संख्याया विधार्थे धा

5-3-42 सङ्ख्यायाः विधार्थे धा प्रत्ययः परः च आद्युदात्तः च तद्धिताः

Sampurna sutra

Up

index: 5.3.42 sutra: संख्याया विधार्थे धा


सङ्ख्यायाः विधार्थे धा

Neelesh Sanskrit Brief

Up

index: 5.3.42 sutra: संख्याया विधार्थे धा


'विधा' (= क्रियाप्रकारः) इत्यस्य विशेषणरूपेण प्रयुक्तेभ्यः सङ्ख्यावाचिभ्यः शब्देभ्यः स्वार्थे 'धा' प्रत्ययः भवति ।

Kashika

Up

index: 5.3.42 sutra: संख्याया विधार्थे धा


सङ्ख्यावाचिभ्यः प्रातिपदिकेभ्यो विधार्थे वर्तमाणेभ्यो धा प्रत्ययो भवति स्वार्थे। विधा प्रकारः, स च सर्वक्रियाविषय एव गृह्यते। क्रियप्रकारे वर्तमानायाः सङ्ख्याया धा प्रत्ययः। एकधा भुङ्क्ते। द्विधा गच्छति। त्रिधा। चतुर्धा। पञ्चधा।

Siddhanta Kaumudi

Up

index: 5.3.42 sutra: संख्याया विधार्थे धा


क्रियाप्रकारार्थे वर्तमानात्संख्याशब्दात्स्वार्थे धा स्यात् । चतुर्धा । पञ्चधा ॥

Neelesh Sanskrit Detailed

Up

index: 5.3.42 sutra: संख्याया विधार्थे धा


'सङ्ख्या' इति व्याकरणविशिष्टा काचन संज्ञा । बहुगणवतुडति सङ्ख्या 1.1.23 इत्यनेन 'बहु' शब्दः, 'गण' शब्दः, वतुँप्-प्रत्ययान्तशब्दाः (यावत्, तावत्, एतावत्, इयत्, कियत्) तथा 'डति'प्रत्ययान्तः कति-शब्दः एतेषां 'सङ्ख्या' संज्ञा भवति । तथा च, 'एक' / द्वि' आदीनाम् सङ्ख्याशब्दानामपि 'सङ्ख्या' इति संज्ञा दीयते । एते सर्वे शब्दाः यदा 'क्रियाप्रकारः' अस्मिन् अर्थे प्रयुज्यते, तथा तेभ्यः शब्देभ्यः 'क्रियाप्रकारम्' अस्मिन् अर्थे 'धा' प्रत्ययः भवति । यथा -

  1. एकेन प्रकारेण = एक + धा = एकधा । यथा - एकधा भुङ्क्ते ।

  2. द्वयोः प्रकारयोः = द्वि + धा = द्विधा । यथा - द्विधा ब्रूते ।

  3. त्रिभिः प्रकारैः = त्रि + धा = त्रिधा । यथा - त्रिधा नयति ।

  4. चतुर्भिः प्रकारैः = चतुर् + धा = चतुर्धा । यथा - चतुर्धा स्पष्टीकरोति ।

  5. पञ्चभिः प्रकारैः = पञ्चन् + धा = पञ्चधा । [नलोपः प्रातिपदिकान्तस्य 8.2.7 इति नकारलोपः]

  6. षड्भिः प्रकारैः

= षष् + धा

→ षड् + धा [झलां जशोऽन्ते 8.2.39 इति जश्त्वम्]

→ षड्धा

  1. बहुभिः प्रकारैः = बहु + धा = बहुधा

  2. कतिभिः प्रकारैः = कति + धा = कतिधा

  3. यावद्भिः प्रकारैः = यावत् + धा = यावद्धा

अनेन सूत्रेण निर्मिताः सर्वे शब्दाः तद्धितश्चासर्वविभक्तिः 1.1.38 इत्यनेन अव्ययसंज्ञकाः भवन्ति ।

स्मर्तव्यम् -

  1. 'क्रियायाः प्रकारः' अस्मिन् अर्थे एव अनेन सूत्रेेण 'धा' प्रत्ययः विधीयते । केवलम् 'प्रकारः' इति अर्थः अपेक्षते चेत् प्रकारवचने जातीयर् 5.3.69 इत्यनेन 'जातीयर्' प्रत्ययः भवति । यथा - एकजातीय, द्विजातीय, बहुजातीय - आदयः ।

  2. अत्र 'क्रियायाः प्रकारः' इति उच्यते, अतः विग्रहवाक्ये अत्र तृतीयाविभक्त्याः प्रयोगः भवति ।

Balamanorama

Up

index: 5.3.42 sutra: संख्याया विधार्थे धा


संख्याया विधाऽर्थे धा - सङ्ख्याया विधार्थे धा । विधाशब्दस्याऽर्थः प्रकारो विधार्थः ।विधा विधौ प्रकारो विधार्थः ।विधा विधौ प्रकारे चे॑त्यमरः । सामान्यस्य भेदको विशेषः-प्रकारः । सचाभिधानस्वभावाक्रियाविषयक एव गृह्रते । तदाह — क्रियाप्रकारेति । चतुर्धापञ्चधेति ।गच्छती॑त्यादि क्रियापदमध्याहार्यम् । चतुष्प्रकारा गमनादिक्रियेति बोधः ।नवधा द्रव्य॑मित्यादावपिभवती॑त्यादि क्रियापदमध्याहार्यम् ।

Padamanjari

Up

index: 5.3.42 sutra: संख्याया विधार्थे धा


विधा प्रकार इति'गृह्यते' इति वक्ष्यमाणेन सम्बन्धः। यद्यप्योदनपिण्कडोऽपि विधाशब्देनोच्यते, तथापीह प्रकार एव गृह्यत इत्यर्थः। एतेन एका गोविधेत्यादौ न भवति। एतच्चार्थग्रहणाल्लभ्यते। इह हि विधायामिति वक्तव्ये यदर्थग्रहणं कृतं तस्यैतत्प्रयोजनम् - विधाशब्दो यत्रार्थे प्रसिद्धतरस्तस्य ग्रहणं यथा स्यात्। यथा च त्रिविधम्, बहुविधमित्यादौ प्रकारे प्रसिद्धो विधाशब्दः, न तथौदनपिण्कडे। सूत्रे च - विधाशब्दस्यार्थो विधार्थ इति षष्ठीसमासः। एवं वृतावपि। स च क्रियाविषय इति। एतच्चाभिधानस्वभावाल्लभ्यते। तदयमर्थ इत्याह - क्रियाप्रकारे इति। कथं तर्हि नवधा द्रव्यम्, बहुधा गुणाः, एकविशतिधा बाह्वृच्यम्, नवधाथर्वाणो वेद इति। अत्रापि हि सर्वत्र क्रिया प्रतीयते - उपदिश्यते इति, भवतीति वा। द्विधा गच्छतीत्यादावे कस्या एव गमनक्रियाया अवान्तरप्रकारभेदः प्रतीयते। एकधा भुङ्क्ते इत्यत्र तु प्रकारैक्यप्रतिपादनेन तन्निवृत्तिः। एकः पाक इत्यादौ तु पाकव्यक्तेरेक्त्वं विवक्षितम्, न त्ववान्तरप्रकारभेदाभावेनैकप्रकारत्वमिति धाप्रत्ययाभावः। तद्विवक्ष्यां तु भवत्येव - एकधा पाक इति। पञ्च पाका इत्यादौ च भिन्ना एव पाका विवक्षिताः, न त्वेकस्य प्रकारवत्वम्। तद्विवक्षायां तु तत्रापि भवितव्यमेव - पञ्चधा पाका इति ॥