णचः स्त्रियामञ्

5-4-14 णचः स्त्रियाम् अञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः

Sampurna sutra

Up

णचः स्त्रियामञ्

Neelesh Sanskrit Brief

Up

णच्-प्रत्ययान्तशब्देभ्यः स्त्रीलिङ्गे नित्यमञ्-प्रत्ययः विधीयते ।

Kashika

Up

<<कर्मव्यतिहारे णच् स्त्रियाम्>> ३.३.४३ इति णच् विहितः, तदन्तात् स्वार्थेऽञ् प्रत्ययो भवति स्त्रियां विषये। व्यावक्रोशी। व्यावहासी वर्तते। स्त्रीग्रहणं किमर्थं यावता णच् स्त्रियामेव विहितः, ततः स्वार्थिकस्तत्रैव भविष्यति? एवं तर्ह्येतज् ज्ञापयति — <<स्वार्थिकाः प्रत्ययाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्तेऽपि>> इति। तेन गुडकल्पा द्राक्षा, तैलकल्पा प्रसन्ना, देव एव देवतेत्येवमादि उपपन्नं भवति॥

Siddhanta Kaumudi

Up

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'णच्' इति कश्चन कृत्-प्रत्ययः । <<कर्मव्यतिहारे णच् स्त्रियाम्>> 3.3.43 इत्यनेन कर्मव्यतिहारे (When exchange of actions is indicated. E.g. two people shouting on each other, two people making fun of each other etc.) स्त्रीलिङ्गे वाच्ये धातोः 'णच्' इति प्रत्यय विधीयते । अस्मात् णच्-प्रत्ययात् वर्तमानसूत्रेण 'अञ्' प्रत्ययः स्वार्थे विधीयते । यथा - 'वि + व् + क्रुश्' इत्यस्मात् धातोः स्त्रीलिङ्गे कर्मव्यतिहारे वक्तव्ये <<कर्मव्यतिहारे णच् स्त्रियाम्>> 3.3.43 इत्यनेन णच्-प्रत्यये कृते इयम् प्रक्रिया भवति - व्यवक्रोशति इत्येव = वि + अव् + क्रुश् + णच् + अञ् [वर्तमानसूत्रेण स्वार्थे अञ्-प्रत्ययः] → व्यवक्रुश् + अ + अ [इत्संज्ञालोपः] → व्यवक्रोश् + अ + अ [<<पुगन्तलघूपधस्य च>> 7.3.86 इति उपधागुणः] → व्यावक्रोश् + अ + अ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → व्यावक्रोश् + अ [<<यस्येति च>> 6.4.148 इति अकारलोपः] → व्यावक्रोश + ङीप् [स्त्रीत्वे विवक्षिते <<टिड्ढाणञ्...>> 4.1.15 इति ङीप्] → व्यावक्रोश् + ङीप् [<<यस्येति च>> 6.4.148 इति अकारलोपः] → व्यावक्रोशी एवमेव - 2. व्यवहसति सा = वि + अव् + हस् + णच् + अञ् → व्यावहासी । 3. व्यावलिखति सा = वि + अव् + लिख् + णच् + अञ् → व्यावलेखी । एतादृशाः शब्दाः अपि सिद्ध्यन्ति । ज्ञातव्यम् - 1. वस्तुतः <<कर्मव्यतिहारे णच् स्त्रियाम्>> 3.3.43 इत्यनेन णच्-प्रत्ययः स्त्रीलिङ्गे वाच्ये एव विधीयते । अतः अस्मात् स्वार्थे विहितः अञ्-प्रत्ययः अपि स्त्रीलिङ्गे वाच्ये एव भवितुमर्हति । एवम् सत्यपि वर्तमानसूत्रे 'स्त्रियाम्' इति पुनर्निदेशः कृतः अस्ति । अयम् निर्देशः अस्य ज्ञापकम्, यत् कुत्रचित् स्वार्थिकप्रत्ययानाम् प्रयोगेण लिङ्गपरिवर्तनमपि भवितुमर्हति । यथा - 'चत्वारः वर्णाः तदेव चातुर्वर्णम्', 'त्रयाः लोकाः तदेव त्र्यैलोक्यम्', 'देव एव देवता', 'ह्रस्वा कुटी सा एव कुटीरः' - आदीषु उदाहरणेषु यद्यपि प्रत्ययः स्वार्थे विधीयते, तथापि तद्धितान्तशब्दस्य लिङ्गम् प्रकृत्याः लिङ्गात् भिन्नम् विद्यते । अस्य ज्ञापकार्थम् एव वर्तमानसूत्रे 'स्त्रियाम्' इति निर्देशः क्रियते । 2. यद्यपि इदम् सूत्रम् <<समर्थानाम् प्रथमात् वा>> 4.1.82 इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, तथाप्यत्र विकल्पः न विधीयते । भाष्ये अस्मिन् सन्दर्भे उच्यते - 'आमादयः प्राङ्मयटः नित्याः' । इत्युक्ते, <<किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे>> 5.4.11 इत्यस्मात् आरभ्य <<एकस्य सकृच्च>> 5.4.19 इतिपर्यन्तम् विहिताः सर्वे प्रत्ययाः नित्याः एव भवन्ति । इत्युक्ते, 'व्यवक्रोशति सा' इत्यस्मिन् अर्थे 'व्यावक्रोशी' इत्येव शब्दः प्रयोक्तव्यः । केवलम् 'णच्' प्रत्ययं कृत्वा रूपमत्र न प्रयोक्तव्यम् - इति आशयः ।

Balamanorama

Up

Padamanjari

Up

व्यावक्रोशीति। व्यवपूर्वात्क्रुशेर्णच्,'कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्' णजन्तेऽनुप्रवेशात्समुदायादञ्, तस्याङ्गत्वादादिवृद्धिः।'न य्वाभ्यां पदान्ताभ्याम्' इत्येष विधिर्न भवति;'न कर्मव्यति हारे' इति निषेधात्। तत इति। णचः, णजन्तादित्यर्थः। स्वार्तिकस्तत्रैव भविष्यतीति।'स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते' इति कृत्वा। अतिवर्तन्तेऽपीति। व्यभिचरन्त्यपीत्यर्थः। अपिशब्दादनुवर्तन्तेऽपि, अनुवृत्तिस्तु'कासूगोणीभ्यां ष्ठरच्' इति षित्करणान्ङीषर्थादवसीयते। एकान्ततो निवृते हि षकारोऽर्थको भवेत्, तेनेत्यादिना ज्ञापनस्य प्रयोजनं दर्शयति। प्रसन्नाउसुराविशेषः। देवतेति। देवशब्दात्पुंल्लिङ्गादेव तल् ॥