सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च

4-3-23 सायंचिरंप्राह्णेप्रगेव्ययेभ्यः ट्युट्युलौ तुट् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् कालाट्

Sampurna sutra

Up

सायम्-चिरम्-प्राह्णे-प्रगे-अव्ययेभ्यः कालात् ट्यु-ट्युलौ तुट् च प्रत्ययः प्राग्दीव्यतः शेषे

Neelesh Sanskrit Brief

Up

प्राग्दीव्यतीयेषु शैषिकेषु अर्थेषु सायम्, चिरम्, प्राह्णे, प्रगे - एतेभ्यः शब्देभ्यः तथा कालवाचिभ्यः अव्ययेभ्यः ट्यु/ट्युलौ प्रत्ययौ, तथा प्रत्ययस्य तुट्-आगमः भवति ।

Neelesh English Brief

Up

The words सायम्, चिरम्, प्रगे, प्राह्णे, and all the कालवाचक-अव्ययानि get the ट्यु and ट्युल् प्रत्यय in the शैषिक-meanings. Also, the ट्यु and ट्युल् प्रत्यय get a तुट् आगम in this context.

Kashika

Up

कालादित्येव। सायं चिरं प्राह्णे प्रगे इत्येतेभ्योऽव्ययेभ्यश्च कालवाचिभ्यः ट्युट्युलौ प्रत्ययौ भवतः, तयोश्चादिष्टयोः तुडागमो भवति। सायंतनम्। चिरंतनम्। प्राह्णेतनम्। प्रगेतनम्। अव्ययेभ्यः — दोषातनम्। दिवातनम्। सायमिति मकारान्तं पदमव्ययम्, ततोऽव्ययत्वादेव सिद्धः प्रत्ययः। यस्तु स्यतेरन्तकर्मणो घञि सायशब्दस्तस्येदं मकारान्तत्वं प्रत्ययसन्नियोगेन निपात्यते। दिवसावसानं सायः। चिरशब्दस्यापि मकारान्तत्वं निपात्यते। प्राह्णे प्रगे इत्येकारान्तत्वम्॥ चिरपरुत्परारिभ्यस्त्नो वक्तव्यः॥ चिरत्नम्। परुत्नम्। परारित्नम्॥ प्रगस्त छन्दसि गलोपश्च॥ प्॒रत्नम् (ऋ० १.३६.४)॥ अग्रपश्चाड्डिमच्॥ अग्रिमम्॥ पश्चिमम्॥ अन्ताच्चेति वक्तव्यम्॥ अन्तिमम्॥

Siddhanta Kaumudi

Up

सायमित्यादिभ्यश्चतुर्भ्योऽव्ययेभ्यश्च कालवाचिभ्यः ट्युट्युलौ स्तस्तयोस्तुट् च । तुटः प्रागनादेशः । अनद्यतने <{SK2185}>इत्यादिनिर्देशात् । सायन्तनम् । चिरन्तम् । प्राह्णप्रगयोरेदन्तत्वं निपात्यते । प्राह्णेतनम् । प्रगेतनम् । दोषातनम् । दिवातनम् ।<!चिरपरुत्परारिभ्यस्त्नो वक्तव्यः !> (वार्तिकम्) ॥ चिरत्नम् । परुत्नम् । परारित्नम् ।<!अग्रादिपश्चाड्डिमच् !> (वार्तिकम्) ॥ अग्रिमम् । आदिमम् । पश्चिमम् ॥<! अन्ताच्च !> (वार्तिकम्) ॥ अन्तिमम् ॥

Laghu Siddhanta Kaumudi

Up

सायमित्यादिभ्यश्चतुर्भ्योऽव्ययेभ्यश्च कालवाचिभ्यष्ट्युट्युलौ स्तस्तयोस्तुट् च। सायन्तनम्। चिरन्तनम्। प्राह्णेप्रगे अनयोरेदन्तत्वं निपात्यते। प्राह्णेतनम्। प्रगेतनम्। दोषातनम्॥

Neelesh Sanskrit Detailed

Up

सायम् (= सायंकालः), चिरम् (= नित्यम् / बहुकालम्), प्राह्णे (= प्रातःकालः), प्रगे (= प्रातःकालः) एतानि चत्वारि अव्ययानि अनेनैव सूत्रेण निपात्यन्ते । एतेभ्यः शब्देभ्यः, तथा अन्येभ्यः कालवाचिभ्यः अव्ययेभ्यः प्राग्दीव्यतीय-शैषिकेषु अर्थेषु 'ट्यु' तथा 'ट्युल्' एतौ प्रत्ययौ भवतः, तथा प्रत्ययस्य 'तुट्' अयमागमः अपि भवति । कानिचन उदाहरणानि एतानि - 1. 'सायम् भवः' इत्यत्र <<तत्र भवः>> 4.3.53 अस्मिन् शैषिके अर्थे वर्तमानसूत्रेण ट्यु/ट्युलौ प्रत्ययौ कृत्वा - सायम् + ट्यु/ट्युल् → सायम् + अन [<<युवोरनाकौ>> 7.2.1 इति यु-इत्यस्य अन-आदेशः] → सायम् + तुट् + अन [<<सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च>> 4.2.23 इति तुट्-आगमः । अयमागमः <<आद्यन्तौ टकितौ>> 1.1.46 इत्यनेन प्रत्ययस्य आद्यवयवरूपेण आगच्छति । 'तुट्' इत्यत्र टकारः इत्संज्ञकः, उकारः च उच्चारणार्थः; अतः 'त्' एव अवशिष्यते ।] → सायंतन [<<मोऽनुस्वारः>> 8.3.23 इति पदान्तमकारस्य अनुस्वारः] → सायन्तन [<<अनुस्वारस्य ययि परसवर्णः>> 8.4.58 इति अनुस्वारस्य परसवर्णः नकारः] तथैव - चिरम् + ट्यु/ट्युल् → चिरन्तन । प्राह्णे + ट्यु/ट्युल् → प्राह्णेतन । प्रगे + ट्यु/ट्युल् → प्रगेतन । 2. 'श्वस्' इति कालवाचि अव्ययम् । अस्मात् अव्ययात् अपि वर्तमानसूत्रेण 'ट्यु' तथा 'ट्युल्' एतौ प्रत्ययौ भवतः - श्वस् + ट्यु/ट्युल् → श्वस् + अन [<<युवोरनाकौ>> 7.2.1 इति यु-इत्यस्य अन-आदेशः] → श्वस् + तुट् + अन [<<सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च>> 4.2.23 इति तुट्-आगमः । अयमागमः <<आद्यन्तौ टकितौ>> 1.1.46 इत्यनेन प्रत्ययस्य आद्यवयवरूपेण आगच्छति ।] → श्वस्तन एवमेव अद्यतन, अनद्यतन, ह्यस्तन, इदानीन्तन, पुरातन, प्राक्तन, दिवातन, दोषातन - एते शब्दाः अपि सिद्ध्यन्ति । ज्ञातव्यम् - 1. ट्यु तथा ट्युल् - द्वयोः अपि प्रत्यययोः प्रयोगेण अन्तिमरूपम् तु समानमेव जायते, केवलं स्वरे तत्र कश्चन विशेषः विधीयते । 'ट्युल्' प्रत्ययः लित्-अस्ति, अतः <<लिति>> 6.1.193 अनेन सूत्रेण प्रत्ययात् पूर्वः यः स्वरः सः उदात्तः जायते । यथा - 'सायम् + ट्युल् → सायन्तन' इत्यत्र यकारोत्तरः अकारः उदात्तः अस्ति । ट्यु-प्रत्यये तु लकारः इत्संज्ञकः नास्ति, अतः 'सायम् + ट्यु → सायन्तन' इत्यत्र यकारोत्तरः अकारः उदात्तः नास्ति, अपितु <<अनुदात्तं पदमेकवर्ज्यम्>> 6.1.158 इत्यनेन अनुदात्तस्वरं प्राप्नोति । 2. अत्र निर्दिष्टायां प्रक्रियायामादौ ट्यु/ट्युल्-प्रत्यययोः 'अन'-आदेशं कृत्वा तदनन्तरम् 'तुट्' आगमः कृतः अस्ति । यदि 'अन'-आदेशात् पूर्वम् एव 'तुट्' आगमः क्रियेत, तर्हि किम् भवेत्? 'सायम् + ट्यु/ट्युल्' इत्यत्र तुट्-आगमे कृते 'सायम् + तुट् + ट्यु/ट्युल्' इति प्राप्ते अग्रे यु-इत्यस्य अन-आदेशः एव न सम्भवति - 'तुट्' इत्यस्य व्यवधानात् । (<<युवोरनाकौ>> 7.2.1 इति अङ्गाधिकारे अस्ति, अतः अङ्गात् परस्य 'यु' प्रत्ययस्यैव अन-आदेशः भवति । अतः अङ्ग-प्रत्यययोः मध्ये तुट्-आगमः भवति चेत् 'यु' इत्यस्य अन-आदेशः न जायते) । परन्तु पाणिनिना अष्टाध्याय्याम् <<अनद्यतने लङ्>> 3.2.111 इत्यत्र स्वयमेव 'अनद्यतन' अयम् शब्दः प्रयुक्तः अस्ति । एतत् अस्यैव ज्ञापकम् यत् अत्र आदौ अन-आदेशं कृत्वा तदनन्तरमेव तुट्-आगमः करणीयः । अत्र कानिचन वार्त्तिकानि ज्ञातव्यानि - 1. <! चिर-परुत्-परारिभ्यः त्नः वक्तव्यः!> - चिर (= नित्यम् / बहुकालम्), परुत् (= गतवर्षे), परारि (= द्वौ वर्षौ पूर्वम्) - एतेभ्यः शब्देभ्यः शैषिकेषु अर्थेषु 'त्न' प्रत्ययः भवति । चिर + त्न → चिरत्न । परुत् + त्न → परुत्त्न । परारि + त्न → परारित्न । 2. <!प्रगस्य छन्दसि गलोपश्च!> - 'प्रग' (पूर्वम्) अस्य अव्ययस्य विषये वेदानां विषये शैषिकेषु अर्थेषु त्न-प्रत्ययः भवति, तथा प्रग-शब्दस्य 'ग' इत्यस्य लोपः अपि भवति । प्रग + त्न → प्रत्न । यथा - ऋग्वेदे 10.4.1 इत्यत्र 'धन्व॑न्निव प्र॒पा अ॑सि॒ त्वम॑ग्न इय॒क्षवे॑ पू॒रवे॑ प्रत्न राजन्' अयम् निर्देशः कृतः अस्ति । 3. <!अग्र-आदि-पश्चात् डिमच्!> - 'अग्र', 'आदि', 'पश्चात्' - एतेभ्यः शैषिकेषु अर्थेषु डिमच्-प्रत्ययः भवति । डिमच् अयम् डित्-प्रत्ययः , अतः <<टेः>> 6.4.143 इत्यनेन टिलोपं कृत्वा रूपं सिद्ध्यति । अग्र + डिमच् → अग्रिम । आदि + डिमच् → आदिम । पश्चात् + डिमच् → पश्चिम । 4. <!अन्तात् च!> - 'अन्त' शब्दात् अपि शैषिकेषु अर्थेषु डिमच्-प्रत्ययः भवति । अन्त + डिमच् → अन्तिम ।

Balamanorama

Up

Padamanjari

Up

इह'युवोरनाकौ' इत्यङ्गाधिकारे विहितत्वादनादेशो बहिरङ्गः, तुडागमस्तु प्रत्ययसन्नियोगेन विधानादन्तरङ्ग इति तेनैव तावद्भवितव्यम्, तत्र कृतेऽनादेशो न प्राप्नोति, किं कारणम् ? अङ्गस्य निमितं यो युस्तस्यानादेशः, तुटि त्वत्र सति त्युशब्दोऽङ्गस्य निमितं न युशब्दमात्रम्, ततश्च यथा मृत्युरित्यत्रानादेशो न भवति, तथात्रापि न स्यात् । यदि पुनरयं तुक् पूर्वान्तः क्रियते ? नैवं शक्यम् ; प्रातस्तनमित्यत्र ह्रि विसर्जनीयो न स्यात्, अपदान्तत्वात् । तस्मात्परादिरेवायं कर्तव्यः, तत्र चानादेशो न प्राप्नोति ? तत्राह - तयोश्चादिष्टयोस्तुडागमो भवतीति । आदिष्टयोरिति कृतादेशयोरित्यर्थः । एष चार्थ आदिष्टशब्दस्य अशेआद्यच्प्रत्ययान्तत्वेन लभ्यते, आदिश्यत इत्यादिष्टः, स ययोरस्ति तावादिष्टौ, तयोरादिष्टयोरिति । एतच्च'घकालतनेषु' इति निर्देशाल्लभ्यते, न ह्यनादिष्टयोस्तुड्विधाने नतशब्द उपपद्यते । प्रातस्तनमित्यत्र वृद्धाच्छ्ंअ परत्वाद्वाधत इति नोक्तम् ; च्छस्य बाधकमपि ठञं बाधमानयोष्ट।लुट।लुलोरुत्कृष्टबलयोर्दुर्बलेन छेन सह सम्प्रधारणाभावात् । मकारान्तं पदमव्ययमिति । स्वरादिषु पठितम् । अन्तकर्मण इति । अन्तक्रियस्य,'षो' न्तकर्मणिऽ इत्यस्येत्यर्थः । यद्यप्यसाववसानमात्रवनाची, घञन्तस्तु सायशब्दो दिवसान्तवचन इति न कालाधिकारस्य बाधशङ्का । प्रत्ययसन्नियोगेनेति । अन्यत्र त्वकारान्त एव, यथा - सायाह्नः, सायतर इति । आह च - संख्याविसायपूर्वस्याह्नस्येति । एकारान्तत्वमिति । निपात्यत इत्यनुषङ्गः । यत्र सप्तम्यर्थो नास्ति - प्राह्णः सोढोऽस्येत्यादौ, तदर्थं निपातनम् । जातादिके त्वर्थे'घकालतनेषु' इत्यलुका सिद्धम् । चिरपरुत्परारिभ्य इति । चिरशब्दस्य सूत्र उपादानात् ट।लुट।लुलावाप भवतः, न तु'कियतद्वहुषु कृञो' ज्विधानात्ऽ इतिवत्सूत्रस्य बाधः । परुत् उ पूर्वस्मिन् संवत्सरे, परारि उ पूर्वतरे । प्रत्नशब्दः पुराणवचनः । अग्रपश्चाड्डिमजिति । केचिदत्रादिशब्दमपि पठन्ति - अग्रादिपश्चादिति, ते'मध्यान्मः' इत्यत्रादेश्चेति वक्तव्यमिति न पठन्ति । डित्करणं पश्चादित्यत्र टिलोपार्थम् । ठव्ययानां भमात्रे टिलोपःऽ इत्यस्यैवायं प्रपञ्चार्थः ॥