अनुदात्तौ सुप्पितौ

3-1-4 अनुदात्तौ सुप्पितौ प्रत्ययः परः च आद्युदात्तः च

Sampurna sutra

Up

index: 3.1.4 sutra: अनुदात्तौ सुप्पितौ


सुप्-पितौ प्रत्ययौ आदि-अनुदात्तौ

Neelesh Sanskrit Brief

Up

index: 3.1.4 sutra: अनुदात्तौ सुप्पितौ


सुप्-प्रत्ययानाम् तथा पित्-प्रत्ययानाम् प्रथमः स्वरः अनुदात्तः भवति ।

Neelesh English Brief

Up

index: 3.1.4 sutra: अनुदात्तौ सुप्पितौ


The first letter of the सुप् and the पित् प्रत्ययाः is अनुदात्त.

Kashika

Up

index: 3.1.4 sutra: अनुदात्तौ सुप्पितौ


पूर्वस्य अयमपवादः। सुपः पितश्च प्रत्ययाः अनुदात्ताः भवन्ति। दृषदौ। दृषदः। पितः खल्वपि पचति। पठति।

Siddhanta Kaumudi

Up

index: 3.1.4 sutra: अनुदात्तौ सुप्पितौ


पूर्वस्य अपवादः । यज्ञस्य । न यो युच्छति (न यो युच्छ॑ति) । शप्तिपोरनुदात्तत्वे स्वरितप्रचयौ ।

Neelesh Sanskrit Detailed

Up

index: 3.1.4 sutra: अनुदात्तौ सुप्पितौ


आद्युदात्तश्च 3.1.3 अनेन सूत्रेण सर्वेषां प्रत्ययानामादिस्वरस्य उदात्तत्वे प्राप्ते अनेन सूत्रेण सुप्-प्रत्ययानां विषये तथा पित्-प्रत्ययानां विषये अपवादः उच्यते । 'सुप्-प्रत्ययेषु तथा पित्-प्रत्ययेषु विद्यमानः आदिस्वरः अनुदात्तः भवति' इत्याशयः ।

उदाहरणम् -

1) सुप्-प्रत्ययाः - औ, जस्, अम्, औट् आदयः । एतेषाम् सर्वेषाम् प्रथमस्वरः अनेन सूत्रेण अनुदात्तः भवति । यथा - 'राम + भ्याम् → रामाभ्याम्' इत्यत्र 'भ्या' इत्यस्य आकारः अनुदात्तः भवति ।

2) पित्-प्रत्ययाः (= ते प्रत्ययाः येषु पकारः इत्संज्ञकः अस्ति) = ल्यप्, शप्, ङीप् - आदयः । एतेषां सर्वेषां प्रथमस्वरः अनेन सूत्रेण अनुदात्तः भवति । यथा, 'भू + शप् + ति → भवति' इत्यत्र वकारोत्तरः अकारः अनुदात्तः भवति ।

Padamanjari

Up

index: 3.1.4 sutra: अनुदात्तौ सुप्पितौ


अनुदातौ सुप्पितौ॥ सुबिति प्रत्याहारस्येदं ग्रहणम्, न स्पतमीबहुवचनस्य; पित्वादेवानुदातत्वस्य सिद्धत्वात्। अत एव वृतौ'सुपः' इति बहुवचनम्। पित एततु प्रक्रमानुरोधेन बहुवचनम्। सुपश्च पकारेण प्रत्याहारः, न कप; टाबादीनां पित्करणात्। पचतीति। शबन्तोदाहरणम्, तिपस्त्वदुपदेशात्'लसार्वधातुकम्' इत्येव सिद्धम्॥