तद्धितेष्वचामादेः

7-2-117 तद्धितेषु अचाम् आदेः वृद्धिः अचः ञ्णिति

Sampurna sutra

Up

अङ्गस्य अचामादेः अचः णिति ञिति तद्धितेषु वृद्धिः

Neelesh Sanskrit Brief

Up

णित् / ञित्-तद्धित-प्रत्यये परे अङ्गस्य आदि-स्वरस्य वृद्धिः भवति ।

Neelesh English Brief

Up

When followed by a णित् / ञित् तद्धित-प्रत्यय, the आदि-स्वर of the अङ्ग undergoes a वृद्धि.

Kashika

Up

तद्धिते ञिति णिति च प्रत्यये परतोऽङ्गस्याचामादेरचः स्थाने वृद्धिर्भवति। गार्ग्यः। वात्स्यः। दाक्षिः। प्लाक्षिः। णिति — औपगवः। कापटवः। त्वाष्ट्रः, जागत इत्यत्राचामादेर्वृद्धिरन्त्योपधालक्षणां वृद्धिं बाधते॥

Siddhanta Kaumudi

Up

ञिति णिति च प्रत्यये परेऽचामादेरचो वृद्धिः स्यात् ॥

Laghu Siddhanta Kaumudi

Up

ञिति णिति च तद्धितेष्वचामादेरचो वृद्धिः स्यात् । यस्येति च । पौर्वशालः ॥ पञ्च गावो धनं यस्येति त्रिपदे बहुव्रीहौ । <<द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम्>> (वार्त्तिकम्)॥

Neelesh Sanskrit Detailed

Up

यदि कस्मिंश्चित् तद्धित-प्रत्यये णकारः ञकारः वा इत्संज्ञकः अस्ति, तर्हि तस्मिन् प्रत्यये परे अङ्गस्य प्रथमः यः अच्-वर्णः, तस्य वृद्धिः भवति । उदाहरणानि एतानि - 1. दक्ष + इञ् [<<तस्यापत्यम्>> 4.1.92 अस्मिन् अर्थे <<अत इञ्>> 4.1.95 इति इञ्-प्रत्ययः] → दाक्ष इञ् [<<तद्धितेष्वचामादेः>> 7.2.117 इति ञित्-प्रत्यये परे आदिवृद्धिः । इत्युक्ते, अङ्गस्य आदिवर्णः यः अकारः, तस्य वृद्धिः आकारः] → दक्ष् + इञ् [<<यस्येति च>> 6.4.148 इति अङ्गस्य अकारस्य लोपः] → दाक्षि 2. शीत + ष्यञ् [<<वर्णदृढादिभ्यः ष्यञ् च>> 5.1.123 इति ष्यञ्-प्रत्ययः] → शैत + य [<<तद्धितेष्वचामादेः>> 7.2.117 इति ञित्-प्रत्यये परे आदिवृद्धिः । ईकारस्य वृद्धिः ऐकारः] → शैत् + य [<<यस्येति च>> इति अकारलोपः] → शैत्य 3. उपगु + अण् [<<तस्यापत्यम्>> 4.1.92 इति अण्-प्रत्ययः] → औपगु अ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः । उकारस्य वृद्धिः औकारः] → औपगो अ [<<ओर्गुणः>> 6.4.146 इत्यनेन उकारस्य गुणः ओकारः] → औपगव [<<एचोऽयवायावः>> 6.1.78 इति अव्-आदेशः] 4. सोम + ट्यण् [<<सास्य देवता>> 4.2.24 अस्मिन् अर्थे <<सोमाट् ट्यण्>> 4.2.30 इति ट्यण्-प्रत्ययः] → सौम + य [<<तद्धितेष्वचामादेः>> 7.2.117 इति ञित्-प्रत्यये परे आदिवृद्धिः । ओकारस्य वृद्धिः औकारः] → सौम् + य [<<यस्येति च>> इति अकारलोपः] → सौम्य ज्ञातव्यम् - अस्मिन् सूत्रे 'अङ्गस्य आदिस्वरस्य वृद्धिः भवति' इति निर्दिष्टमस्ति, तथा च 'अचः' इत्यपि अनुवर्तते, अतः <<इको गुणवृद्धी>> 1.1.3 इत्यस्य प्रयोगः अत्र न भवति ।

Balamanorama

Up

<<तद्धितेष्वचामादेः>> - तद्धितेष्वचामादेः ।अचोञ्णिती॑त्यनुवर्तते ।मृजेर्वृद्धि॑रित्यतो वृद्धिरिति च ।अचा॑मिति निर्धारणषष्ठी । तदाह — ञितीति ।

Padamanjari

Up

नाडायनः, चारायण इति । नडादिभ्यः फक् । आक्षिकः, शालाकिक इति । दीव्यत्यर्थे ठक् ॥