5-3-101 वस्तेः ढञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः इवे
वस्तेः इवे ढञ्
'वस्ति' शब्दात् 'इव' अस्मिन् सन्दर्भे स्वार्थे ढञ्-प्रत्ययः भवति ।
इवेत्यनुवर्तते। इतः प्रभृति प्रत्यया सामान्येन भवन्ति, प्रतिकृतौ चाप्रतिकृतौ च। वस्तिशब्दादिवार्थे द्योत्ये ढञ् प्रत्ययो भवति। वस्तिरिव वास्तेयः। वास्तेयी ॥
इवेत्यनुवर्तत एव । प्रतिकृताविति निवृत्तम् । वस्तिरिव वास्तेयम् । वास्तेयी ॥
'वस्ति' (कट्याः अधोभागे धारणार्थम् प्रयुक्तम् किञ्चन वस्त्रम् - A specific type of garment that is typically worn in the lower half of the body) इत्यस्मात् शब्दात् 'इव' इति सन्दर्भे ढञ् इति प्रत्ययः भवति । यथा - वस्तिः इव इदम् वस्त्रम् = वस्ति + ढञ् → वस्ति + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति ढकारस्य एय्-आदेशः] → वास्ति + एय [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → वास्त् + एय [<<यस्येति च>> 6.4.148 इति इकारलोपः] → वास्तेय । वस्तिः इव इदम् वस्त्रम् वास्तेयम् । अधरीयस्य निर्देशार्थमस्य शब्दस्य प्रयोगः भवति । विशेषः - स्त्रीत्वे विवक्षिते <<टिड्ढाणञ्..>> 4.1.15 इत्यनेन ङीप्-प्रत्यये कृते 'वास्तेयी' इति शब्दः अपि सिद्ध्यति । शाटिकायाः निर्देशार्थमस्य शब्दस्य प्रयोगः क्रियते । स्मर्तव्यम् - <<इवे प्रतिकृतौ>> 5.2.96 इत्यनेन प्रतिकृतेः विषये निर्दिष्टम् कन्-प्रत्ययं बाधित्वा प्रतिकृतेः विषये अन्येषु च विषयेषु सर्वत्र 'वस्ति' शब्दात् 'इव' इति सन्दर्भे ढञ्-प्रत्ययः एव भवति ।
<<वस्तेर्ढञ्>> - वस्तेर्ढञ् । निवृत्तमिति । अस्वरितत्वादिति भावः ।संज्ञायां चे॑त्यादिपूर्वसूत्रेषु क्वापि प्रतिकृतावित्यस्याऽनिवृत्तेर्न लुब्विधिषु तेषु तदनुवृत्तिरपेक्षिता । वस्तिरिवेति ।बस्तिर्नाभेरधो द्वयो॑रित्यमरः ।