यञश्च
4-1-16 यञः च प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् ङीप् अनुपसर्जनात्
Sampurna sutra
Up
Neelesh Sanskrit Brief
Up
यञ्-प्रत्ययान्त-प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विधीयते ।
Kashika
Up
ङीबित्येव। यञन्ताच्च प्रातिपदिकात् स्त्रियां ङीप् प्रत्ययो भवति। गार्गी। वात्सी॥ आपत्यग्रहणं कर्तव्यम्॥ इह मा भूत् — <<द्वीपादनुसमुद्रं यञ्>> ४.३.१० — द्वैप्या। योगविभाग उत्तरार्थः॥
Siddhanta Kaumudi
Up
यञन्तात्स्त्रियां ङीप्स्यात् । आकारलोपे कृते ॥
Laghu Siddhanta Kaumudi
Up
यञन्तात् स्त्रियां ङीप्स्यात्। अकारलोपे कृते -
Neelesh Sanskrit Detailed
Up
<<स्त्रियाम्>> 4.1.3 इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः ङीप् प्रत्ययः प्रकृतसूत्रेण पाठ्यते । यञ्-प्रत्ययान्त-प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति — इति अस्य सूत्रस्य आशयः । <<गर्गादिभ्यो यञ्>> 4.1.105 इत्यनेन सूत्रेण गर्गादिगणस्य शब्देभ्यः यः यञ्-प्रत्ययः पाठ्यते, तस्य विषये इदं सूत्रं प्रवर्तते । यथा, <<गर्गादिभ्यो यञ्>> 4.1.105 इत्यनेन गर्ग-शब्दात् गोत्रापत्यस्य निर्देशार्थम् यञ्-प्रत्यये कृते, तत्र स्त्रीत्वं द्योतयितुम् <<अजाद्यतष्टाप्>> 4.1.4 इत्यनेन टाप्-प्रत्यये प्राप्ते तद्बाधित्वा प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते । प्रक्रिया इयम् —
गर्गस्य गोत्रापत्यं स्त्री
→ गर्ग + यञ् + ङीप् [<<गर्गादिभ्यो यञ्>> 4.1.105 इति यञ् । ततः स्त्रीत्वं द्योतयितुम् <<यञश्च>> 4.1.16 इति ङीप्]
→ गार्ग + य + ई [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः]
→ गार्ग् + य + ई [<<यस्येति च>> 6.4.148 इति गकारोत्तस्य अकारस्य लोपः]
→ गार्ग् + य् + ई [<<यस्येति च>> 6.4.148 इति यकारोत्तस्य अकारस्य लोपः]
→ गार्ग + ० + ई [<<हलस्तद्धितस्य>> 6.4.150 इति यकारलोपः]
→ गार्गी
एवमेव वत्सस्य गोत्रापत्यं स्त्री = वात्सी इत्यपि सिद्ध्यति ।
वार्त्तिकम् — <!अनपत्याधिकारस्थान्न ङीप् !>
प्रकृतसूत्रेण उक्तः ङीप्-प्रत्ययः केवलम् <<तस्यापत्यम्>> 4.1.92 इत्यस्य अधिकारे पाठितस्य यञ्-प्रत्ययस्य विषये एव भवति — इति अस्य वार्त्तिकस्य अर्थः । यथा —
1. <<द्वीपादनुसमुद्रं यञ्>> 4.3.10 इत्यनेन उक्तस्य यञ्-प्रत्ययस्य विषये इसं सूत्रं नैव प्रयुज्यते । अतएव द्वीपे भवा इत्यस्मिन् अर्थे द्वीप-शब्दात् <<द्वीपादनुसमुद्रं यञ्>> 4.3.10 इत्यनेन यञ्-प्रत्यये कृते ततः <<अजाद्यतष्टाप्>> 4.1.4 इत्यनेन टाप्-प्रत्ययः एव भवति । द्वीपे भवा सा द्वैप्या ।
2. देवस्य अपत्यम् स्त्री इत्यस्मिन् अर्थे देव-शब्दात् <!देवाद्यञञौ!> इति वार्त्तिकेन यञ्-प्रत्यये कृते ततः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रम् नैव प्रयुज्यते, यतः <!देवाद्यञञौ!> इति वार्तिकम् <<दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः>> 4.1.85 इत्यस्मिन् सूत्रे पाठितम् अस्ति, तत् सूत्रम् च अपत्याधिकारे नैव विद्यते । अतएव देवस्य अपत्यम् स्त्री इत्यत्र यञ्-प्रत्ययान्तात् <<अजाद्यतष्टाप्>> 4.1.4 इति टाप्-प्रत्यये कृते दैव्या इत्येव शब्दः सिद्ध्यति ।
योगविभागः उत्तरार्थः
वस्तुतः प्रकृतसूत्रेण पृथग् रूपेण पाठितस्य यञ्-प्रत्ययस्य <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इति पूर्वस्मिन् सूत्रे एव निर्देशः भवितुम् अर्हतु । परन्तु अग्रिमसूत्रे <<प्राचां ष्फ तद्धितः>> 4.1.17 इत्यत्र केवलम् यञ् इत्यस्यैव अनुवृत्तिः इष्यते, अतः यञ्-प्रत्ययः प्रकृतसूत्रे पृथग् रीत्या निर्दिष्टः दृश्यते । यञ्-प्रत्ययस्य भिन्नसूत्रेण निर्देशः उत्तरसूत्रे अनुवर्तनार्थम् — इति आशयः ।
बाध्यबाधकभावः
1. <<गर्गादिभ्यो यञ्>> 4.1.105 इत्यस्मिन् सूत्रे निर्दिष्टे गर्गादिगणे विद्यमानानाम् लोहित इत्यस्मात् आरभ्य कत इति (प्रायेण उपत्रिंशत्) शब्दानां विषये यञन्तात् प्रातिपदिकात् प्रकृतसूत्रेण उक्तं ङीप्-प्रत्ययं बाधित्वा <<सर्वत्र लोहितादिकतन्तेभ्यः>> 4.1.18 इत्यनेन ष्फ-प्रत्ययः भवति । प्राचाम् आचार्याणां मतेन तु गर्गादिगणस्य सर्वेषाम् एव शब्दानां विषये ङीप्-प्रत्ययं बाधित्वा यञन्तात् ष्फ इत्येव प्रत्ययः विधीयते, इति <<प्राचां ष्फ तद्धितः>> 4.1.17 इत्यनेन सूत्रेण उच्यते ।
2. <<आवट्याच्च>> 4.1.75 इत्यनेन आवट्य इति यञन्तशब्दात् प्रकृतसूत्रेण उक्तं ङीप्-प्रत्ययं बाधित्वा चाप्-प्रत्ययः भवति ।
Balamanorama
Up
<<यञश्च>> - यञश्च । यञ इति प्रत्ययत्वात्तदन्तग्रहणम् । 'ऋन्नेभ्यः' इत्यतो ङीबित्यनुवर्तते । स्त्रियामित्यधिकृतम् । तदाह — यञन्तादिति । यद्यपिटिड्ढाणञि॑ति पूर्वसूत्र एव यञ्ग्रहणं कर्तुमुचितं 'तथापि ष्फ तद्धितः' इत्युत्तरसूत्रे यञ एवानुवृत्तये पृथक् सूत्रमिति भावः । अकारलोपे कृते इति । गार्गीत्युदाहरणं वक्ष्यति । गर्गस्यापत्यं स्त्री इत्यर्थेगर्गादिभ्यो यञि॑ति यञ्, आदिवृद्धिः,यस्येति चे॑ति गकारादकारस्य लोपः । गाग्र्यशब्दान्भीपिहलस्तद्धितस्ये॑ति यकारलोपात्परत्वात्यस्येति चे॑ति यकारादकारस्य लोपे कृते सति प्रक्रिया वक्ष्यत इत्यर्थः ।
Padamanjari
Up
आपत्यग्रहणमिति । अपत्ये भव आपत्यः, यञ्, आपत्यादिति सूत्रं कर्तव्यमित्यर्थः । द्वैप्येति । भवादावर्थे यञ् । योगविभाग उतरार्थ इति । उतरत्र यञ एवानुवृत्तिर्यथा स्यात्, टिदादीनां मा भूदिति ॥