाण्डिक्यः। टवर्गः — <<चरेष्टः>> ३.२.१६ — कुरुचरी। मद्रचरी। ठस्येकादेशं वक्ष्यति। <<सप्तम्यां जनेर्डः>> ३.२.९७ — उपसरजः। मन्दुरजः। ढस्यैयादेशं वक्ष्यति। <<अन्नाण्णः>> ४.४.८५ — आन्नः। पृथग्योगकरणमस्य विधेरनित्यत्वज्ञापनार्थम्। <<तेन वित्तश्चुञ्चुप्चणपौ>> ५.२.२६ — केशचुञ्चुः। केशचणः। <<अवात् कुटारच्च>> ५.२.३० — <<नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः>> ५.२.३१ — अवटीटः। आदिरित्येव — ‘कर्मणि घटोऽठच् ५.२.३५ — कर्मठः॥

Siddhanta Kaumudi

Up

प्रत्ययाद्यौ चुटू इतौ स्तः । इति जस्येत्संज्ञायाम् ॥

Laghu Siddhanta Kaumudi

Up

प्रत्ययाद्यौ चुटू इतौ स्तः॥

Neelesh Sanskrit Detailed

Up

व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'इत्' इति संज्ञा । इयम् संज्ञा <<उपदेशेऽजनुनासिक इत्>> 1.3.2 इत्यस्मात् <<लशक्वतद्धिते>> 1.3.8 इत्येतेषु सूत्रेुषु पाठिता अस्ति । एतेषाम् सूत्राणाम् सङ्कलनम् 'इत्संज्ञाप्रकरणम्' नाम्ना ज्ञायते । अस्य प्रकरणस्य इदम् षष्ठं सूत्रम् । अनेन सूत्रेण प्रत्ययस्य औपदेशिकस्वरूपस्य (मूलस्वरूपस्य) आदौ विद्यमानस्य चवर्गीयवर्णस्य, टवर्गीयचवर्णस्य च इत्संज्ञा भवति । यथा — 1) च्फञ् इति तद्धितप्रत्ययस्य आदौ विद्यमानः चकारः इत्संज्ञकः अस्ति । 2) जस् इति विभक्तिप्रत्ययस्य आदौ विद्यमानः जकारः इत्संज्ञकः अस्ति । 3) ञ्युट् इति कृत्प्रत्ययस्य आदौ विद्यमानः ञकारः इत्संज्ञकः अस्ति । 4) टाप् इति स्त्रीप्रत्ययस्य आदौ विद्यमानः टकारः इत्संज्ञकः अस्ति । 5) डाप् इति स्त्रीप्रत्ययस्य आदौ विद्यमानः डकारः इत्संज्ञकः अस्ति । 6) इति तद्धितप्रत्ययस्य/कृत्प्रत्ययस्य आदौ विद्यमानः णकारः इत्संज्ञकः अस्ति । इत्संज्ञकवर्णस्य लोपः प्रक्रियायाः प्रारम्भे इत्संज्ञकवर्णस्य <<तस्य लोपः>> 1.3.9 इत्यनेन नित्यम् लोपः भवति । प्रत्ययस्य आदौ विद्यमानानाम् चवर्गीयवर्णानाम् टवर्गीयवर्णानां च इत्संज्ञायाः प्रयोजनम् अष्टाध्याय्याम् उपदेशेषु इत्संज्ञकवर्णानां संयोजनस्य अनेकानि प्रयोजनानि सन्ति । प्रक्रियायां जायमानानि बहूनि कार्याणि इत्संज्ञकवर्णान् आश्रित्य एव प्रवर्तन्ते । The इत्-letters are like markers that decide whether a certain action will or will not happen in the prakriya. प्रत्ययानाम् आदौ विद्यमानस्य चवर्गीयवर्णस्य, टवर्गीयवर्णस्य इत्संज्ञायाः अपि भिन्नानि प्रयोजनानि सन्ति । यथा, यस्मिन् तद्धितसंज्ञके प्रत्यये णकारः इत्संज्ञकः वर्तते, तस्मिन् प्रत्यये परे अङ्गस्य आदिवर्णस्य वृद्धिः भवति । यथा, 'छत्रम् अस्य शीलम्' इत्यस्मिन् अर्थे 'छत्र' शब्दात् <<छत्रादिभ्यो णः>> 4.4.62 इत्यनेन ण-प्रत्यये कृते, 'छत्र' शब्दस्य आदिस्थ-अकारस्य <<तद्धितेष्वचामादेः>> 7.2.117 इत्यनेन वृद्धिः भवितुम् अर्हति । सम्पूर्णा प्रक्रिया इयम् — छत्रम् शीलम् अस्य इति = छत्र + ण [ <<छत्रादिभ्यो णः>> 4.4.62 इत्यनेन प्रथमासमर्थात् 'छत्रम्' इति शब्दात् ण-प्रत्ययः भवति । अग्रे तद्धितान्तस्य <<कृत्तद्धितसमासाश्च>> 1.2.46 इत्यनेन प्रातिपदिकसंज्ञायां कृतायाम्, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इत्यनेन छत्र-शब्दात् विहितस्य सुँ-प्रत्ययस्य लोपः भवति ] → छत्र + अ [ण-प्रत्ययस्य आदौ विद्यमानस्य णकारस्य <<चुटू>> 1.3.7 इत्यनेन इत्संज्ञा भवति । <<तस्य लोपः>> 1.3.9 इत्यनेन अयम् इत्संज्ञकवर्णः लुप्यते ।] → छात्र + अ [णित्-प्रत्यये परे <<तद्धितेष्वचामादेः>> 7.2.117 इति अङ्गस्य आदिवृद्धिः] → छात्र् + अ [रेफोत्तरस्य अकारस्य <<यस्येति च>> 6.4.148 इति लोपः] → छात्र प्रत्ययस्य आदौ विद्यमानानाम् छकार-झकार-ठकार-ढकाराणाम् इत्संज्ञायाः अप्राप्तिः छकारः, झकारः, ठकारः तथा ढकारः - एते वर्णाः यद्यपि प्रत्ययानाम् औपदेशिकस्वरूपस्य प्रारम्भे भवितुम् अर्हन्ति, तथापि तेषाम् <<चुटू>> 1.3.7 इत्यनेन इत्संज्ञा न भवति, यतः तेषाम् इत्संज्ञाविधानमस्य किमपि प्रयोजनम् न विद्यते । अतः 'छण्', 'झि', 'ठक्', 'ढक्' एतेषु प्रत्ययेषु आदिस्थस्य चवर्गीयवर्णस्य टवर्गीयवर्णस्य वा इत्संज्ञा न करणीया । चुटू सूत्रस्य अनित्यत्वम् <<षः प्रत्ययस्य>> 1.3.6 तथा <<चुटू>> 1.3.7 एतयोः द्वयोः सूत्रयोः स्थाने 'प्रत्ययस्य चुटुषाः' इति एकमेव सूत्रं क्रियते चेत् अपि समानः एव अर्थः सिद्ध्यति । तथापि आचार्येण <<चुटू>> 1.3.7 इति सूत्रम् <<षः प्रत्ययस्य>> 1.3.6 इत्यस्मात् पृथग् रूपेण पाठितम् अस्ति । अस्य पृथग्-विधानस्य प्रयोजनम् अस्ति <<चुटू>> 1.3.7 इति सूत्रस्य अनित्यत्वम् । अस्य अनित्यत्वस्यैव आधारेण केषुचन प्रत्ययेषु (यथा - चुञ्चुप्, चणप्, जातीयर्, टिटञ्, जाहच् - आदिषु प्रत्ययेषु) विद्यमानस्य आदिस्थस्य चवर्गीयवर्णस्य टवर्गीयवर्णस्य च इत्संज्ञा नैव विधीयते । अत्र 'प्रयोजनाभावात् इत्संज्ञा न भवति' इति अपरं स्पष्टीकरणम् अपि भवितुम् अर्हति ।

Balamanorama

Up

<<चुटू>> - देवदत्तहन्तृंहतन्यायस्तु नात्र प्रवर्तत इति स्वादिसन्धौ मनोरथ इत्यत्र प्रञ्चितम् । राम जस् इति स्थिते — चुटू ।उपदेशेऽजनुनासिक इत् इत्यतः 'इ' दित्यनुवर्तते । तच्च द्विवचनान्ततया विपरिणम्यते । 'आदिर्ञिटुडवः' इत्यतआदि॑ग्रहणमनुवर्त्त्य द्विवचनान्ततया विपरिणम्यते ।षः प्रत्ययस्ये॑त्यनुवर्तते । तदाह — प्रत्ययाद्यावित्यादिना । इति जस्येति । इत्संज्ञायां तस्य लोप॑ इति लोपः । जकारस्तु जसश्शीत्यादौ शसो निवृत्त्यर्थः ।

Padamanjari

Up

आदी इदिति। प्रारम्भे वर्तमानावित्यर्थः। कौञ्जायन्य इति। च्फञन्तात्'व्रतच्फञोरस्त्रियाम्' इति स्वार्थे स्वर्थे ञ्यः। शण्डिकादिभ्यो ञ्य इति। सोऽस्या भिजनः इति तत्र वर्तते। मन्दुरज इति । ड।लपोस्सैज्ञाच्छन्दसोः इति ह्रस्वः। अन्नाण्ण इति ।'धनगणं लब्धा' इत्यतो लब्धेति तत्रानुवर्ते। किमर्थो योगविभागः'चुटूअषाः प्रत्ययस्य' इत्येक एव योगः क्रियतामत आह-पृथगित्यादि। केशचुञ्चुः केशचण इति । अत्र चकारस्येत्संज्ञायाम्'चितः' इत्यन्तोदातत्वं स्यात्, पित्करणन्तु पर्यायार्थं स्यात्। अवादित्यस्यानुवृत्तिर्दर्शिता॥