कर्मव्यतिहारे णच् स्त्रियाम्

3-3-43 कर्मव्यतिहारे णच्स्त्रियाम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्

Kashika

Up

index: 3.3.43 sutra: कर्मव्यतिहारे णच् स्त्रियाम्


कर्म क्रिया। व्यतिहारः परस्परकरणम्। कर्मव्यतिहारे गम्यमाने धातोः णच्प्रत्ययो भवति स्त्रीलिङ्गे वाच्ये। तच् च भावे। चकारो विशेषणार्थः णचः स्त्रियामञ् 5.4.14 इति। व्यावक्रोशी। व्यावलेखी। व्यावहासी वर्तते। स्त्रियाम् इति किम्? व्यतिपाको वर्तते। बाधकविषयेऽपि क्वचिदिष्यते, व्यावचोरी, व्यावचर्ची। इह न भवति। व्यतीक्षा, व्यतीहा वर्तते। व्यात्युक्षी भवति। तदेतद् वैचित्र्यं कथं लभ्यते? कृत्यल्युटो बहुलम् 3.3.113 इति भवति।

Siddhanta Kaumudi

Up

index: 3.3.43 sutra: कर्मव्यतिहारे णच् स्त्रियाम्


स्त्रीलिङ्गे भावे णच् ॥

Padamanjari

Up

index: 3.3.43 sutra: कर्मव्यतिहारे णच् स्त्रियाम्


'धातुः' इति वर्तते, तस्य विशेषणं कर्मव्यतिहारग्रहणम्, कर्मव्यतिहारे वर्तमानादित्यर्थः । धातोश्च क्रियावाचित्वम्, न तस्य साधनकर्मव्यतिहारे वृत्तिः सम्भवति, अतो लौकिकस्य क्रियाकर्मणो ग्रहणमित्याह - कर्मव्यतिहारः क्रियाव्यतिहार इति । स्त्रीलिङ्गे भावे इति । कर्तूवर्जिते तु कारके न स भवति; अनभिधानादिति भावः । चकारो विशेषणार्थ इति । न स्वारार्थः, प्रत्ययस्वरेणैव सिद्धत्वात् । अस्य चाकारो न क्वापि श्रूयते, णजन्ताञ्च नित्यमञ् विधीयते, तत्र सतिशिष्टत्वाञ्ञित्स्वरेणैव भवितव्यम् । णचः स्त्रियामित्यत्र णात्स्त्रियामित्युच्यमाने'ज्वलितिकसन्तेभ्यो णः' इत्यस्यापि ग्रहणं स्यात् । व्यावक्रोशीत्यादि ।'क्रुश आह्वाने' ,'लिख अक्षरविन्यासे' ,'हसे हसेन' णजन्तादञ् । स च कृद्ग्रहणपरिभाषया सोपसर्गादपि भवति, तद्धितत्वादादिवृद्धिः ।'न य्वाभ्याम्' इत्ययं तु विधिर्न भवति; न कर्मव्यतिहार इति प्रतिषेधात् ।'स्त्रियां क्तिन्' इत्यत्र प्रकरण एतन्नोक्तम् वासरूपविधिर्यथा स्यात्, तेन व्यावक्रुष्टिरिति क्तिन्नपि भवति । व्यावचोरीत्यत्र'ण्यासश्रन्थोयुच्' इति युच् प्राप्नोति, क्तिनोऽपवादः, तथाऽयमपि णच् येन नाप्राप्तिन्यायेन क्तिन एवापवादः, तत्रापवादविप्रतिषेधाद्यौचि प्राप्तेऽयमेव णजिष्यते । व्यतीक्षा, व्यतीहेति । अत्र क्तिनपवादः'गुरोश्च हलः' इत्यकार एवेष्यते । व्यात्युक्षीति ठुक्ष सेचनेऽ, अत्राकारविषयेऽप्ययमेवेष्यते । तदेतद्वैचित्र्यं कथं भवतीति । न कथञ्चिदिति भावः । कृत्यल्युटो बहुलमिति । एवंविधं वैचित्र्यं कर्तुं बहुलग्रहणमेव भवतीति भावः ॥