6-1-101 अकः सवर्णे दीर्घः संहितायाम् अचि एकः पूर्वपरयोः
अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घः
अक्-वर्णात् सवर्णे अच्-वर्णे परे संहितायाम् पूर्वपरयोः एकः दीर्घ-एकादेशः भवति ।
In the context of संहिता, when an अक् letter is followed by a सवर्ण अच् letter, both of them are replaced by a दीर्घ-एकादेश.
अकः सवर्णेऽचि परतः पूर्वपरयोः स्थाने दीर्घ एकादेशो भवति। दण्डाग्रम्। दधीन्द्रः। मधूदके। होतश्यः। अक इति किम् ? अग्नये। सवर्ण इति किम् ? दध्यत्र। अचीत्येव — कुमारी शेते। <<नाज्झलौ>> १.१.१० इत्यत्र यदजिति प्रत्याहारग्रहणं तत्र ग्रहणकशास्त्रस्यानभिनिर्वृत्तत्वात् सवर्णा न गृह्यन्त इति सवर्णत्वमीकारशकारयोरप्रतिषिद्धम्॥ सवर्णदीर्घत्व ऋति ऋ वा वचनम्॥ ऋति सवर्णे परभूते तत्र ऋ वा भवतीति वक्त व्यम्। होतृ ऋकारो होतृकारः। यदा न ऋ तदा दीर्घ एव होतकारः॥ ऌति ऌ वा वचनम्॥ ऌति सवर्णे परतो ऌ वा भवतीति वक्त व्यम्॥ होतृ ऌकारो होत्ऌकारः, होतकारः। ऋकारऌकारयोः सवर्णसंज्ञाविधिरुक्त ः (का० १.१.९)। दीर्घपक्षे तु समुदायान्तरतमस्य ऌवर्णस्य दीर्घस्याभावात् ॠकारः क्रियते॥
अकः सवर्णेऽचि परे दीर्घ एकादेशः स्यात् । दैत्यारिः । श्रीशः । विष्णूदयः । अचि किम् । कुमारी शेते । नाज्झलाविति सावर्ण्यनिषेधस्तु न दीर्घशकारयोः । ग्रहणकशास्त्रस्य सावर्ण्यविधिनिषेधाभ्यां प्रागनिष्पत्तेः । अकः किम् । हरये ॥ अकोऽकि दीर्घ इत्येव सुवचम् ।<!ऋति सवर्णे ऋ वा !> (वार्तिकम्) ॥ होतृकारः । होतॄकारः ॥<!ऌति सवर्णे ऌ वा !> (वार्तिकम्) ॥ होत्ऌकारः । होतॄकारः । पक्षे ऋकारः सावर्ण्यात् । ऋति ऋ वा लृति लृ वा इत्युभयत्रापि विधेयं वर्णद्वयं द्विमात्रम् । आद्यस्य मध्ये द्वौ रेफौ तयोरेका मात्रा । अभितोऽज्भक्तेरपरा । द्वितीयस्य तु मध्ये द्वौ लकारौ । शेषं प्राग्वत् । इहोभयत्रापि ऋत्यकः <{SK92}> इति पाक्षिकः प्रकृतिभावो वक्ष्यते ॥
अकः सवर्णेऽचि परे पूर्वपरयोर्दीर्घ एकादेशः स्यात्। दैत्यारिः। श्रीशः। विष्णूदयः। होतॄकारः॥
1. दैत्यस्य अरिः → दैत्य + अरिः → दैत्यारिः ।
2. गङ्गायाः अरिः → गङ्गा + अरिः → गङ्गारिः ।
3. कृष्णस्य आतिथ्यम् → कृष्ण + आतिथ्यम् → कृष्णातिथ्यम् ।
4. सीतायाः आतिथ्यम् → सीता + आतिथ्यम् → सीताथित्यम् ।
1. शचेः इन्द्रः → शचि + इन्द्रः → शचीन्द्रः ।
2. नद्याः इन्द्रः → नदी + इन्द्रः → नदीन्द्रः ।
3. मुनीनाम् ईशः → मुनि + ईशः → मुनीशः ।
4. श्रियः ईशः → श्री + ईशः → श्रीशः ।
1. भानोः उदयः → भानु + उदयः → भानूदयः ।
2. भुवाः उदयः → भू + उदयः → भूदयः ।
3. शिशोः ऊतिः (रक्षणम्) → शिशु + ऊतिः → शिशूतिः ।
4. वध्वाः ऊतिः → वधू + ऊतिः → वधूतिः ।
1. पितुः ऋणम् → पितृ + ऋणम → पितॄणम् ।
2. होतृ + ऌकारः → होतृ + ऌकारः → होतॄकारः । ऋकार-ऌकारयोः सवर्णदीर्घे दीर्घ-ॠकारः एकादेशरूपेण विधीयते ।
1. अनेन वार्त्तिकेन विकल्पेन द्वयोः सामान्य-ऋकारयोः एकादेशे (नरसिंह-ऋकारे) कृते
<!2. ऌति सवर्णे ल्लॢ वा !> —
ह्रस्व-ऋकारात् परः ह्रस्व-ऌकारः विद्यते चेत्, पूर्वपरयोः विकल्पेन 'ल्लॢ' इति कश्चन पररूपैकादेशः भवति — इति अस्य वार्त्तिकस्य अर्थः । अत्र पररूपैकादेशेन विहितः 'ल्लॢ' इति वर्णः द्विमात्रिकः अस्ति । द्वौ लकारौ तथा एकः ऌकारः एतेषाम् मेलनं कृत्वा अयं विशेषः वर्णः जायते (ल्लॢ = ल् + ल् + ऌ) । अस्य नरसिंह-ऌकारः इति नाम दीयते । अतः
1. अनेन वार्त्तिकेन विकल्पेन द्वयोः सामान्य-ऋकारयोः एकादेशे (नरसिंह-ऌकारे) कृते
<<अकः सवर्णे दीर्घः>> - अकः सवर्णे । 'अक' इति पञ्चमी ।इको यणची॑त्यतोऽचीत्यनुवर्तते ।एकः पूर्वपरयो॑रित्यधिकृतम् । तदाह-अकः सवर्णेऽचीत्यादिना । दैत्यारिरिति । दैत्य-अरिरिति स्थिते द्वयोरकारयोरेको दीर्घ आकारः, स्थानसाम्यात् । श्री-ईश इति स्थिते ईकारयोरेक ईकारः । विष्णु-उदय इति स्थिते उकारयोरूकारः । त्राचीत्यनुवृत्तेः किं प्रयोजनमिति पृच्छति-अचि किमिति । कुमारी शेत इति ।अची॑त्यननुवृत्तावीकारस्य शकारस्य च तालुस्थानविवृतप्रयत्नसाम्येन सवर्णतया तयोर्दीर्घ ईकार एकादेशः स्यात् । तन्निवृत्त्यर्थमचीत्यनुवर्तनीयमिति भावः । ननु ईकारशकारयोः स्थानप्रयत्नसाम्येऽपि न सावण्र्यं,नाज्झला॑विति निषेर्थात् । अतः 'कुमारी शेते' इत्यत्र 'अकःसवर्ण' इत्यस्याऽप्रसक्तेरचीत्यनुवृत्तिव्र्यर्थैवेत्यत आह — नाज्झलावितीति । नाज्झलाविति सावण्र्यनिषेधो वार्णसमाम्नायिकानामेव, नतु दीर्घप्लुतानामपि,आदिरन्त्येन सहेते॑त्यनेन वार्णसमाम्नायिकानामेवाऽच्शब्दवाच्यत्वावगमात् । अत ईकारशकारयोः सावण्र्यसत्त्वात्कुमारी शेत इत्यत्रातिप्रसङ्गः स्यादित्यचीत्यनुवृत्तिरावश्यकीत्यर्थः । ननु वार्णसमाम्नायिकानामेव अच्शब्दवाच्यत्वेऽपि अच्शब्दोपस्थितैरकारादिभिह्र्यस्वदीर्घप्लुतानामपि ग्रहणं भवति, अणुदित्सूत्रबलात् । अत ईकारशकारयोर्न सावण्र्यप्रसक्तिरित्यजनुवृत्तिव्र्यर्थैवेत्यत आह — ग्रहणकेति । अणुदित्सवर्णस्येति ग्रहणकसूत्रं हि लब्धात्मकमेव सत् 'अस्य च्वौ' इत्यादौ प्रवृत्तिमर्हति । नाज्झलाविति प्रवृत्तिदशायां च ग्रहणकशास्त्रमिदं न लब्धात्मकं । तद्धि सवर्णपदघटितत्वात्सवर्णपदार्थावगमोत्तरमेव लब्धात्मकम् । सवर्णसंज्ञाविधायकं च तुल्यास्यसूत्रं सामान्यतः स्वार्थं बोधयदपि नाज्झलावित्यपवादविषयं परिह्मत्य तदन्यत्रैव पर्यवसानं लब्ध्वा स्वकार्यक्षमतामश्नुते । उक्तं च — ॒प्रकल्प्यापवादविषयमुत्सर्गोऽभिनिविशते॑ इति । एवं चाऽणुदित्सूत्रस्य नाज्झलाविति निषेधसहिततुल्यास्यसूत्रप्रवृत्तेः प्रागलब्धात्मकतया नाज्झलावित्यत्राऽज्ग्रहणेन दीर्घप्लुतानां ग्रहणाऽभावेन ईकारशकारयोः सावण्र्यनिषेधाऽभावेन सावण्र्यसत्त्वात्कुमारी शेत इत्यत्राऽकः सवर्ण इति प्राप्तौ तन्निवृत्त्यर्थमचीत्यनुवृत्तिराश्रयणीयेत्यर्थः । तदेतन्नाज्झलाविति सावण्र्यनिषेधो यद्यपीति ग्रन्थव्याख्यावसरे प्रपञ्चितम् । अकोऽकि दीर्घ इत्येव सुवचमिति । एवंच सवर्णग्रहणं न कर्तव्यमिति लाघवम् । दध्युकार इत्यत्र तु यथासंख्याश्रयणान्नातिप्रसङ्गः । ततश्च अचीत्यनुवृत्तिरपि नाश्रयणीयेति भावः ।॒ऋति ऋ वा॑ इति वार्तिकमकः सवर्ण इत्यतोऽनुवृत्तसवर्णपदेन योजयित्वा पठति — ऋति सवर्णे ऋ वा । अक इत्यनुवर्तते । एकः पूर्वपरयोरिति च । अकः सवर्णे ऋति परे पूर्वपरयोरृइत्येकादेशः स्यादित्यर्थः । होतृकार इति । होतृ-ऋकार इति स्थितेऽनेन द्वयोरृकारयोः स्थाने ऋकारविलक्षणो नृसिंहवद्द्व्यन्तरात्मा ऋकारो रेफद्वयवान् कश्चिद्वर्णो भवति । एतदभावपक्षे रूपं दर्शयति — होतृकार इति । 'अकः सवर्ण' इति दीर्घः ।लृति सवर्णे लृ वा । अकः सवर्णे लृति परे पूर्वपरयोर्लृ इत्येकादेशो वा स्यादित्यर्थः । होत्ऌकार इति । होतृ-ऌकार इति स्थिते ऋकारस्य ऌकारस्य च स्थाने नृसिंहपद्द्व्यन्तरात्मा ऌकारो द्विलकारवान् कश्चिद्वर्णो भवति । पक्ष इति । उक्तद्व्यन्तरात्मकवर्णाऽभावपक्षे ऋकारस् ऌकारस्य च स्थानेऽकः सवर्ण इति दीर्घो भवन्नृऌवर्णयोरिति सावण्र्यादृकार एव भवति, ऌकारस्य दीर्घाऽभावादिति भावः । अत एव होतृ-ऌकार इत्यत्र सवर्णदीर्घपक्षे होतृकार इत्येवोदाहृतं भाष्ये । अथ 'ऋति ऋ वा'लृति लृ वे॑त्यत्र विधेयवर्णस्वरूपं विविनक्ति — उभयत्रापि विधेयं वर्णद्वयं द्विमात्रमिति । तदेवोपपादयति — आद्यस्य मध्य इति । एका मात्रेति । व्यञ्जनानामर्धमात्रतया एकैकस्य रेफस्य अर्धमात्रत्वादिति भावः । अभितोऽज्भक्तेरिति । 'अभित' इत्यनन्तरंरेफा॑विति शेषः ।अज्भक्ते॑रिति सामान्याभिप्रायमेकवचनम् । रेफद्वयस्य पुरस्तादुपरिष्टाच्च विद्यमानयोह्र्यस्वऋकारांशयोरन्या मात्रेत्यर्थः । द्वितीयस्य इति ।विधेयस्ये॑ति शेषः । शेषं प्राग्वदिति । लकारयोरेका मात्रा, तावभितो विद्यमानयोर्ऌकारांशयोरन्या मात्रेत्यर्थः । एतच्च तुल्यास्यसूत्रे भाष्यकैयटयोः स्पष्टम् । एतेन दीर्घे प्राप्ते ह्रस्व ऋकारो ऌकारश्चात्र विधीयत इति प्राचीनग्रन्थः परास्तः । पाक्षिक इति । वैकल्पिक इत्यर्थः । प्रकृतिभाव इति । निर्विकारस्वरूपेणावस्थानमित्यर्थः । सन्ध्यभाव इति यावत् ।
अग्नय इति।'घेर्ङिति' इति गुणे कृते दीर्घत्वप्रसङ्गः। दध्यत्रेति। असति सवर्णग्रहणे यणादेशस्य दीर्घस्य च विषयविभागो न ज्ञायेत, ततश्च पर्यायः स्यात्। कुमारी शेत इति। ननु च तुल्यास्यप्रयत्नत्वेऽपि सावर्ण्यमत्र नास्ति,'नाज्ज्ञलौ' इति प्रतिषेधात्? इत्यत आह -नाज्झलावित्यर्त्रति। ठाणुदित्सवर्णस्य चाप्रत्ययःऽ इति ग्रहणकवाक्यम्, तच्च'नाज्झलौ' इत्यस्य प्रवृत्तिसमये नाभिनिर्वृतम्, तस्य हि सवर्णसंज्ञाङ्गम्, तेन यावत्सा न प्रवर्तते तावदनभिनिर्वृतम्। सवर्णसंझाऽपि स्वापवादे'नाज्झलौ' इत्यस्मिन्नप्रवृते न प्रवर्तते, ततश्च पूर्वं'नाज्झलौ' इत्यस्य प्रवृत्तिः, पश्चात्सवणसंज्ञायाः प्रवृत्तिः, पश्चाद् ग्रहणकवाक्यस्येति एष क्रमः। तेन'नाज्झलौ' इत्यत्रागृहीतसवर्णानामचां ग्रहणमिति इकारशकारयोः सावर्ण्यमपतिषिद्धम्, तस्मादचीत्यनुवर्त्यमिति। ऋति र्ःअ व वचनमिति। मध्ये रेफभक्ती द्वे, आदितोऽज्भक्तेरर्द्धमात्रा, एवमन्ततः। एवम् लृतीत्यत्रापि मध्ये द्वे लकारभक्ती, अभितः पूर्ववत्। एवं द्विमात्रयौरप्येतयोरीषत्स्पृष्टत्वाद्विवृताभ्यामृकारऌकाराभ्यामसावर्ण्यादग्रहणाद्दीर्घसंज्ञाया अभावाद्वचनम्। अर्द्धतृतीयमात्रत्वातत्कालत्वाभावादित्यन्ये। एतच्च सवर्णसंज्ञाया प्रपञ्चितम्। दीर्घपक्षे त्विति। ऋकारलुकारयोः समुदायः स्थानी, न च तस्यान्तरतमो दीर्घः सम्भवति, अतोऽवयवस्य योऽन्तरतमः स एव भवति। तत्रापि ऌवर्णस्य दीर्घासम्भवादृकारस्य योऽन्तरतमः स एव भवति। तत्रापि ऌवर्णस्य दीर्घासम्भवादृकारस्य योऽन्तरतमः स ऋकार एव भवति ॥