उपपदमतिङ्

2-2-19 उपपदम् अतिङ् आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः नित्यं

Kashika

Up

index: 2.2.19 sutra: उपपदमतिङ्


नित्यम् इति वर्तते। उपपदमतिङन्तं समर्थेन शब्दान्तरेण सह समस्यते नित्यम्, तत्पुरुषश्च समासो भवति। कुम्भकारः। नगरकारः। अतिङिति किम्? एधानाहारको व्रजति। ननु च सुप् सुपा इति वर्तते, तत्र कुतस् तिङन्तेन समासप्रसङ्गः? एवं तर्हि ज्ञापयति एतयोर्योगयोः सुप् सुपेति न सम्बध्यते इति। तेन गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः इत्येतदुपपन्नं भवति। अश्वक्रीती। अश्वक्रीती। धनक्रीती।

Siddhanta Kaumudi

Up

index: 2.2.19 sutra: उपपदमतिङ्


उपपदं सुबन्तं समर्थेन नित्यं समस्यते । अतिङन्तश्चायं समासः । कुम्भं करोतीति कुम्भकारः । इह कुम्भ अस् कार इत्यलौकिकं प्रक्रियावाक्यम् । अतिङ् किम् । मा भवान् भूत् । माङि लुङ् <{SK1219}> इति सप्तमीनिर्देशान्माङुपपदम् । अतिङ्ग्रहणं ज्ञापयति सुपेत्येन्नेहानुवर्तत इति । पूर्वसूत्रेऽपि गतिग्रहणं पृथक्कृत्यातिङ्ग्रहणं तत्रापकृष्यते । सुपेति च निवृत्तम् । तथा च [(परिभाषा - ) गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः] इति सिद्धम् ॥ व्याघ्री । अश्वक्रीती । कच्छपी ॥

Laghu Siddhanta Kaumudi

Up

index: 2.2.19 sutra: उपपदमतिङ्


उपपदं सुबन्तं समर्थेन नित्यं समस्यते। अतिङन्तश्चायं समासः। कुम्भं करोतीति कुम्भकारः। अतिङ् किम्? मा भवान् भूत्। माङि लुङिति सप्तमीनिर्देशान्माङुपपदम्। गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः (परिभाषा) । व्याघ्री। अश्वक्रीती। कच्छपीत्यादि॥

Balamanorama

Up

index: 2.2.19 sutra: उपपदमतिङ्


उपपदमतिङ् - उपपदमतिङ् । सुबन्तमिति । 'सुबामन्त्रिते' इत्यतस्तदनुवृत्तेरिति भावः । समर्तेनेति । प्रथमान्तं समर्थग्रहणं तृतीयान्ततया विपरिणम्यत इति भावः । अतिङन्तश्च समास इति । सूत्रे तिङिति तदन्तग्रहणमिति भावः । समासः तिङन्तघटितो न भवतीत्यर्थः । अतिङ् किम् , कारको व्रजति ।तुमुन्ण्वुलो क्रियायां क्रियार्थाया॑मिति व्रजतावुपपदे कृञो ण्वुल्, अकादेशः ।उपपदं समर्थेने॑त्येतावत्युक्ते इहाप्युपपदसमासः स्यात् । अतोऽतिङ्ग्रहणम् । नचैवं सुबित्यनुवृत्तेः प्रयोजनाऽभाव इति वाच्यं, 'चर्मकार' इत्यत्र नलोपार्थकत्वात् ।उपपदमतिङन्तं समर्तेन समस्यते॑ इति व्याख्याने तु सुबिति नानुवर्तेत । ततश्च 'चर्मकार' इत्यत्र नलोपो न स्यादिति भावः । कुम्भिमिति । कुम्भं करोतीत्यर्थः ।कर्मण्य॑णिति कर्मीभूतकुम्भवाचकपदे उपपदे कृञ्धातोः कर्तरि अण्प्रत्ययेअचो ञ्णिती॑ति वृद्धौ रपरत्वे कारशब्दः । तेन कुम्भशब्दस्य समासे कुम्भकारशब्द इत्यर्थः । ननु कुम्भं करोतीति कथं विग्रहप्रदर्शनम्, 'अतिङन्तः समास' इत्युक्तत्वादित्यत आह — कुम्भ अस् कार इत्यलौकिकं प्रक्रियावाक्यमिति । लोके प्रयोगानर्हत्वमलौकिकत्वम् ।प्रत्ययोत्तरपदयोश्चे॑ति सूत्रभाष्यरीत्या अलोकिकविग्रहवाक्य एव समासप्रवृत्तिः । कुम्भं करोतीति तदर्थप्रदर्शनमात्रमिति भावः । कुम्भ अम्-कार इत्यपपाठः, कृद्योगे षष्ठआ विधानात् । मा भवान्भूदिति । अत्र भूदिति तिङन्तेन माङः समासनिवृत्त्यर्थमतिङ्ग्रहणमिति भावः । भवानिति पदं तु समासाऽभावसूचनाय मध्ये प्रयुक्तम् । ननु माङस्तृतीयधात्वधिकारे सप्तमीनिर्दिष्टत्वं तु अदृष्टं येन तस्य उपपदत्वात्समासः प्रसज्यत इत्यत आह — माङिति । ननु अतिङ्ग्रहणं व्यर्थं, मा भवान्भूदित्यत्र सुपेत्यनुवृत्त्यैव समासनिवृत्तिसंभवादित्यत आह — अतिङ्ग्रहणमिति । एवंच उपपदमसुबन्तेन समस्यत इति फलितम् । गतिसमासोऽप्यसुबन्तेनेत्याह — पूर्वसूत्र इति । उत्तरसूत्रात्पूर्वसूत्रेऽनुवृत्तिरपकर्षः । 'कुप्रादयः' इतिगति॑रिति च योगो विभज्यते । कुप्रादयः सुबन्तेन समस्यन्ते । गतिस्तु समर्थेन समस्यते । अतिङन्तश्च समास इति व्याख्येयमिति यावत् । ततः किमित्यत आह — तथा चेति ।गतिकारकोपपदानां कृदन्तैः सह सुबुत्पत्तेःप्राक्समासो वक्तव्य॑ इति प्राचीनव्याकरणोक्तं सिद्धं भवतीत्यर्थः । यद्यप्युक्तरीत्या गत्युपपदयोरेव लाभः, तथाप्येकदेशानुमतिद्वारा प्राचीनपरिबाषेयं सिध्यति । अथ परिभाषायाः फलं दर्शयितुं गतिसमासमुदाहरति — व्याघ्रीति । व्याजिघ्रतीति व्याघ्रः ।व्याङ्पूर्वाद्घ्राधातोः 'आतश्चोपसर्गे' इति कः,आतो लोप इटि चे॑त्याल्लोपः ।पाघ्राध्मादेट्दृशः शः॑ इति तु न भवति,जिघ्रतेः संज्ञायां नेति वाच्य॑मिति निषेधात् । आङो घ्रशब्देन गतिसमासः । आघ्रशब्देन वेर्गतिसमासः । तत्र यदि घ्रशब्दस्य सुबन्तत्वमपेक्ष्येत, तर्हि स्त्रीप्रत्यये उत्पन्ने सुबुत्पत्तिः स्यात्, स्वार्थद्रव्यलिङ्गसङ्ख्याकारकप्रयुक्तकार्याणां क्रमिकत्वस्यकुत्सिते॑इति सूत्रस्थभाष्यदर्शितस्यङ्याप्प्रातिपदिका॑दित्यत्रास्माभिः प्रपञ्चितत्वात् । ततश्च सुबुतपत्तये लिङ्गसङ्ख्याकारकं क्रमेणाऽपेक्ष्यमिति प्रथमं लिङ्गसंयोगे सति अदन्तत्वाट्टाप्स्यात् । न तु जातिलक्षणङीष्, घ्रशब्दमात्रस्य जातिवाचित्वाऽभावात् । ततश्च घ्राशब्देन सुबन्तेन समासे सति व्याघ्राशब्दस्याऽदन्तत्वाऽभावाज्जातिलक्षणो ङीष् न स्यादिति भावः । यद्यप्युपपदत्वेनाप्येतत्सिद्धं, तथापि गतित्वसंभवमात्रेणेदमित्याहुः । वस्तुतस्तु आङो घ्राशब्देन उपपदसमासः, 'आतश्चोपसर्गे' इति सप्तमीनिर्देशात् । वेस्तु आघ्रशब्देन गतिसमास इति तदंशे गतिसमासोदाहरणमित्याहुः । अथ कारकसमासमुदाहरति — अआक्रीतीति । अओन क्रीतेति विग्रहे 'कर्तृकरणे कृता' इति समासः ।क्रीतात्करणपूर्वा॑दिति ङीष् । सुबन्तेन समासे तूक्तरीत्या पूर्वं टापि अदन्तत्वाऽभावान्ङीष् न स्यादिति भावः । उपपदसमासमुदाहरति-कच्छपीति । कच्छः=तीरं, तेन तस्मिन्वा पिबतीतिकच्छपो । 'सुपि स्थः' इत्यत्र सुपी॑ति योगविभागात्कः, उपपदसमासः, । तस्य सुबन्तापेक्षायामुक्तरीत्या टाबेव स्यान्न तु जातिलक्षण ङीषिति भावः ।

Padamanjari

Up

index: 2.2.19 sutra: उपपदमतिङ्


उपपदमतिङ्॥ एधानाहारको व्रजतीति।'तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्' इति ण्वुल्। अतिङिति किमिति। येनाभिप्रायेण पृष्ट्ंअ तमाविष्करोति। ननु चेति। एतज्ज्ञापयतीति। स्यादेतत् - मुख्यस्य तिङ्न्तस्य प्रतिषेधोऽनर्थक इति। यस्तेन समानार्थः सुबन्तस्तस्य प्रतिषेधो विज्ञायते। तत्र यद्यपि कालकारकसंख्योपग्रहयुक्तः पूर्वापरीभूतः क्रियारूपस्तिङ्न्तार्थप्रधानोऽर्थो न सुबन्तस्य सम्भवति, तथापि क्रियावाचित्वमात्रेण तदर्थत्वमाश्रीयते, क्रियावाच्युपपदं न समस्यत इत्यर्थः। तेन कारको गतः, कारकस्य व्रज्येति गतब्रज्याशब्दयोः कारकशब्देन समासो न भवति; अन्यथा हि क्रियार्थायामिति सप्तमीनिर्देशेनोपपदत्वादनयोरपि समासः स्यादिति? तन्न; अनुपपदत्वात्। क्रियायां क्रियार्थायामिति सप्तमीनिर्देशेन क्रियावाचिन उपपदत्वम्, धातुरेवात्र क्रियावचनस्तदाश्रयश्च ण्वुल् प्रत्ययः। गतशब्दस्तु क्रियोपसर्जनं कर्तारमाह, व्रज्याशब्दोऽपि यस्तस्य सिद्धता नाम धर्मस्तत्र धञादयो भवन्तीति धात्वर्थस्य सिद्धतायां वर्तन्ते, अतो यत्क्रियावाचित्वादुपपदं न तत्सुबन्तम्, यत्मुबन्तं न तत्क्रियावाचि नाप्युपपदमिति नार्थ एवमनातिङ्ग्रहणेन। एतयोर्योगयोरिति। ननु चास्मिन्नेव योगे तदनभिसम्बन्धो युक्तः, यत्रातिङ्ग्रहणमस्ति, न पूर्वत्र? एवं मन्यते - योगविभागेनातिङ्ग्रहणं पूर्वसूत्रेणापि सम्बन्धनीयमिति। यद्येवम्, कुशब्दे प्रादिषु चातिप्रसङ्गः, तत्रापि प्राक् सुबुत्पतेः समासः स्यात्? एवं तर्हि पूर्वसूत्रे गतिग्रहणं पृथक्कृत्य तेनैवातिङ्ग्रहणं सम्बन्धनीयम्। गतिकारकोपपदानाम्, अस्यायमर्थः - गतीनां कारकाणामुपपादानां च कृद्भिः सह यः समासस्तेनतेन लक्षणेन स उतरपदात्सुबुत्पतेः प्रागेव कार्यः, पूर्वपदन्तु सुबन्तमेव समस्यत इति। गतीनां तावत् - व्याजिघ्रतीति व्याघ्री'पाघ्राध्माधेट्द्दशः शः' इति प्राप्तस्य जिघ्रतेः'संज्ञायां प्रतिषेधो वक्तव्यः' इति निषेधात् ठातश्चोपसर्गेऽ इति कः, व्याङेर्घ्रशब्देन गतिसमासः, स यद्यौतरपदे सुबन्ते जाते पश्चात्स्यात्, ततः सुबुत्पतये संख्याकर्मादियोगो विवक्षितव्यः, तद्योगाच्च प्रागेव लिङ्गयोगः स्वार्थमभिधाय शब्द इति न्यायात्, ततश्च लिङ्गनिमितः प्रत्ययो भवन् घ्रशब्दमात्रस्याजातिवाचित्वादाप् स्यात्, ततश्च व्याङेर्घ्राशब्देन समासः, ततो व्याघ्राशब्दस्य जातित्वेऽप्यनकारान्तत्वाज्जातिलक्षणो ङीष् न स्यात्; प्राक् सुबुत्पतेः समासो भवन् लिङ्गयोगमपि नापेक्षत इत्यन्तरङ्गत्वात्स एव तावद्भवति पश्चात्स्त्रीप्रत्ययो भवन्ङीषेव भवति, पूर्वपदस्य तु सुबन्तत्वात्पदकार्याणि भवन्ति, निर्गत इति रुत्वम्, संय्यन्तेति परसवर्णविकल्प इत्यादीनि। कारकाणामभ्रेर्लिप्ताऽभ्रलिप्ती,'कर्तृ करणे कृता बहुलम्' इति समासः, यद्यौतरपदस्य सउबन्तत्वं स्यात्पूर्ववट्टाप् स्यात्, ततः'क्रीतात्करणपूर्वात्' 'क्तादल्पाख्यायाम्' इति ङीष् न स्याद्; अत इत्यधिकारात्, वचनसामार्थ्याद्वा पूर्वशब्दं व्यवस्थावचनमाश्रित्य वाक्यावस्थायामेव स्यात्, अत इत्यधिकारो वा व्यवच्छिद्येत। प्राक् सुबुत्पतेः समासे पूर्ववत्सिद्धमिष्टम्। अत्रापि पूर्वपदस्य सुबन्तात्वाच्चर्मक्रीतीत्यादौ नलोपादिकार्याणि भवन्ति। उपपदानाम् - कच्छेन पिबतीति'सुपि स्थः' इत्यत्र सुपीति योगविभागात्कः, कच्छपी, व्याघ्रीतुल्यम्, माषान्वपति'सुप्यजातौ णिनिस्ताच्छील्ये' माषवापिणी, ङीपः प्राक् समासे प्रातिपदिकस्यान्तो नकार इति णत्वं भवति। सुबन्तस्य तु समासे ङीप्समासस्यान्तो न तु नकार इति न स्यात्। अत्रापि पूर्वपदस्यसुबन्तत्वाच्चर्मकारादौ नलोपादिपदकार्य भवत्येव। अत्रोपपदग्रहणं गतिकारकव्यतिरिक्तोपपदपरिग्रहार्थम् - मृषावापिणी, इषद्दर्शाया अपत्यं ऐषद्दर्शेयः, अत्र दर्शशब्देन समासे सति समुदायात्स्त्रीभ्यो ढकं बाधित्वा दर्शाशब्दात् स्त्रीप्रत्ययलक्षणो ढक् स्यात्, स्त्रीप्रत्यये तदादिनियमाभावेऽपि दर्शाशब्दादपि कदाचित्स्यादित्येषा दिक्। जातान्यस्याः परिभाषायाः प्रयोजनानि। कथं पुनतिङ्ग्रहणेनायमर्थः साधयितुं शक्यः, यावता प्रथमान्तमतिङ्ग्रहणं प्रथमान्तस्यैव सुब्ग्रहणस्य निवृत्तिं सूचयेदिति पूर्वपदे पदकार्याणि न स्युः, उतरपदे चोक्तमिष्ट्ंअ न सिध्यति, तदेतत्क्रियमाणमतिङ्ग्रहणं विपर्ययमेव साधयति, तदपि गत्युपपदयोरेव कारकेषु तु'कर्तृ करणे कृता बहुलम्' इत्यादावस्याः कथाया अप्रसङ्ग एव? उच्यते - योगविभागेनातिङ्ग्रहणं गतिनापि संबध्यत इत्युक्तम्, एवं स्थिते योगद्वयविहितसमासमतिङ्ग्रहणेन विशेषयिष्यामः - गतिः समस्यते अतिङ् समासो भवति, उपपदं समस्यते अतिङ् च समासो भवतीति। तदेवम्ठ् माइङ् लुङ्ऽ मा कार्षीदित्यादौ तिङ्न्तेन समासो मा भूदित्येवमर्थं क्रियमाणमतिङ्ग्रहणं सुपेति तृतीयान्तस्य निवृत्तिं साधयतीति गत्युपपदयोस्तावत्सिद्धिमिष्टम्। वृतावपि'सुप् सुपेति न संबध्यते' इति समुदायस्य निवृत्तिर्विवक्षिता, न केवलस्य सुब्ग्रहणस्य। प्रत्युदाहरणमपि दिङ्मात्रं प्रदर्शितम्, न हि तत्र तिङ्न्तेन समासः, कि तर्हि? तिङ्न्तस्य सुबन्नेन,'कर्तृ करणे कृता बहुलम्' इत्यत्रापि कृतेति न वक्तव्यम्, कथम् ? कर्तृ करणयोः क्रियापेक्षत्वात्क्रियावचनेन तावत्समासः,धातुश्च क्रियावचनः, धातोश्च द्वये प्रत्ययाः - कृतस्तिङ्श्च, तत्र सुबधिकारातिङ्न्तेनाप्रसङ्गः, तदेतत् कृद्ग्रहणं कृदन्तावस्थायामेव यथा स्यादित्येवमर्थमिति केचित्। नेति वयम्। काष्ठ्èअः पचतितराम्, दध्ना भुक्तपूर्वीत्यादौ तद्धितान्तेन समासो मा भूदित्येवमर्थं कृद्गहणं कर्तव्यं कष्टश्रितादिषु प्राक्सुबुपतेः समासो न साधित इति कष्टश्रितेत्यादि न सिद्ध्यति। एव तर्हि गतिकारकोपपदानामिति परिभाषा पूर्वाचार्यैः पठिता सूत्रकारेणाप्यतिङ्ग्रहणेन तद्देश आश्रीता। तत्र सामान्यापेक्षां ज्ञाप्रकमिति कृत्स्नमेव परिभाषार्थं ज्ञापयतीति सिद्धमिष्टम्। तदेतत्प्रतिपद्यन्तां भाष्ये कृतपरिश्रमाः। नान्ये सहस्रमप्यन्धाः सूर्य पश्यन्ति नाञ्जसा॥