मोऽनुस्वारः

8-3-23 मः अनुस्वारः पदस्य पूर्वत्र असिद्धम् संहितायाम् अशि हलि

Sampurna sutra

Up

index: 8.3.23 sutra: मोऽनुस्वारः


पदस्य मः हलि अनुस्वारः संहितायाम्

Neelesh Sanskrit Brief

Up

index: 8.3.23 sutra: मोऽनुस्वारः


पदान्तमकारस्य संहितायाम् व्यञ्जने परे अनुस्वारादेशः भवति ।

Neelesh English Brief

Up

index: 8.3.23 sutra: मोऽनुस्वारः


In the context of संहिता, the मकार at the end of a पद is converted to अनुस्वार when it is followed by a हल् वर्ण.

Kashika

Up

index: 8.3.23 sutra: मोऽनुस्वारः


मकारस्य पदान्तस्य अनुस्वारः आदेशो भवति हलि परतः। कुण्डं हसति। वनं हसति। कुण्ड याति। वनं याति। हलि इत्येव, त्वमत्र। किमत्र। पदन्तस्य इत्येव, गम्यते। रम्यते।

Siddhanta Kaumudi

Up

index: 8.3.23 sutra: मोऽनुस्वारः


मान्तस्य पदस्यानुस्वारः स्याद्धलि ॥ अलोऽन्त्यस्य <{SK42}> हरिं वन्दे । पदस्येति किम् । गम्यते ॥

Laghu Siddhanta Kaumudi

Up

index: 8.3.23 sutra: मोऽनुस्वारः


मान्तस्य पदस्यानुस्वारो हलि । हरिं वन्दे ॥

Neelesh Sanskrit Detailed

Up

index: 8.3.23 sutra: मोऽनुस्वारः


अष्टाध्याय्याम् द्वाभ्याम् सूत्राभ्याम् आदेशरूपेण अनुस्वारस्य विधानं क्रियते । एतयोः इदम् प्रथमम् सूत्रम् । पदस्य अन्ते विद्यमानस्य मकारस्य हल्-वर्णे परे संहितायाम् अनुस्वारादेशः भवति इति अस्य सूत्रस्य अर्थः ।

यथा —

  1. हरिम् वन्दे इत्यत्र पदान्तमकारस्य संहितायाम् प्रकृतसूत्रेण अनुस्वारादेशे कृते अनुस्वारादेशे कृते हरिं वन्दे इति सिद्ध्यति ।

  2. सम् + हरति इत्यत्र उपसर्गस्य पदसंज्ञा वर्तते, अतः पदान्तमकारस्य प्रकृतसूत्रेण अनुस्वारादेशे कृते अनुस्वारादेशे कृते संहरति इति सिद्ध्यति ।

  3. अलम् + कृत्य इत्यस्मिन् समासे अलम् इति उपपदस्य पदसंज्ञा वर्तते, अतः पदान्तमकारस्य प्रकृतसूत्रेण अनुस्वारादेशे कृते अलंकृत्य इति सिद्ध्यति ।

अनुस्वारः

अनुस्वारः इति पृथक् वर्णः अस्ति । अस्य उच्चारणम् केवलम् नासिकया सह भवति, तदर्थम् मुखस्य साहाय्यम् नैव आवश्यकम् । अपि च, अस्य वर्णस्य माहेश्वरसूत्रेषु गणनं नैव भवति, अतः अयम् 'अयोगवाहः' अस्ति इत्यपि उच्यते । वस्तुतस्तु अनुस्वारस्य अट्-प्रत्याहारे ग्रहणं भवति इति सिद्धान्तकौमुद्याम् अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2 इत्यस्मिन् सूत्रे निर्दिष्टं वर्तते । एवमेव अनुस्वारस्य शर्-प्रत्याहारे अपि ग्रहणं भवति इति सिद्धान्तकौमुद्याम् विसर्जनीयस्य सः 8.3.34 इत्यस्मिन् सूत्रे निर्दिष्टं दृश्यते ।

अपवादाः

पदान्तमकारस्य प्रकृतसूत्रेण प्राप्तः अनुस्वारादेशः मो राजि समः क्वौ 8.3.25, हे मपरे वा 8.3.26 तथा च नपरे नः 8.3.27 इत्येतैः त्रिभिः सूत्रैः बाध्यते । तत्र मो राजि समः क्वौ 8.3.25 इत्यनेन अनुस्वारस्य नित्यं बाधः भवति, हे मपरे वा 8.3.26 तथा च नपरे नः 8.3.27 इत्येतयोः तु विकल्पेन बाधः भवति ।

Balamanorama

Up

index: 8.3.23 sutra: मोऽनुस्वारः


मोऽनुस्वारः - मोऽनुस्वारः । पदस्येत्यधिकृतम् । म इति षष्ठन्तं पदस्य विशेषणं । तदन्तविधिः । हलि सर्वेषामित्यतो हलीत्यनुवर्तते । तदाह-मान्तस्येत्यादिना । अलोन्त्यस्येति । उपतिष्ठत इति शेषः । ततस्च मान्तस्य पदस्य योऽन्त्योऽल् तस्येत्यर्थः । पदान्तस्य मस्येति फलितम् । हरिं वन्द इति । हरिम्-वन्द इति स्थिते मस्यानुस्वारः । गम्यत इति । गम्लृ गतौ । कर्मणि लट् । 'भावकर्मणोः' इत्यात्मनेपदे यक् । अत्र मस्य पदान्तत्वाभावान्नानुस्वारः ।

Padamanjari

Up

index: 8.3.23 sutra: मोऽनुस्वारः


अत्र पदस्येति स्थानषष्ठी, मकारेण पदस्य विशेषणान्नकारान्तस्य पदस्यालोन्त्यस्यानुस्वारो विज्ञायते । तदाह - मकारस्य पदान्तस्यति ॥